बालमण्डनतीर्थमाहात्म्यवर्णनम्
विश्वामित्र उवाच
इंद्रोऽपि विष्णुवाक्येन हिमवंतं समागतः ॥
ऐरावतं समारुह्य नागेद्रं पर्वतोपमम्
॥१॥तत्रापश्यदृषींस्तान्स चमत्कार समुद्भवान् ॥
नियमैः संयमैर्युक्तान्सदाचारपरायणान् ॥
वानप्रस्थाश्रमोपेतान्कामक्रोधविवर्जितान्
॥२॥एके विप्राः स्थितास्तेषामेकांतरितभोजनाः ॥
षष्ठकालाशिनश्चान्ये चांद्रायणपरायणाः
॥३॥अश्मकुट्टाः स्थिताः केचिद्दंतोलूखलिनः परे ॥
शीर्णपर्णाशनाः केचिज्जलाहारास्तथा परे ॥
वायुभक्षास्तथैवान्ये तपस्तेपुः सुदारुणम्
॥४॥अथ शक्रं समालोक्य तत्राऽऽयांतं द्विजोत्तमाः ॥
पूजितं चारणैः सिद्धैस्तैरदृष्टं कदाचन
॥५॥ते सर्वे ब्राह्मणाः प्रोक्तास्तदाश्रमसमीपगैः
॥६॥अयं शक्रः समायातो भवतामाश्रमे द्विजाः ॥
क्रियतामर्हणं चास्मै यच्चोक्तं शास्त्रचिंतकैः
॥७॥ततस्ते ब्राह्मणाः सर्वे विस्मयोत्फुल्ललोचनाः ॥
संमुखाः प्रययुस्तूर्णं कृतांजलिपुटाः स्थिताः
॥८॥गृह्योक्तविधिना तस्मै संप्रहृष्टतनूरुहा. ॥
प्रोचुश्च विनयात्सर्वे किमागमनकारणम्
॥९॥निरीहस्यापि देवेंद्र कौतुकं नो व्यवस्थितम्
॥१०॥इन्द्र उवाच
कुशलं वो द्विजश्रेष्ठा अनिहोत्रेषु कृत्स्नशः ॥
तपश्चर्यासु सर्वासु वेदाभ्यासे तथा श्रुते
॥११॥हाटकेश्वरजं क्षेत्रं त्यक्त्वा तीर्थमयं शुभम् ॥
कस्मादत्र समायाता हिमार्तिजनके गिरौ
॥१२॥तस्मात्सर्वे मया सार्धं समागच्छंतु सद्द्विजाः ॥
चमत्कारपुरे पुण्ये बहुविप्रसमाकुले
॥१३॥वासुदेवसमादेशात्तत्र गत्वाथ सांप्रतम् ॥
गयाकूपे करिष्यामि श्राद्धं भक्त्या द्विजोत्तमाः
॥१४॥युष्मदग्रे चतुर्दश्यां प्रेतपक्ष उपस्थिते ॥
खेचरत्वं समायातं सर्वेषां भवतां स्फुटम्
॥१५॥सबालवृद्धपत्नीकाः साग्निहोत्रा मया सह ॥
तस्माद्गच्छत भद्रं वस्तत्र स्थानं भविष्यति
॥१६॥ब्राह्मणा ऊचुः
न वयं तत्र यास्यामश्चमत्कारपुरं पुनः ॥
अन्येऽपि ब्राह्मणास्तत्र वेदवेदांगपारगाः
॥१७॥नागरा याज्ञिकाः संति स्मार्ताः श्रुतिपरायणाः ॥
तेषामग्रे कुरु श्राद्धं श्रद्धा चेच्छ्राद्धजा तव
॥१८॥इन्द्र उवाच
तत्र ये ब्राह्मणाः केचिद्भवद्भिः संप्रकीर्तिताः ॥
तथाविधाश्च ते सर्वे वेदवेदांगपारगाः
॥१९॥श्रुताध्ययनसंपन्ना याज्ञिकाश्च विशेषतः ॥
परं द्वेषपराः सर्वे तथा परुषवादिनः
॥२०॥अहंकारेण संयुक्ताः परस्परजिगीषवः ॥
तपसा विप्रयुक्ताश्च भोगसक्ता दिवानिशम्
॥२१॥यूयं सर्वगुणोपेता विष्णुना मे प्रकीर्तिताः ॥
तस्मादागमनं कार्यं मया सार्धं समस्तकैः
॥२२॥ब्राह्मणा ऊचुः
अस्माभिस्तेन दोषेण त्यक्तं स्थानं निजं हि तत् ॥
बहुतीर्थसमोपेतं स्वर्गमार्गप्रदर्शकम्
॥२३॥यदि यास्यामहे तत्र त्वया सार्धं पुरंदर ॥
अस्माकं स्वजनाः सर्वे रागद्वेषपरायणाः
॥२४॥अपराधान्करिष्यंति नित्यमेव पदेपदे ॥
ईर्ष्याधर्मसमोपेताः परुषाक्षरजल्पकाः
॥२५॥ततः संपत्स्यते क्रोधः क्रोधाच्च तपसः क्षयः ॥
ततो न प्राप्यते मुक्तिस्तद्गच्छामः कथं विभो
॥२६॥अपरं तत्र भूपोऽस्ति देशे दानपरः सदा ॥
आनर्ताधिपतिः ख्यातः सर्वभूमौ सदैव सः
॥२७॥ददाति विविधं दानं हस्त्यश्वकनकादिकम् ॥
यदि तत्र न गृह्णीमस्तदा कोपं स गच्छति
॥२८॥भूपाले कोपमापन्ने स्वजनेषु विरोधिषु ॥
सिद्धिर्नो तपसोऽस्माकं तेन त्यक्तं निजं पुरम्
॥२९॥यदि गृह्णीमहे दानं तस्य भूपस्य देवप ॥
तपसः संप्रणाशः स्याद्यद्धि प्रोक्तं स्वयंभुवा
॥३०॥दशसूनासमश्चक्री दशचक्रिसमो ध्वजी ॥
दशध्वजि समा वेश्या दशवेश्यासमो नृपः
॥३१॥तत्कथं तस्य गृह्णीमो दानं पापरतस्य च ॥
यथाऽन्ये नागराः सर्वे लोभेन महतान्विताः
॥३२॥इन्द्र उवाच
प्रभावोऽयं द्विजश्रेष्ठास्तस्य क्षेत्रस्य संस्थितः ॥
हाटकेश्वरसंज्ञस्य सर्वदैव व्यवस्थितः
॥३३॥पितॄणां च सुतानां च बंधूनां च विशेषतः ॥
श्वश्रूणां च स्नुषाणां च भगिनीभ्रातृभार्ययोः
॥३४॥तस्याधस्तात्स्वयं देवो हाटकेश्वरसंज्ञितः ॥
पुरस्य विद्यते तस्य प्रतापेनाखिला जनाः
॥३५॥सन्तप्यंते ततो द्वेषं प्रकुर्वंति परस्परम् ॥
किं न श्रुतं भवद्भिस्तु यथा रामः सलक्ष्मणः ॥
सीतया सह संप्राप्तो विरोधं परमं गतः
॥३६॥सीतया लक्ष्मणेनैव सार्धं कोपेन संयुतः ॥
अवाच्यं प्रोक्तवान्विप्रास्तौ च तेन समं तदा
॥३७॥अपि मासं वसेत्तत्र यदि कोपविवर्जितः ॥
तदा मुक्तिमवाप्नोति स्वर्गभाक्पञ्चरात्रतः
॥३८॥तस्मात्तत्र प्रगंतव्यं युष्माभिस्तु मया सह ॥
ईर्ष्याधर्मं न युष्माभिस्ते करिष्यंति नागराः
॥३९॥न चैव भवतां कोपस्तत्रस्थानां भविष्यति ॥
प्रसादान्मम विप्रेंद्राः सत्यमेतन्मयोदितम्
॥४०॥आनर्तः पार्थिवो दाने योजयिष्यति न क्वचित् ॥
युष्माकं पुत्रपौत्रेभ्यो ये दास्यंति च कन्यकाः
॥४१॥सहस्रगुणितं तेषां तत्फलं संभविष्यति ॥
अमावास्यादिने श्राद्धं कन्यासंस्थे दिवाकरे
॥४२॥युष्मदग्रे द्विजश्रेष्ठा गया कूप्यां करिष्यति ॥
यस्तस्य तत्फलं भावि सहस्रशतसंमितम्
॥४३॥गयाश्राद्धान्न सन्देहः सत्यमेतन्मयोदितम् ॥
यदि श्राद्धकृते तत्र नायास्यथ द्विजोत्तमाः
॥४४॥ततः शापं प्रदास्यामि तपोविघ्नकरं हि वः ॥
एवं ज्ञात्वा मया सार्धं तत्राऽऽगच्छत सत्वरम्
॥४५॥इत्युक्तास्तेन ते सर्वे शक्रेण सह तत्क्षणात् ॥
कश्यपश्चैव कौंडिन्य उक्ष्णाशः शार्कवो द्विषः
॥४६॥बैजवापश्चैव षष्ठः कापिष्ठलो द्विकस्तथा ॥
एतत्कुलाष्टकं प्राप्तमिंद्रेण सह पार्थिव
॥४७॥अग्निष्वात्तादिकान्सर्वान्पितॄनाहूय कृत्स्नशः ॥
विश्वेदेवांस्तथा चैव प्रस्थितः पाकशासनः
॥४८॥सम्यक्छ्रद्धासमाविष्टश्चमत्कारपुरं प्रति ॥
एतस्मिन्नेव काले तु ब्रह्मा लोकपितामहः
॥४९॥गयायां प्रस्थितः सोऽपि श्राद्धार्थं तत्र वासरे ॥
विश्वेदेवाः प्रतिज्ञाय गयायां प्रस्थिता विधिम्
॥५०॥शक्र श्राद्धं परित्यज्य गता यत्र पितामहः ॥
शक्रोऽपि तत्पुरं प्राप्य गयाकूप्यामुपागतः
॥५१॥ततः स्नात्वाह्वयामास श्राद्धार्थं श्रद्धयान्वितः ॥
विश्वेदेवान्पितॄंश्चैव काले कुतपसंज्ञिते
॥५२॥एतस्मिन्नंतरे प्राप्ताः समाहूताश्च तेन ये ॥
पितरो देवरूपा ये प्रेतरूपास्तथैव च
॥५३॥प्रत्यक्षरूपिणः सर्वे द्विजोपांते समाश्रिताः ॥
विश्वेदेवा न संप्राप्ता ये गयायां गतास्तदा
॥५४॥ततो विलंबमकरोत्तदर्थं पाक शासनः ॥
विश्वेदेवा यतः श्राद्धे पूज्याः प्रथममेव च
॥५५॥एतस्मिन्नंतरे प्राप्तो नारदो मुनिसत्तमः ॥
शक्रं प्राह समागत्य विश्वेदेवाऽभिकांक्षिणम् ॥
५६ [।
नारद उवाच ॥
विश्वेदेवा गताः शक्र श्राद्धे पैतामहेऽधुना ॥
गयायां ते मया दृष्टा गच्छमानाः प्रहर्षिताः
॥५७॥तच्छ्रुत्वा तत्र कुपितस्तेषामुपरि तत्क्षणात् ॥
अब्रवीत्परुषं वाक्यं विप्राणां पुरतः स्थितः
॥५८॥विश्वेदेवान्विना श्राद्धं करिष्याम्यहमद्य भोः ॥
तथान्ये मानवाः सर्वे करिष्यंति धरातले
॥५९॥विश्वेदेवान्पुरः स्थाप्य योऽत्र श्राद्धं करिष्यति ॥
व्यर्थतां यास्यते तस्य ऊषरे वर्षितं यथा
॥६॥एवमुक्त्वा सहस्राक्ष एकोद्दिष्टानि कृत्स्नशः ॥
चकार सर्वदेवानां ये हता रणमूर्धनि
॥६१॥एतस्मिन्नेव काले तु वागुवाचाशरीरिणी ॥
येषामुद्दिश्य तच्छ्राद्धं कृतं तेषां नृपोत्तम
॥६२॥शक्रशक्र महाबाहो येषां श्राद्धं कृतं त्वया ॥
प्रेतत्वे संस्थितानां च प्रेतत्वेन विवर्जिताः
॥६३॥गताः स्वर्गप्रसादात्ते दिव्यरूपवपुर्धराः ॥
ये पुनः स्वर्गताः पूर्वं युध्यमाना महाहवे
॥६४॥ते च मोक्षं गताः सर्वे प्रसादात्तव वासव ॥
तच्छ्रुत्वा वासवो वाक्यं तोषेण महतान्वितः
॥६५॥अहो तीर्थमहो तीर्थं शंसमानः पुनःपुनः ॥
एतस्मिन्नन्तरे प्राप्ता विश्वे देवाः समुत्सुकाः
॥६६॥निर्वृत्य ब्रह्मणः श्राद्धं गयायां तत्र पार्थिव ॥
प्रोचुश्च वृत्रहंतारं कुरु श्राद्धं शतक्रतो
॥६७॥भूयोऽपि न विनाऽस्माभिर्लभ्यते श्राद्धजं फलम् ॥
वयं दूरात्समायातास्तव श्राद्धस्य कारणात् ॥
निर्वर्त्य ब्रह्मणः श्राद्धं येन पूर्वं निमंत्रिताः
॥६८॥तच्छ्रुत्वा वचनं तेषां कुपितः पाकशासनः ॥
अब्रवीत्परुषं वाक्यं मेघगम्भीरया गिरा
॥६९॥अद्यप्रभृति यः श्राद्धं मर्त्यलोके करिष्यति ॥
अन्योऽपि यो भवत्पूर्वं वृथा तस्य भविष्यति
॥७०॥एकोद्दिष्टानि श्राद्धानि करिष्यंत्यखिला जनाः ॥
सांप्रतं मर्त्यलोकेऽत्र मर्यादेयं कृता मया
॥७१॥भूताः प्रेताः पिशाचाश्च ये चान्ये श्राद्धहारकाः ॥
विश्वेदेवैः प्ररक्ष्यंते रक्षयिष्यामि तानहम्
॥७२॥यजमानस्य काये च श्राद्धं संयोज्य यत्नतः ॥
मया हताः प्रयास्यंति सर्वे ते दूरतो द्रुतम्
॥७३॥एवमुक्त्वा सहस्राक्षो विश्वेदेवांस्ततः परम् ॥
प्रोवाच ब्राह्मणान्सर्वान्विश्वेदेवैर्विना कृतम् ॥
श्राद्धकर्म भवद्भिस्तु कार्यमन्यैश्च मानवैः
॥७४॥तथेत्युक्ते द्विजेंद्रैश्च विश्वेदेवाः सुदुःखिताः ॥
रुरुदुर्बाष्पपूरेण प्लावयन्तो वसुन्धराम्
॥७९॥तेषामुष्णाश्रुणा तेन यत्पृथ्वी प्लाविता नृप ॥
भूतान्यंडान्यनेकानि संख्यया रहितानि च
॥७६॥ततोंऽडेभ्यो विनिष्क्रांताः प्राणिनो रौद्ररूपिणः ॥
कृष्णदंताः शंकुकर्णा ऊर्ध्वकेशा भयावहाः ॥
रक्ताक्षाश्च ततः प्रोचुर्विश्वेदेवांश्च ते नृप
॥७७॥वयं बुभुक्षिताः सर्वे भोजनं दीयतां ध्रुवम् ॥
भवद्भिर्विहिता यस्माद्याचयामो न चापरम्
॥७८॥विश्वेदेवा ऊचुः
अस्माभी रहितं श्राद्धं किञ्चित्संजायते क्षितौ ॥
श्रद्धया परया यच्च युष्माकं भावि भोजनम्
॥७९॥एवमुक्त्वा तु ते श्राद्धं विश्वेदेवा नृपोत्तम ॥
ब्रह्मलोकं गताः सर्वे दुःखेन महताऽन्विताः ॥
प्रोचुश्च दीनया वाचा प्रणिपत्य पितामहम्
॥८०॥वयं बाह्याः कृता देव श्राद्धानां बलविद्विषा ॥
तव श्राद्धे गता यस्माद्गयायां प्राङ्निमंत्रिताः
॥८१॥तेन रुष्टः सहस्राक्षस्तव चांते समागताः ॥
तस्मात्कुरु प्रसादं नः श्राद्धार्हाः स्याम वै यथा
॥८२॥तच्छ्रुत्वा सत्वरं ब्रह्मा कृपया परयान्वितः ॥
विश्वेदेवान्समादाय कूप्माण्डैस्तैः समन्वितान्
॥८३॥शक्रोऽपि श्राद्धकर्माणि कृत्वा तेषां दिवौकसाम् ॥
तीर्थयात्रापरो भूत्वा तथैव च व्यवस्थितः
॥९८४॥एतस्मिन्नेव काले तु ब्रह्मा तत्र समागतः ॥
विश्वेदेवसमायुक्तो हंसयानसमाश्रितः
॥८५॥शक्रोऽपि सहसा दृष्ट्वा संप्राप्तं कमलासनम् ॥
अर्घ्यमादाय पाद्यं च सत्वरं सम्मुखो ययौ
॥८६॥ततः प्रणम्य शिरसा साष्टांगं विनयान्वितः ॥
प्रोवाच प्रांजलिर्भूत्वा स्वागतं ते पितामह
॥८७॥तव संदर्शनादेव ज्ञातं जन्मत्रयं मया ॥
द्रुतं पूर्वं शुभं कर्म करोमि च यथाऽधुना
॥८८॥करिष्यामि परे लोके व्यक्तमेतदसंशयम्
॥८९॥निःस्पृहस्यापि ते देव यदागमनकारणम् ॥
तन्मे द्रुततरं ब्रूहि येन सर्वं करोम्यहम्
॥९०॥ब्रह्मोवाच
यैर्विना न भवेच्छ्राद्धं ममापि सुरसत्तम ॥
विश्वेदेवास्त्वया तेऽद्य श्राद्धबाह्या विनिर्मिताः
॥९१॥तत्त्वया न कृतं भद्रं तेन कर्म वितन्वता ॥
अप्रमाणं कृता वेदा यतश्च स्मृतयस्तथा
॥९२॥एते पूर्वं मया शक्र श्राद्धार्थं विनिमंत्रिताः ॥
पश्चात्त्वया न दोषोऽस्ति तस्माच्चैषां महात्मनाम्
॥९३॥तस्माच्छापप्रमोक्षार्थं त्वं यतस्व सुरेश्वर ॥
येन स्युः श्राद्धयोग्याश्च सर्वेऽमी दुःखिता भृशम्
॥९४॥पुरा ह्येतन्मया प्रोक्तं सर्वेषां च द्विजन्मनाम् ॥
एतत्पूर्वं च यच्छ्राद्धं सफलं तद्भविष्यति
॥९५॥तत्कथं मम वाक्यं त्वमसत्यं प्रकरोषि च
॥९६॥इंद्र उवाच
मयाऽपि कोपयुक्तेन शप्ता एते पितामह ॥
तद्यथा सत्यवाक्योऽहं प्रभवामि तथा कुरु
॥९७॥ब्रह्मोवाच
तव वाक्यं यथा सत्यं प्रभविष्यति वासव ॥
तथाऽहं संविधास्यामि विश्वेदेवार्थमेव ह
॥९८॥विश्वेदेवैर्विना श्राद्धं यत्त्वया समुदाहृतम् ॥
एकोद्दिष्टं नराः सर्वे करिष्यंति धरातले
॥९९॥तस्मिन्नहनि देवेंद्र त्वया यत्र विनिर्मितम् ॥
प्रेतपक्षे चतुर्दश्यां शस्त्रेण निहतस्य च
॥१००॥क्षयाहे चाऽपि संजाते विश्वेदेवैर्विना कृतम् ॥
नागरस्य शुभं श्राद्धं वचनान्मे भविष्यति
॥१०१॥शेषकाले तु यः श्राद्धं प्रकरिष्यति तैर्विना ॥
व्यर्थं संपत्स्यते तस्य मम वाक्यादसंशयम्
॥१०२॥मुक्त्वा शस्त्रहतं चैकं तस्मिन्नहनि यो नरः ॥
करिष्यति तथा श्राद्धं भूतभोज्यं भविष्यति ॥
विश्वामित्र उवाच ॥
तथेत्युक्ते तु शक्रेण ब्रह्मा लोकपितामहः ॥
विश्वेदेवैस्ततः प्रोक्तो विनयावनतैः स्थितैः
॥१०४॥एते पुत्राः समुत्पन्ना अस्मदश्रुभ्य एव च ॥
तेषां तु भोजनं दत्तं क्षुधार्तानां मया विभो
॥१०५॥अस्मद्विवर्जितं श्राद्धं कुपितैर्वासवोपरि ॥
तद्यथा जायते सत्यं वाक्यमस्मदुदीरितम्
॥१०६॥अस्माकं वासवस्यापि तथा कुरु पितामह ॥
निरूपय शुभाहारं येन स्यात्तृप्तिरुत्तमा
॥१०७॥एतेषामेव सर्वेषां प्रसादात्तव पद्मज
॥१०८॥पद्मज उवाच
श्राद्धकाले तु विप्राणां भोज्यपात्रेषु कृत्स्नशः ॥
भस्मरेखां प्रदास्यंति ह्येतैस्तत्त्याज्यमेव हि
॥१०९॥भस्मरक्षां विना यत्र किंचिच्छ्राद्धं भविप्यति ॥
एकोद्दिष्टं पार्वणं च वृद्धिश्राद्धमथापि वा
॥११॥एतेभ्यश्चैव तद्दत्तं मया तुष्टेन सांप्रतम् ॥
एवमुक्त्वा ततो नाम तेषां चक्रे पितामहः
॥१११॥कुशब्देन स्मृता भूमिः संसिक्ता चाश्रुणा यतः ॥
ततोंऽडानि च जातानि तेभ्यो जाता अमी घनाः ॥
कूष्मांडा इति विख्याता भविष्यंति जगत्त्रये
॥११२॥ततस्तांश्च त्रिधा कृत्वा क्रमेणैवार्पयत्तदा ॥
अग्नेर्वायोस्तथार्कस्य वाक्यमेतदुवाच ह
॥११३॥यजुर्वेदे प्रविख्यातं यद्देवति ऋचां त्रयम् ॥
तेन भागः प्रदातव्य एतेषां भक्तिहोमतः
॥११४॥कोटिहोमोद्भवे चैव निजभागस्य मध्यतः ॥
तेन तृप्तिं प्रयास्यंति मम वाक्यादसंशयम्
॥११५॥एवमुक्त्वा चतुर्वक्त्रस्ततश्चादर्शनं गतः ॥
विश्वेदेवास्तथा हृष्टाः कूष्माण्डाश्च विशेषतः
॥११६॥एतस्मात्कारणाद्रक्षा क्रियते भस्मसम्भवा ॥
विप्राणां भोज्यपात्रेषु श्राद्धे कूष्मांडजाद्भयात् ॥
नागराणां न वांछंति श्राद्धे छिद्रं यतः शृणु
॥११७॥तेषां स्थाने यतो जाता दाक्षिण्येन समन्विताः ॥
निषिद्धा भस्मजा रक्षा भर्तृयज्ञेन तेजसा
॥११८॥तदर्थं नागराः सर्वे न कुर्वन्ति हि कर्हिचित् ॥
इन्द्रोऽपि च गते तस्मिंश्चतुर्वक्त्रे निजालयम्
॥११९॥अब्रवीद्ब्राह्मणान्सर्वांश्चमत्कारपुरोद्भवान् ॥
कृतांजलिपुटो भूत्वा विनयावनतः स्थितः
॥१२०॥श्रूयतां मद्वचो विप्राः करिष्यथ ततः परम् ॥
स्थापयिष्याम्यहं लिंगं देवदेवस्य शूलिनः
॥१२१॥ततस्तैर्ब्राह्मणैस्तस्य दर्शितं स्थानमुत्तमम् ॥
सोऽपि लिंगं च संस्थाप्य प्रहृष्टस्त्रिदिवं ययौ
॥१२२॥विश्वामित्र उवाच
एतत्ते सर्वमाख्यातं यत्पृष्टोऽस्मि नराधिप ॥
गयाकूप्याश्च माहात्म्यं सर्वकामप्रदायकम्
॥१२३॥आनर्त उवाच
गयाकूप्याश्च माहात्म्यं भवता मे प्रकीर्तितम् ॥
बालमंडनजं वापि सांप्रतं वक्तुमर्हसि
॥१२४॥कस्मिन्स्थाने च शक्रेण तच्च लिंगं प्रतिष्ठितम ॥
वदास्माकं महाभाग तस्मिन्दृष्टे तु किं फलम्
॥२१५॥विश्वामित्र उवाच
सहस्राक्षेण ते विप्रा लिंगार्थं याचिता यदा ॥
स्थानं शुभं पवित्रं च सर्वक्षेत्रस्य मध्यगम्
॥१२६॥ततस्तैर्दर्शितं लिंगं सुपुण्यं बालमंडनम् ॥
यत्र बालाः पुरा जाता मरुदाख्या दितेः सुताः
॥१२७॥तेनैव च पुरा ध्वस्ता न च मृत्युमुपागताः ॥
तच्च मेध्यतमं ज्ञात्वा स्थानं दृष्टं पुरा च यत्
॥१२८॥यत्र दित्या तपस्तप्तं सुसुतं कांक्षमाणया ॥
तद्दृष्ट्वा परमं स्थानं जीवं प्रोवाच देवपः
॥१२९॥गुरो ब्रूहि ममाशु त्वं सुमुहूर्तं च सांप्रतम् ॥
दिवसं यत्र सल्लिंगं स्थापयामि हरोद्भवम् ॥
प्रलयेऽपि समुत्पन्ने न नाशो यत्र जायते
॥१३०॥ततः सोऽपि चिरं ध्यात्वा तं प्रोवाच शचीपतिम् ॥
माघमासे सिते पक्षे पुष्यर्क्षे रविवासरे
॥१३१॥त्रयोदश्यामभीष्टे तु संजातेऽ भ्युदये शुभे ॥
संस्थापय विभो लिंगं मम वाक्येन सांप्रतम्
॥१३२॥आकल्पांतसमं दिव्यं स्थिरं ते तद्भविष्यति ॥
तच्छ्रुत्वा देवराजस्तु हर्षेण महताऽन्वितः
॥१३३॥बालमंडनसांनिध्ये स्थापयामास तत्तदा ॥
विप्रपुण्याहघोषेण गीतवादित्रनिस्वनैः ॥
' १३४ ॥
ततो होमावसाने तु तर्पयित्वा द्विजोत्तमान् ॥
दक्षिणायां ददौ तेषामाघाटं स्थानमुत्तमम्
॥१३५॥मांकूले संस्थितं यच्च दिव्यप्राकारभूषितम् ॥
सर्वेषामेव विप्राणां सामान्येन नृपोत्तम
॥१३६॥ततोऽष्टकुलिकान्विप्रान्समाहूयाब्रवीदिदम् ॥
युष्माभिस्तु सदा कार्या चिंता लिंगसमुद्भवा
॥१३७॥अस्य यस्मान्मया दत्ता वृत्तिश्चन्द्रार्ककालिका ॥
सा च ग्राह्या तदर्थे च द्वादशग्रामसंभवा
॥१३८॥ब्राह्मणा ऊचुः
न वयं विबुधश्रेष्ठ करिष्यामो वचस्तव ॥
लिंगचिंतासमुद्भूतं श्रूयतामत्र कारणम्
॥१३९॥ब्रह्मस्वं विबुधस्वं च तडागोत्थं विशेषतः ॥
भक्षितं स्वल्पमप्यत्र नाश येत्सर्वपूर्वजान्
॥१४०॥यदि कश्चित्कुलेऽस्माकं जातस्तद्भक्षयिष्यति ॥
पातयिष्यति नः सर्वांस्तदस्माकं महद्भयम्
॥१४१॥अथ तं मध्यगः प्राह कृतांजलिर्द्विजोत्तमः ॥
दृष्ट्वाऽन्यमनसं शक्रं कृतपूर्वोपकारिणम्
॥१४२॥देवशर्माभिधानस्तु विख्यातः प्रवरैस्त्रिभिः ॥
अहं चिंतां करिष्यामि तव लिंगसमुद्भवाम्
॥१४३॥अपुत्रस्य तु मे पुत्रं यदि यच्छसि वासव ॥
यस्मात्संजायते वंशो यावदाभूतसंप्लवम्
॥१४४॥धर्मज्ञस्तु कृतज्ञस्तु देवस्वपरिवर्जकः ॥
तच्छ्रुत्वा वासवो हृष्टस्तमुवाच द्विजोत्तमम्
॥१४५॥इन्द्र उवाच
भविष्यति शुभस्तुभ्यं पुत्रो वंशधरः परः ॥
धर्मात्मा सत्यवादी च देवस्वपरिवर्जकः
॥१४६॥तस्यान्वये तु ये पुत्रा भविष्यंति महात्मनः ॥
ते सर्वेऽत्र भविष्यंति तद्रूपा वेदपारगाः
॥१४७॥अपरं शृणु मे वाक्यं यत्ते वक्ष्यामि सद्द्विज ॥
तथा शृण्वंतु विप्रेंद्राः सर्वे येऽत्र समागताः
॥१४८॥बालमण्डनके तीर्थे मयैतल्लिंगमुत्तमम् ॥
चतुर्वक्त्र समादेशाच्चतुर्वक्त्रं प्रतिष्ठितम्
॥१४९॥योऽत्र स्नानविधिं कृत्वा तीर्थेऽत्र पितृतर्पणम् ॥
आजन्म पितरस्तेन प्रभविष्यंति तर्पिताः ॥
६.२०६.१५० ग्रामा द्वादश ये दत्ता मया देवस्य चास्य भोः ॥
वसिष्यंति च ये विप्रा वृद्धिश्राद्ध उपस्थिते ॥
ते श्राद्धं प्रथमं चास्य कृत्वा श्राद्धं ततः परम्
॥१५१॥तत्कृत्यानि करिष्यन्ति ते विघ्नेन विवर्जिताः ॥
वृद्धिः संपत्स्यते तेषां नो चेद्विघ्नं भविष्यति
॥१५२॥माघमासे सिते पक्षे त्रयो दश्यां दिने स्थिते ॥
तद्ग्रामसंस्थिता लोका येऽत्रागत्य समाहिताः
॥१५३॥बालमण्डनके स्नात्वा लिंगमेतत्समाहिताः ॥
पूजयिष्यंति सद्भक्त्या ते यास्यंति परां गतिम्
॥१५४॥ग्रामाणां मम लिंगस्य ये करिष्यंति पीडनम् ॥
कालांतरेऽपि संप्राप्तास्ते यास्यंति च संक्षयम्
॥१५५॥पृथिव्यां यानि तीर्थानि ह्यासमुद्रसरांसि च ॥
बालमण्डनके तीर्थ आगमिष्यंति तद्दिने
॥१५६॥विश्वामित्र उवाच
एतदुक्त्वा सहस्राक्षस्ततश्चाष्टकुलान्द्विजान् ॥
अग्रतः कोपसंयुक्तस्ततोवचनमब्रवीत्
॥१५७॥एतैः सप्तकुलैर्विप्रैर्यत्कृतं वचनं न मे ॥
कृतघ्नैस्ता ञ्छपिष्यामि कृतघ्नत्वान्न संशयः
॥१५८॥यस्मादिदंपुरा प्रोक्तं मनुना सत्यवादिना ॥
स्वायंभुवेन प्रोद्दिश्य कृतघ्नं सकलं जनम्
॥१५९॥ब्रह्मघ्ने च सुरापे च चौरे भग्नवते शठे ॥
निष्कृतिर्विहिता सद्भिः कृतघ्ने नास्ति निष्कृतिः
॥१६०॥अवध्या ब्राह्मणा गावः स्त्रियो बालास्तपस्विनः ॥
तेनाऽहं न वधाम्येताञ्छिद्रेऽपि महति स्थिते
॥१६१॥ततस्तोयं समादाय सदर्भं निजपाणिना ॥
शशाप तान्द्विजश्रेष्ठान्कृतघ्नान्पाकशासनः
॥१६२॥मम वाक्यादपि प्राप्य एते लक्ष्मीं द्विजोत्तमाः ॥
निर्धनाः संभविष्यंति नीत्वा यद्द्वारतो ऽखिलम्
॥१६३॥भक्तानां च पीरत्यागमेतेषां वंशजा द्विजाः ॥
करिष्यंति न सन्देहो यथा मम सुनिष्ठुराः ॥
दाक्षिण्यरहिताः सर्वे तथा बह्वाशिनः सदा
॥१६४॥एवमुक्त्वाऽथ तान्विप्रान्सप्तवंशसमुद्भवान् ॥
पुनः प्रोवाच तान्विप्राञ्छेषान्नगरसंभवान्
॥१६५॥ममात्र दीयतां स्थानं स्थानेऽत्रैव द्विजोत्तमाः ॥
येन संवत्सरस्यांते पंचरात्रं वसाम्यहम्
॥१६६॥देवस्यास्य प्रपूजार्थं मर्त्यलोकसु खाय च ॥
ब्राह्मणानां प्रपूजार्थं सर्वेषां भवतामिह
॥१६७॥विश्वामित्र उवाच
ततस्ते ब्राह्मणाः सर्वे तदर्थं स्थानमुत्तमम् ॥
दर्शयामासुः संहृष्टाः प्रोचुश्च तदनंतरम्
॥१६८॥ब्रह्मस्थाने त्वया शक्र पंचरात्रमुपेत्य च ॥
स्थातव्यं मर्त्यलोकस्य सुखमासेव्यतां प्रभो
॥१६९॥अत्र स्थाने तवाऽग्रे तु करिष्यामो महोत्सवम् ॥
गीतवादित्रनिर्घोषैर्गंधमाल्यानुलेपनैः ॥
द्विजानां तर्पणैश्चैव सर्वकामसमृद्धिदम्
॥१७०॥विश्वामित्र उवाच
तच्छ्रुत्वा वचनं तेषां प्रहृष्टः पाकशासनः ॥
पूजयित्वा द्विजान्सर्वान्गतोऽथ त्रिदिवालयम्
॥१७१॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्ड हाटकेश्वरक्षेत्रमाहात्म्ये बालमण्डनतीर्थमाहात्म्यवर्णनंनाम षडुत्तर द्विशततमोऽध्यायः ॥ २०६ ॥