इन्द्रमहोत्सववर्णनम्
विश्वामित्र उवाच
एतत्ते सर्वमाख्यातं यत्पृष्टोऽस्मि नराधिप ॥
बालमंडनमाहात्म्यं सर्वपातकनाशनम्
॥१॥यत्रैकस्मिन्नपि स्नाने कृते पार्थिवसत्तम ॥
सर्वेषां लभ्यते पुण्यं तीर्थानां स्नानसंभवम् ॥
माघमासे त्रयोदश्यां शुक्लपक्ष उपस्थिते
॥२॥आनर्त उवाच
कस्माच्छक्रस्य संस्थानं पंचरात्रं धरातले ॥
नाधिकं जायते तेषां यथान्येषां दिवौकसाम्
॥३॥वर्षांते कानि चाहानि येषु शक्रो धरातले ॥
समागच्छति को मास एतत्सर्वं ब्रवीहि मे
॥४॥विश्वामित्र उवाच
श्रूयतामभिधास्यामि कथा मेनां धराधिप ॥
पंचरात्रात्परं शक्रो यथा न स्याद्धरातले
॥५॥आसीत्पूर्वं बृहत्कल्पे जयत्सेनः सुरेश्वरः ॥
त्रैलोक्यस्य समस्तस्य स्वामी दानवदर्पहा
॥६॥त्रैलोक्ये सकले पूजां भजमानः सदैव हि ॥
कस्यचित्त्वथ कालस्य गौतमस्य मुनेः प्रिया
॥७॥अहिल्यानाम भार्याऽभूद्रूपे णाप्रतिमा भुवि ॥
तां दृष्ट्वा चकमे शक्रः कामदेववशं गतः
॥८॥नित्यमेव समागत्य स्वर्गलोकात्स कामभाक् ॥
गौतमे निर्गते राजन्समिदिध्मार्थमेव हि ॥
दर्भार्थं फलमूलार्थं स्वयमेव महात्मभिः
॥९॥अथ तस्य समाचख्यौ नारदो मुनिसत्तमः ॥
शक्रस्य चेष्टितं सर्वं तथाहिल्यासमुद्भवम्
॥१॥तच्छ्रुत्वा सहसा तूर्णं गौतमो गृहमभ्यगात् ॥
यावत्पश्यति देवेशं सह पत्न्या समागतम्
॥११॥शक्रोऽपि गौतमं दृष्ट्वा पलायनपरायणः ॥
निर्जगामाश्रमात्तस्माद्विवस्त्रोऽपि भयाकुलः
॥१२॥अहिल्यापि भयत्रस्ता दृष्ट्वा भर्तारमागतम् ॥
अधोमुखी स्थिता राजंस्तदा व्याकुलितेंद्रिया
॥१३॥गौतमोऽपि च तद्दृष्ट्वा सम्यग्भार्याविचेष्टितम् ॥
ददौ शापं महाराज कोपसंरक्तलोचनः
॥१४॥यस्माच्छक्र पापकर्म कृतमीदृग्विगर्हितम् ॥
भार्या मे दूषिता साध्वी तस्मादवृषणो भव
॥१५॥सहस्रं च भगानां ते वक्त्रे भवतु मा चिरम् ॥
येन त्वं विप्लवं यासि त्रैलोक्ये सचराचरे
॥१६॥अपरं मर्त्यलोकेऽत्र यद्यागच्छसि वासव ॥
पूजाकृते ततो मूर्धा शतधा ते भविष्यति
॥१७॥एवं शप्त्वा च तं शक्रं ततोऽहिल्यामुवाच सः ॥
कोपसंरक्तनेत्रस्तु भर्त्सयित्वा मुहुर्मुहुः
॥१८॥यस्मात्पापे त्वया कर्म कृतमेतद्विगर्हितम् ॥
तस्माच्छिलामयी भूत्वा त्वं तिष्ठ वसुधातले
॥१९॥ततः सा तत्क्षणाज्जाता तस्य भार्या शिलात्मिका ॥
इन्द्रोऽपि च परित्यक्तो वृषणाभ्यां तथाऽभवत्
॥२०॥सहस्रभगचिह्नस्तु वक्त्रदेशे बभूव ह
॥२१॥अथ मेरोः समासाद्य कंदरं विजनं हरिः ॥
सव्रीडः सेवते नित्यं न जगाम निजां पुरीम्
॥२२॥ततो देवगणाः सर्वे सोद्वेगास्तेन वर्जिताः ॥
नो जानंति च तत्रस्थं कन्दरान्वेषणे रताः ओ
॥२३॥पीड्यंते दानवै रौद्रैः स्वर्गे जाते विराजके
॥२४॥एतस्मिन्नन्तरे जीवः शक्राण्या भयभीतया ॥
सोद्वेगया परिपृष्टः क्व गतोऽथ पुरंदरः
॥२५॥अथ जीवश्चिरं ध्यात्वा दृष्ट्वा तं ज्ञानचक्षुषा ॥
जगाम सहितो देवैः प्रोवाचाथ सुनिष्ठुरम्
॥२६॥किमित्थं राज्यभोगांस्त्वं त्यक्त्वा विजनमाश्रितः ॥
किं त्वया विहितं ध्यानं किं रौद्रं संश्रितं तपः
॥२७॥बृहस्पतेर्वचः श्रुत्वा भगवक्त्रः पुरंदरः ॥
प्रोवाच लज्जया युक्तो दीनो बाष्पपरिप्लुतः
॥२८॥नाहं राज्यं करिष्यामि त्रैलोक्येऽपि कथंचन ॥
पश्य मे यादृशी जाता ह्यवस्था गौतमान्मुनेः
॥२९॥सहस्रभगचिह्नेन कथं वक्त्रेण तानहम् ॥
देवान्संभावयिष्यामि पौलोमीं च तथा शिवम्
॥३॥मर्त्यलोकोद्भवा पूजा नष्टा मम बृहस्पते ॥
गौतमस्य मुनेः शापात्कस्मिंश्चित्कारणांतरे
॥३१॥तच्छ्रुत्वा देवराजस्य बृहस्पतिरुवाचह ॥
दुःखेन महता युक्तः सर्वैर्देवैः समावृतः ॥
गौतमस्य समीपे च गत्वा प्रोवाच तं स्वयम्
॥३२॥एतच्छक्रपरित्यक्तं त्रैलोक्यमपि चाखिलम् ॥
पीड्यते दानवैर्विप्र नष्टयज्ञोत्सवक्रियम्
॥३३॥नैष वांछति राज्यं स्वं लज्जया परया युतः ॥
तस्मादस्य प्रसादं त्वं यथावत्कर्तुमर्हसि ॥
अनुग्रहेण शापस्य मम वाक्याद्द्विजोत्तम
॥३४॥तच्छ्रुत्वा गौतमः प्राह न मे वाक्यं भवेन्मृषा ॥
न वाक्यं लोपयिष्यामि यदुक्तं स्वयमेव हि
॥३५॥ततः प्रोवाच ते विष्णुः स्वयं चापि महेश्वरः ॥
तथा देवगणाः सर्वे विनयावनता स्थिताः
॥३६॥अन्यथा ब्रह्मणो वाक्यं न ते कर्तुं प्रयुज्यते ॥
तस्मात्कुरुष्व विप्रेन्द्र शापस्यानुग्रहं हरेः
॥३७॥दृष्ट्वा तन्मनसो दार्ढ्यं सुरा विष्णुपुरोगमाः ॥
ब्रह्मणोंऽतिकमभ्येत्य तस्मै सर्वं न्यवेदयन्
॥३८॥शापं शक्रस्य संजातं तथा तस्मान्महामुनेः
॥३९॥यथा विडंबना जाता देवराजस्य गर्हिता ॥
तथा च दानवैः सर्वं त्रैलोक्यं व्याकुलीकृतम्
॥४०॥यथा न कुरुते राज्यं व्रीडितः स शचीपतिः ॥
तच्छ्रुत्वा पद्मजस्तूर्णं हरिशंभुसमन्वितः
॥४१॥जगाम तत्र यत्रास्ते दुःखितः पाकशासनः ॥
गौतमं च समानीय तत्रैव च पितामहः
॥४२॥ततः प्रोवाच प्रत्यक्षं देवानां वासवस्य च ॥
अयुक्तं देवराजेन विहितं मुनिसत्तम
॥४३॥यत्ते प्रदूषिता भार्या कामोपहतचेतसा ॥
न ते दोषोऽस्ति यच्छप्तश्छिद्रे चास्मिन्पुरंदरः ॥
परं प्रशस्यते नित्यं मुनीनां परमा क्षमा
॥४४॥यथा त्रैलोक्यराज्यं स्वं प्रकरोति शतक्रतुः ॥
त्वया स्वयं प्रसादेन तथा नीतिर्विधीयताम्
॥४५॥दत्त्वाऽस्य वृषणौ भूयो नाश यित्वा भगानिमान् ॥
मर्त्यलोके गतिश्चास्य यथा स्यात्तत्समाचर
॥४६॥तच्छ्रुत्वा वचनं तेषां स मुनिर्देवगौरवात् ॥
वृषणौ मेषसंभूतौ योजयामास तौ तदा
॥४७॥तान्भगान्पाणिना स्पृष्ट्वा चक्रे नेत्राणि सन्मुनिः ॥
ततः प्रोवाच तान्देवान्गौतमश्च महातपाः
॥४८॥सहस्राक्षो मया शक्रो निर्मितोयं सुरोत्तमाः ॥
स मेषवृषणश्चापि स्वं च राज्यं करिष्यति ॥
शोभाऽस्य नेत्रजा वक्त्रे सुरम्या संभविष्यति
॥४९॥पुंस्त्वं च मेषजोत्थाभ्यां वृषणाभ्यां भविष्यति ॥
न च मर्त्ये गतिश्चास्य पूजार्थं संभविष्यति
॥५०॥एतस्मिन्नन्तरे जातः सहस्राक्षः पुरंदरः ॥
शोभया परया युक्तो मुनेस्तस्य प्रभाव तः
॥५१॥ततः संगृह्य पादौ च गौतमस्य महात्मनः ॥
प्रोवाच वचनं शक्रः सर्वदेवसमागमे
॥५२॥दुर्लभा मर्त्यलोकोत्था पूजा ब्राह्मणसत्तम ॥
सा मे तव प्रसादेन यथा स्यात्तत्समाचर
॥५३॥त्रैलोक्यपतिजा संज्ञा मा नाशं यातु मे द्विज ॥
प्रसादात्तव सा नित्यं यथा स्यात्तद्विधीयताम्
॥५४॥तच्छ्रुत्वा लज्जयाविष्टः कृपया चाथ सन्मुनिः ॥
तमूचे सर्वदेवानां प्रत्यक्षं पाकशासनम्
॥५५॥पंचरात्रं च ते पूजा मर्त्यलोके भविष्य ति ॥
अनन्यां तृप्तिमभ्येषि यथा चैव तु वत्सरम्
॥५६॥यत्र देशे पुरे ग्रामे पंचरात्रं महोत्सवः ॥
तत्र संवत्सरं यावन्नीरोगो भविता जनः
॥५७॥आधयो व्याधयो नैव न दुर्भिक्षं कथंचन ॥
न च राज्ञो विनाशः स्यान्नैव लोकेऽसुखं क्वचित्
॥५८॥यत्र स्थाने महो भावी तावकश्च पुरंदर ॥
प्रभूतपयसो गावः प्रभविष्यंति तत्र च ॥
सुभिक्षं सुखिनो लोकाः सर्वोपद्रववर्जिताः
॥५९॥इन्द्र उवाच
यद्येवं शरदि प्राप्ते सर्व सत्त्वमनोहरे ॥
सप्तच्छदसमाकीर्णे बन्धूकसुविराजिते
॥६०॥मालतीगन्धसंकीर्णे नवसस्यसमाकुले ॥
चंद्रज्योत्स्नाकृतोद्द्योते षट्पदाराव संकुले
॥६१॥कुमुदोत्पलसंयुक्ते तत्र स्यात्सुमहोत्सवः ॥
येन बालोऽपि वृद्धोऽपि संहृष्टस्तत्समाचर
॥६२॥गौतम उवाच
अद्य श्रवणनक्षत्रे तव दत्तो महोत्सवः ॥
वैष्णवे पुण्यनक्षत्रे सर्वपापविवर्जिते
॥६३॥त्वया मे धर्षिता भार्या पौष्णे नक्षत्रसंज्ञिते ॥
तस्मिन्भविष्यति व्यक्तं तव पातः पुरंदर
॥६४॥येनैषा मामकी कीर्तिस्तावकं वक्तु कर्म तत् ॥
विख्यातिं यातु लोकेऽत्र न कश्चित्पापमाचरेत्
॥६५॥श्रवणादीनि पंचैव नक्षत्राणि पृथक्पृथक् ॥
तव पूजाकृते पंच क्रतुतुल्यानि तानि च ॥
भविष्यंति न संदेहः सर्वतीर्थमयानि च
॥६६॥यो यं काममभिध्याय पूजां तव करिष्यति ॥
विशेषात्फलपुष्पैश्च स तं कृत्स्नमवाप्नुयात्
॥६७॥परं मूर्तिर्न ते पूज्या कुत्रापि च भविष्यति ॥
त्वया मे दूषिता भार्या ब्राह्मणी प्राणसंमता
॥६८॥तस्माद्वृक्षोद्भवां यष्टिं ब्राह्मणा वेदपारगाः ॥
तावकैः सकलैर्मंत्रैः स्थापयिष्यंति शक्तितः
॥६९॥पंचरात्रविधानेन यथान्येषां दिवौकसाम् ॥
ततः संक्रमणं कृत्वा पूजा मर्त्यसमुद्भवा ॥
त्वया ग्राह्या सहस्राक्ष तृप्तिश्चैव भविष्यति
॥७०॥यो यथा चैव ते यष्टिं सुप्तामुत्थापयिष्यति ॥
तस्य तस्याधिका सिद्धिः संभविष्यंति वासव
॥७१॥पंचरात्रव्रतरतो यो ब्रह्मचर्यपरायणः ॥
प्रकरिष्यति ते पूजां फलपुष्पैर्यथोदितैः
॥७२॥परदारकृतात्पापात्स सर्वान्मुक्तिमेष्यति
॥७३॥नमः शक्राय देवाय शुनासीराय ते नमः ॥
नमस्ते वज्रहस्ताय नमस्ते वज्रपाणये
॥७४॥मन्त्रेणानेन यश्चार्घ्यं तव शक्र प्रदास्यति ॥
परदारकृतं पापं तस्य सर्वं प्रयास्यति
॥७८५॥यश्चेदं तव संवादं मया सार्धं पुरंदर ॥
कीर्तयिष्यति सद्भक्त्या तथैवाकर्णयिष्यति
॥७६॥तस्य संवत्सरं यावन्नैव रोगो भविष्यति ॥
तच्छ्रुत्वा विबुधाः सर्वे तथेत्युक्त्वा प्रहर्षिताः
॥७७॥जग्मुः शक्रं समादाय पुनरेवामरावतीम् ॥
गौतमोऽपि निजा वासं गतः कोपसमाश्रितः
॥७८॥इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्य इन्द्रमहोत्सववर्णनंनाम सप्तोत्तरद्विशततमोऽध्यायः ॥ २०७ ॥