मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — नागरखण्डः, अध्याय २७८

3
नागरखण्डः · 278

ये चान्ये भास्करा स्तत्र संति ब्राह्मणसत्तमाः

सूत उवाच

ये चान्ये भास्करा स्तत्र संति ब्राह्मणसत्तमाः ॥

हाटकेश्वरजे क्षेत्रे याज्ञवल्क्यप्रतिष्ठिताः

॥१॥

यस्तान्पूजयते भक्त्या हृदि कृत्वाऽभिवांछितान् ॥

सप्तम्यां चैव सप्तम्यां लभते नात्र संशयः

॥२॥

ऋषय उचुः ॥

एक एव स्थितः सूर्यो दृश्यते च नभस्तले ॥

तत्कथं द्वादशैते च तत्र क्षेत्रे प्रतिष्ठिताः ॥

कस्मिन्काले तथा कृत्ये किमर्थं सूतनन्दन

॥३॥

सूत उवाच

आसीत्पूर्वं कृतिर्नाम शुनःशेपसमुद्भवः

॥४॥

तस्य पुत्रः शुनः पुत्रो बभूव मुनिसत्तमः ॥

चारायणः सुतस्तस्य वभूव मुनिसत्तमः

॥५॥

कस्यचित्त्वथ कालस्य ब्रह्मा लोक पितामहः ॥

सावित्रीशापनिर्दग्धो ह्यवतीर्णो धरातले

॥६॥

गायत्री च यदा विप्रास्तेनोढा यज्ञकर्मणि ॥

प्राक्स्थितां च परित्यज्य सर्वदेवसमागमे ॥

कालात्ययो भवेन्नैव सावित्र्यागमने स्थिरे

॥७॥

ततस्तस्य समादेशाद्गायत्री गोपकन्यका ॥

शक्रेण च समानीता दिव्यलक्षणलक्षिता

॥८॥

गोपकन्यां च तां ज्ञात्वा गोश्च वक्त्रेण पद्मजः ॥

प्रवेश्याकर्षयामास गुह्येन च ततः परम्

॥९॥

ब्राह्मणानां गवां चैव कुलमेकं द्विधा स्थितम् ॥

एकत्र मन्त्रास्तिष्ठंति हविरेकत्र संस्थितम्

॥१०॥

तेन तां ब्राह्मणीं कृत्वा पश्चात्तस्याः परिग्रहम् ॥

गृह्योक्तविधिना चक्रे पुरःस्थोऽपि पितामहः

॥११॥

पत्नीशालोपविष्टायां ततस्तस्यां द्विजोत्तमाः ॥

सावित्री समनुप्राप्ता देवपत्नीभिरावृता

॥१२॥

ततस्तां सा समालोक्य रशनासमलंकृताम् ॥

दौर्भाग्यदुःखमापन्ना शशाप च विधिं ततः

॥१३॥

सावित्र्युवाच

यस्मात्त्वया परित्यक्ता निर्दोषाहं पितामह ॥

पितामहोऽसि मे नूनमद्यप्रभृति संगमे

॥१४॥

मनुष्याणां भवेत्कृत्यमन्यनारीपरिग्रहः ॥

एतत्त्वया कृतं यस्मान्मा नुषस्त्वं भविष्यसि

॥१५॥

कामार्तश्च विशेषेण मम वाक्यादसंशयम्

॥१६॥

एवमुक्त्वा तु सावित्री त्यक्त्वा तं यज्ञमंडपम् ॥

गिरेः शिखरमारूढा तपश्चक्रे महत्ततः

॥१७॥

पितामहोऽपि तच्छापाच्चारायणनिवेशने ।

अवतीर्णो धरापृष्ठे कालेन महता ततः

॥१८॥

स यदा यौवनं भेजे मानुषं च पुरा स्थितः ॥

तथातथा च तापेन कामोत्थेन प्रपीड्यते ॥

ततोऽसौ वीक्षते नारीं कन्यां वाथ तपस्विनीम् ॥

अविकल्पमना भेजे रूपसौभाग्यगर्वितः

॥२०॥

ततस्तं ब्यसनार्तं च दृष्ट्वा चारायणो मुनिः ॥

स्वयं निःसारयामास प्रकोपेन निजाश्रमात्

॥२१॥

स च पित्रा परित्यक्तो भ्रममाणस्ततस्ततः ॥

चमत्कारपुरं प्राप्तः शाकल्यो यत्र तिष्ठति

॥२२॥

नाम्ना ब्राह्मणशार्दूलो नागरो वेदपारगः ॥

वृतः शिष्य सहस्रेण वेदविद्यां प्रचारयन्

॥२३॥

अथ तं स प्रणम्योच्चैः शिष्यत्वं समुपागतः ॥

वेदाध्ययनसंपन्नो बभूवाथ चिरादपि

॥२४॥

एतस्मिन्नेव काले नु आनर्ताधिपतिः स्वयम् ॥

आगतस्तिष्ठते यत्र जलशायी हरिः स्वयम्

॥२५॥

चातुर्मास्यव्रतं तेन गृहीतं तत्पुरस्तदा ॥

प्रार्थितस्तु ततो विप्राः शाकल्यस्तैन भूभुजा

॥२६॥

शांतिकं पौष्टिकं नित्यं त्वया कार्यं ममालये ॥

यावत्तिष्ठाम्यहं चात्र प्रसादः क्रियतामिति

॥२७॥

बाढमित्येव स प्रोक्त्वा दाक्षिण्येन द्विजोत्तमाः ॥

एकैकं प्रेषयामास स्वशिष्यं तस्य मंदिरे

॥२८॥

स शांतिकं विधायाथ दत्त्वाशीः पार्थिवस्य च ॥

संप्राप्य दक्षिणां तस्मात्पुनरेति च तं द्विजम्

॥२९॥

शाकल्याय च तां दत्त्वा दक्षिणां निजमंदिरे ॥

जगाम नित्यमेवं हि व्यवहारो व्यवस्थितः

॥३०॥

अन्यस्मिन्नहनि प्राप्ते शाकल्येन विसर्जितः ॥

शांत्यर्थं याज्ञवल्क्यस्तु पार्थिवस्यनिवेशनम्

॥३१॥

तस्य भूपस्य रूपाढया मंथरास्ति विलासिनी ॥

रात्रौ च कामिता तेन कामाढयेन सुकामिनी

॥३२॥

भावैर्वात्स्यायनप्रोक्तैः समालिंगनपूर्वकैः ॥

स तया विविधैः कृत्तो मयूरपदकादिभिः ॥

शरीरे चाधरे चैव तथा मणिप्रवालकैः

॥३३॥

संप्राप्तोऽध्ययनार्थाय यावच्छाकल्यसन्निधौ ॥

तावत्संप्रेषितस्तेन शांत्यर्थं भूपमंदिरे

॥३४॥

सोऽपि संप्रेषितस्तेन गत्वा तं पार्थिवालयम् ॥

शांतिकं च ततश्चक्रे यथोक्तविधिना द्विजाः

॥३५॥

शांतिकस्यावसाने तु प्रगृह्य कलशोदकम् ॥

पंचांगैः कल्पितं रुद्रैः स्वयमेवाभिमंत्रितैः

॥३६॥

साक्षतं सुमनोयुक्तं समादाय गतस्ततः ॥

संतिष्ठते नृपो यत्र आनर्तो त्रतसंयुतः

॥३७॥

द्यामालेखीति मंत्रं स प्रोच्चार्य विधिपूर्वकम् ॥

छंदर्षिसहितं चैव यावत्क्षिपति मस्तके ॥

तावन्निरीक्षितस्तेन नखलेखाविकर्तितः

॥३८॥

खंडितेनाधरेणैव ततोऽभूद्दुर्मना नृपः

॥३९॥

विटप्रायं तु तं दृष्ट्वा मलिनांबरधारिणम् ॥

तं प्रोवाच विहस्योच्चै देहि विप्राऽक्षताञ्जलम्

॥४०॥

मंदुरायां स्थितं यच्च काष्ठमेतत्प्रदृश्यते ॥

याज्ञवल्क्यस्ततो दृष्ट्वा सकोपस्तमुपाद्रवत्

॥४१॥

क्षिप्त्वा तत्र जलं विप्राः साक्षतं गृहमागमत् ॥

अगृह्य दक्षिणां तस्य पार्थिवस्य यथास्थिताम्

॥४२॥

एतस्मिन्नंतरे तस्य धवकाष्ठस्य सर्वतः ॥

निष्क्रांता विविधाः शाखाः पल्लवैः समलंकृताः

॥४३॥

तद्दृष्ट्वा विस्मितः सोऽथ आनर्ताधिपतिर्नृपः ॥

पश्चात्तापं परं चक्रे धिङ्मयैवमनुष्ठितम्

॥४४॥

स नूनं विबुधः कोऽपि विप्ररूपेण संगतः ॥

येनेदृशः प्रभावोऽयं तस्य मंत्रस्य संस्थितः

॥४५॥

यद्यहं प्रतिगृह्णामि तस्य मन्त्रोदितं जलम् ॥

जरामरणहीनस्तु तद्भवाभि न संशयः

॥४६॥

एवं चिंतयतस्तस्य तद्दिनं विस्मितस्य च ॥

पार्थिवस्य द्विजश्रेष्ठा जातं वर्षशतोपमम्

॥४७॥

दिवसे तु समाक्रांते कथंचित्तस्य भूपतेः [।

विभावरी क्षयं याति कथंचिन्नैव शारदी

॥४८॥

ततः प्रभातसमये समुत्थाय महीपतिः ॥

आह्वयामास शाकल्यं पुरुषैराप्तकारिभिः

॥४९॥

ततः प्रोवाच विनयात्सादरं प्रांजलिः स्थितः ॥

कल्ये शिष्यः समायातो यस्त्वदीयो ममांतिकम्

॥५०॥

शांत्यर्थं प्रेषणीयस्तु सोऽद्यापि च द्विजोत्तम ॥

तस्योपरि परा भक्तिर्मम जाताऽद्य केवलम्

॥५१॥

स तथेति प्रतिज्ञाय गत्वाऽथ निजमन्दिरम् ॥

प्रोवाच याज्ञवल्क्यं च शांत्यर्थं श्लक्ष्णया गिरा

॥५८२॥

गच्छ वत्स त्वमद्यैव पार्थिवस्य निवेशनम् ॥

शांत्यर्थं तेन भूयोऽपि त्वमेवाशुनिमंत्रितः

॥५३॥

याज्ञवल्क्य उवाच

नाहं यास्यामि तद्धर्म्ये शांत्यर्थं द्विजपुंगव ॥

अनादरेण दृष्टोऽहं नाशीर्मे च समाहृता

॥५४॥

काष्ठोपरि मया दत्ता तस्य वाक्यादसंशयम् ॥

तस्मात्प्रेषय चान्यं त्वं गुरो शिष्यं विचक्षणम् ॥

आनर्तं रंजयेद्यस्तु विवेकेन समन्वितम्

॥५५॥

शाकल्य उवाच

राजाऽऽदेशः सदा कार्यः पुरुषैर्देशवासिभिः ॥

योगक्षेमविधानाय तथा लाभाय केवलम्

॥५६॥

प्रतिकूलो भवेद्यस्तु पाथिवानां स मन्दधीः ॥

न तस्य जायते सौख्यं कथंचिद्द्विजसत्तम

॥५७॥

ये जात्यादि महोत्सेकान्न नरेंद्रानुपासते ॥

तेषामामरणं भिक्षा प्रायश्चित्तं विनिर्मितम्

॥५८॥

एवं तयोर्विवदतोस्तदा वै गुरुशिष्ययोः ॥

भूयोऽपि तत्र संप्राप्ताः पुरुषाः पार्थिवेरिताः

॥५९॥

प्रोचुश्च त्वरया युक्ताः शाकल्यं प्रांजलिस्थिताः ॥

शिष्यं तं प्रेषय क्षिप्रं राजा मार्गं प्रतीक्षते

॥६०॥

असकृत्प्रोच्यमानोऽपि यदा गच्छति नैव सः ॥

तदा संप्रेषयामास उद्दालकमथारुणिम्

॥६१॥

शिष्यं विनयसंपन्नं कृतांजलिपुटं स्थितम् ॥

गच्छ वत्स समादेशात्सांप्रतं नृपमंदिरम्

॥६२॥

शांतिकर्म विधायाथ स्वाध्यायं च ततः कुरु

॥६३॥

स तथेति प्रतिज्ञाय गत्वा तं पार्थिवालयम् ॥

चकार शांतिकं कर्म विधिदृष्टेन कर्मणा

॥६४॥

ततः कलशतोयं स साक्षतं सुमनोन्वितम् ॥

गृहीत्वोपाद्रवत्तत्र यत्र राजा व्यवस्थितः

॥६५॥

राजोवाच

स्वकीयमन्त्रलिंगेन अभिषेकं तु यच्छ भोः ॥

काष्ठस्यास्य यदग्रे ते प्रोत्थितं तिष्ठते द्विज

॥६६॥

ततस्तेन शुभं मंत्रं प्रोच्याभीष्टं जलं स्वयम् ॥

अभिषिच्य च तत्काष्ठं ततश्च स्वगृहं ययौ

॥६७॥

तावद्रूपं च तत्काष्ठं दृष्ट्वाऽऽनर्तो महीपतिः ॥

विषादसहितश्चैव पश्चात्तापसमन्वितः

॥६८॥

भूयस्तु प्रेषयामास याज्ञवल्क्यकृते तदा ॥

अन्यं दूतं विदग्धं च शाकल्यस्य द्विजाश्रयम्

॥६९॥

वेदना कायसंस्था मे वर्तते द्विजसत्तम ॥

शांत्यर्थं प्रेषया क्षिप्रं तं शिष्यं पूर्वसंचितम्

॥७०॥

अपमानं कृतं तस्य मया कल्ये द्विजोत्तम ॥

तेन मे सहसा व्याधिराशीर्वादमनिच्छतः

॥७१॥

तस्मात्प्रेषय मे शीघ्रं येन मे स्वस्थता भवेम् ॥

असकृत्प्रोच्यमानोऽपि यदा नैव स गच्छति

॥७२॥

याज्ञवल्क्यस्ततः शिष्यमन्यं प्रोवाच सादरम् ॥

ततस्तं मधुकं पैग्यं प्रेषयामास तद्गृहे

॥७३॥

तेनापि विहितं तच्च यथोद्दालकनिर्मितम् ॥

आशीर्वादो नृपोद्देशाद्दत्तः काष्ठस्य तस्य च

॥७४॥

तद्रूपमपि तत्काष्ठं दृष्ट्वा भूयोऽपि पार्थिवः ॥

अन्यं संप्रेषयामास याज्ञवल्क्यकृते नरम्

॥७९॥

असकृत्प्रोच्यमानोऽपि याज्ञवल्क्यो व्रजेन्न हि ॥

यदा तदा बहुगुणमन्यं शिष्यं प्रदिष्टवान्

॥७६॥

प्रचूडं भागवित्तिं च सोऽपि गत्वा यथा पुरा ॥

चकार शांतिकं कर्म यथा ताभ्यां पुरा कृतम्

॥७७॥

ततः शांत्युदकं तस्मिन्प्राक्षिपच्चैव दारुणि ॥

मंत्रवच्च तथाप्येव तद्रूपं च व्यवस्थितम्

॥७८॥

ततः स्वयं ययौ राजा शाकल्यस्य निवेशनम् ॥

याज्ञवल्क्यस्य मन्त्रार्थं पश्चात्तापसमन्वितः

॥७९॥

प्रणम्य स द्विजश्रेष्ठः शाकल्यं च द्विजोत्तमम् ॥

शांत्यर्थं मम हर्म्ये त्वं कल्ये शिष्यं समादिश ॥

येन मे जायते शांतिः शरीरस्य द्विजोत्तम

॥८०॥

ततः प्रोवाच शाकल्यो याज्ञवल्क्यं द्विजोत्तमाः ॥

भूयोऽपि शृण्वतस्तस्य आनर्तस्य महीपतेः

॥८१॥

याज्ञवल्क्य द्रुतं गच्छ ममादेशान्नृपालयम् ॥

राज्ञोस्य रोगनाशाय शांतिकं कुरु पुत्रक

॥८२॥

याज्ञवल्क्य उवाच

नाहं तत्र गमिष्यामि गुरो मैवं ब्रवीहि माम् ॥

अपमानः कृतोऽनेन गुरो मम महीभुजा

॥८३॥

तस्य तद्वचनं श्रुत्वा स कोपं परमं गतः ॥

अब्रवीद्भर्त्समानस्तु याज्ञवल्क्यं ततः परम्

॥८४॥

एकमप्यक्षरं यस्तु गुरुः शिष्ये निवेदयेत् ॥

पृथिव्यां नास्ति तद्द्रव्यं यद्दत्त्वा चानृणी भवेत्

॥८५॥

यस्मात्त्वं शिष्यतां गत्वा मम वाक्यं करोषि न ॥

तस्मात्त्वां योजयिष्यामि ब्रह्म शापेन सांप्रतम्

॥८६॥

याज्ञवल्क्य उवाच

अन्यायेन हि चेच्छापं गुरो मम प्रदास्यसि ॥

अहमप्येव दास्यामि प्रतिशापं तवाधुना

॥८७॥

गुरोरप्यवलिप्तस्य कार्याकार्यमजानतः ॥

उत्पथे वर्तमानस्य परित्यागो विधीयते

॥८८॥

तस्मात्त्वं हि मया त्यक्तः सांप्रतं हि न मे गुरुः ॥

अविशषेण शिष्यार्थं यदादेशं प्रयच्छसि

॥८९॥

यावंतस्ते स्थिताः शिष्यास्तावद्भिर्दिवसैरहम् ॥

तवादेशं करिष्यामि नोचेद्यास्यामि दूरतः

॥९०॥

शाकल्य उवाच

यदि गच्छसि चान्यत्र तत्त्वं विद्यां परित्यज ॥

यां मया पाठितः पाप व्रज पश्चात्कुशिष्य भोः

॥९१॥

मयाभिमंत्रितं तोयं क्षुरिकामुण्डसंभवम् ॥

पिब तस्याः प्रभावेण शीघ्रमेव त्यजिष्यसि ॥

जठरान्मामकीं विद्यां त्वयाधीता पुरा तु या

॥९२॥

एवमुक्त्वा स चामंत्र्य मंत्रैराथर्वणैर्जलम् ॥

पानाय प्रददौ तस्मै वांत्यर्थं सद्विजोत्तमः

॥९३॥

याज्ञवल्क्योऽपि तत्पीत्वा जलं तेनाभिमंत्रितम् ॥

वांतिं कृत्वा सहान्नेन तद्विद्यां तां परित्यजत्

॥९४॥

ततो मूढत्वमापन्नो विश्वामित्रह्रदं शुभम् ॥

गत्वा स्नातो विधानेन शुचि र्भूत्वा समाहितः

॥९५॥

चकार मूर्तीस्ता भक्त्या रवेर्द्वादशसंख्यया ॥

प्रतिष्ठाप्य ततः सर्वाः पूजयामास भक्तितः

॥९६॥

धाता मित्रोऽर्यमा शक्रो वरुणः सांब एव च ॥

भगो विवस्वान्पूषा च सविता दशमस्तथा ॥

एकादशस्तथा त्वष्टा विष्णुर्द्वादश उच्यते

॥९७॥

एवं द्वादशधा सूर्यः स्थापितोऽत्र विपश्चिता ॥

आराधितस्ततो नित्यं गन्धपुष्पानुलेपनैः

॥९८॥

ततः कालेन महता गत्वा प्रत्यक्षतां रविः ॥

प्रोवाच सुन्दरं प्रीत्या वाक्यमेतन्मुनिं प्रति

॥९९॥

याज्ञवल्क्य प्रतुष्टोऽहं तव ब्राह्मणसत्तम ॥

इष्टं ददामि ते ब्रूहि यद्यत्संप्रति वांछितम्

॥१००॥

याज्ञवल्क्य उवाच

वरं ददासि चेन्मह्यं वेदपाठे नियोजय ॥

मां विभो येन शिष्यत्वं तव गच्छामि सांप्रतम् ॥

१०१ [।

आदित्य उवाच ॥

मया पर्यटनं कार्यं सदैव द्विजसत्तम ॥

मेरोः प्रदक्षिणार्थाय लोकालोककृते द्विज

॥१०२॥

तत्कथं योजयामि त्वां वेदपाठेन स द्विज

॥१०३॥

तस्मात्त्वं लघुतां गत्वा मम मुख्यहयस्य च ॥

श्रवणे तिष्ठ मद्वाक्यात्तेजसा चैव येन मे

॥१०४॥

न दह्यसि महाभाग तत्र स्थोऽध्ययनं कुरु ॥

स तथेति प्रतिज्ञाय प्रविश्यादित्यवाजिनः

॥१०५॥

कर्णेऽपठत्ततो वेदांश्चतुरोऽपि च तन्मुखात् ॥

अंगोपांगसमोपेतान्परिशिष्टसमन्वितान्

॥१०६॥

ततः समाप्ते स प्राह प्रार्थयस्व विभो हि माम् ॥

प्रदास्यामि न सन्देहस्तवाद्य गुरुदक्षिणाम्

॥१०७॥

आदित्य उवाच

यानि सूक्तानि ऋग्वेदे मदीयानि द्विजोत्तम ॥

सावनानि यजुर्वेदे सामानि च तृतीयके

॥१०८॥

कल्पोक्तानि चतुर्थे च तानि सर्वाणि भूतले ॥

त्वया प्रचारणीयानि कृत्वा व्याख्यानमुत्तमम्

॥९॥

ये द्विजास्तानि सर्वाणि कीर्तयिष्यंति मे पुरः ॥

ते सर्वे पाप निर्मुक्ताः प्रयास्यंति दिवालयम्

॥११०॥

व्याख्यास्यंति पुनर्ये च मम भक्तिपरायणाः ॥

ते यास्यंति द्विजा मुक्तिं सत्यमेतन्मयोदितम्

॥१११॥

सूत उवाच

एवं वेदान्पठित्वा स प्रदत्त्वा गुरुदक्षिणाम् ॥

सूर्यायाभ्यागतो भूयश्चमत्कारपुरं प्रति

॥११२॥

ततः शाकल्यमभ्येत्य गुरुस्त्वं प्राङ् मम स्थितः ॥

प्रार्थयस्व महाभाग दास्यामि गुरुदक्षिणाम्

॥११३॥

ज्येष्ठो भ्राता पिता चैव माता चैव गुरुस्तथा ॥

वैरुद्ध्येनापि वर्तंते यद्येते द्विजसतम ॥

तथापि पूजनीयाश्च पुरुषेण न संशयः

॥११४॥

सांगोपांगा मयाधीता वेदाश्चत्वार एव च ॥

अधीताश्चैव सर्वेषां तेषामर्थोऽवधारितः

॥११५॥

तत्त्वं वद महाभाग कां ते यच्छामि दक्षिणाम्

॥११६॥

शाकल्य उवाच

यानि वेदरहस्यानि सूर्येण कथितानि ते

॥११७॥

यैः स्यात्पापप्रणाशश्च व्याख्यातैः पठितैस्तथा ॥

तानि मे कीर्तय क्षिप्रमेषा मे गुरुदक्षिणा ११८ ॥

याज्ञवल्क्य उवाच ॥

तदागच्छ मया सार्धं यत्र सूर्याः प्रतिष्ठिताः ॥

मया द्वादश तेषां च कीर्तयिष्यामि चात्रतः

॥११९॥

तच्छ्रुत्वा शिष्यसंयुक्तः शाकल्यस्तैश्च सद्द्विजैः ॥

शिष्यैस्तिष्ठन्ति ये तत्र स्थापितास्तेन भास्कराः

॥१२०॥

ततस्तु कीर्तयामास व्याख्यानं तत्पुरः स्थितः ॥

वेदान्तानां च सर्वेषां यथोक्तं रविणा पुरा

॥१२१॥

अवसाने च तेषां तु चतुश्चरणसंभवैः ॥

ब्राह्मणैर्याज्ञवल्क्यस्तु वेदान्तज्ञैः प्रतोषितः

॥१२२॥

प्रोक्तस्तव प्रसादेन वेदांतज्ञा वयं स्थिताः ॥

श्रुताध्ययनसंपन्ना याचस्व गुरुदक्षिणाम्

॥१२३॥

याज्ञवल्क्य उवाच

एतेषां भास्कराणां च मदीयानां पुरो द्विजाः ॥

कीर्तयिष्यंति ये विप्रास्तेषां युष्मत्प्रसादतः ॥

भूया स्वर्गगतिर्विप्रा एषा मे गुरु दक्षिणा

॥१२४॥

ये पुनर्भक्तिसंयुक्ताः करिष्यंति विचारणम् ॥

तेषां तुर्यपदं यच्च जरामरणवर्जितम्

॥१२५॥

ब्राह्मणा ऊचुः

भविष्यति कलौ विप्रा दौस्थ्यभावसमन्विताः ॥

पठने नैव शक्ताश्च व्याख्यानस्य च का कथा

॥१२६॥

तस्मात्सारस्वतं ब्रूहि वेदानां द्विजसत्तम ॥

अपि दौस्थ्यसमायुक्ता येन ते कीर्तयंति च

॥१२७॥

याज्ञवल्क्य उवाच

रथं युञ्जंति सूक्तं यत्प्रथमं वित्तलक्षणम् ॥

त्रिष्टुभेति च यत्सूक्तं तथाद्यं ब्राह्मणोत्तमाः

॥१२९३॥

चित्रं देवानामिति च तथान्यत्तस्य वल्लभम् ॥

हंसः शुचिषदित्युक्तं ततश्चापि प्रहर्षदम्

॥१२९॥

पावमानं तथा सूक्तं ये पठिष्यंति बह्वृचः ॥

इत्येषामाद्यमेवं तु ते यास्यंति परां गतिम्

॥१३०॥

एकविंशतिसामानि आदित्येष्टानि यानि च ॥

सामगाः कीर्तयिष्यंति येऽत्रस्थाः शुचयः स्थिताः

॥१३१॥

निश्चयं तु परं धृत्वा येऽपि स्तोष्यंति भास्करम् ॥

ततस्तेऽपि प्रयास्यंति निर्भिद्य रविमंडलम्

॥१३२॥

क्षुरिकासंपुटं चैव सूर्यकल्पं तथैव च ॥

शांतिकल्पसमायुक्तं कीर्तयिष्यंति ये द्विजाः

॥१३३॥

अथर्वपाठकास्तेऽपि प्रयास्यंति परां गतिम् ॥

मूर्खा अपि समागत्य संप्राप्ते सूर्यवासरे

॥१३४॥

प्रणामं ये करिष्यंति श्रद्धया परया युताः ॥

सप्तरात्रकृतात्पापान्मुक्तिं प्राप्संति ते द्विजाः

॥१३५॥

सूत उवाच

तथेति तैः प्रतिज्ञाते चतुश्चरणसंभवैः ॥

ब्राह्मणैर्याज्ञवल्क्यस्तु विज्ञातो येन केन तु

॥१३६॥

विदेहेन ततः प्राप्तः श्रवणार्थं नराधिपः ॥

वेदांतानां च सर्वेषां रत्नाख्येन महीभुजा

॥१३७॥

तेनापि च परिज्ञाय माहात्म्यं सूर्यसं भवम् ॥

ततः संस्थापितः सूर्यस्तस्मिन्स्थाने द्विजोत्तमाः

॥१३८॥

तं चापि सूर्यवारेण यः प्रपश्यति मानवः ॥

सप्तरात्रकृतात्पापान्मुच्यते नात्र संशयः

॥१३९॥

एतद्वः कथितं सर्वं माहात्म्यं सूर्यसंभवम् ॥

यः शृणोति नरो भक्त्या अश्वमेधफलं लभेत्

॥१४०॥

संक्रांतौ यत्प्रदानेन सूर्ये वा श्रवणेन तु ॥

तत्फलं समवाप्नोति श्रुत्वा माहात्म्यमुतमम्

॥१९१॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे श्रीहाटकेश्वरक्षेत्रमाहात्म्ये द्वादशार्कोत्पत्तिरत्नादित्योत्पत्तिमाहात्म्ये याज्ञवल्क्यवृत्तांतवर्णनं नामाष्टसप्तत्युत्तरद्विशततमोऽध्यायः ॥ २७८ ॥