विष्णुपदीतीर्थोत्पत्तिवर्णनम्
सूत उवाच
तत्र विष्णुपदं नाम तीर्थं तीर्थे शुभे स्थितम् ॥
अपरं ब्राह्मणश्रेष्ठाः सर्वपातकनाशनम्
॥१॥अयने दक्षिणे प्राप्ते यस्तत्पूज्य समाहितः ॥
निवेदयेत्तथात्मानं सम्यक्छ्रद्धासमन्वितः
॥२॥स मृतोऽप्ययने याम्ये तद्विष्णोः परमं पदम् ॥
प्राप्नोति नात्र संदेहस्तत्प्रभावाद्द्विजोत्तमाः
॥३॥तथा चैवोत्तरे प्राप्ते पूजयित्वा यथाविधि ॥
सम्यङ्निवेदयेद्भक्त्या आत्मानं यः समाहितः ॥
सोऽपि विष्णोः पदं पुण्यं प्राप्य संजायते सुखी
॥४॥ऋषय ऊचुः
कथं तत्र पदं जातं विष्णोरव्यक्तजन्मनः ॥
कथं निवेद्यते तत्र सम्यगात्माऽ यनद्वये
॥५॥तस्मिन्दृष्टेऽथवा स्पृष्टे यत्फलं लभ्यते नरैः ॥
तत्सर्वं सूतज ब्रूहि परं कौतृहलं हि नः
॥६॥सूत उवाच
बलिर्बद्धो यदा तेन विष्णुना प्रभविष्णुना ॥
तदा क्रमैस्त्रिभिर्व्याप्तं त्रैलोक्यं सचराचरम्
॥७॥हाटकेश्वरजे क्षेत्रे संन्यस्तः प्रथमः क्रमः ॥
महर्लोके द्विती यस्तु तदा तेन महात्मना
॥८॥तृतीयस्य समुद्योगं यदा चक्रे स चक्रधृक् ॥
तदा भिन्नं द्विजश्रेष्ठा ब्रह्मांडं लघुतां गतम्
॥९॥पादाग्रेणाथ संभिन्ने ब्रह्मांडे निर्मलं जलम् ॥
अंगुष्ठाग्रेण संप्राप्तं क्रमेण धरणीतले
॥१०॥ब्रह्मलोकं तदा कृत्स्नं प्लावयित्वा जलं हि तत् ॥
शुद्धस्फटिकसंकाशं कुन्देन्दुसदृशद्युति ॥
मत्स्यकच्छपसंकीर्णं ग्राहयूथैः समाकुलम्
॥११॥ततः प्रभृति सा लोके गंगा विष्णुपदी स्मृता ॥
पवित्रमपि तत्क्षेत्रं नयन्ती सा पवित्रताम्
॥१२॥एवं विष्णोः पदं तत्र संजातं मुनिसत्तमाः ॥
सर्वपापहरं पुंसां तदा विष्णुपदी स्मृता
॥१३॥यस्तस्यां श्रद्धया युक्तः स्नानं कृत्वा यथोदितम् ॥
स्पर्शयेत्तत्पदं विष्णोः स याति परमं पदम्
॥१४॥यस्तत्रकुरुते श्राद्धं सम्यक्छ्रद्धासमन्वितः ॥
स्नात्वा विष्णुपदीतोये गयाश्राद्धफलं लभेत्
॥१५॥माघमासे नरः स्नानं प्रातरुत्थाय तत्र यः ॥
करोति सततं मर्त्यः स प्रयागफलं लभेत्
॥१६॥अथवा वत्सरं यावत्क्षणं कृत्वात्र भक्तितः ॥
तत्र स्नानं च यः कुर्यात्स मुक्तिं लभते नरः
॥१७॥यस्यास्थीनि जले तत्र क्षिप्यंते मनुजस्य च ॥
अपि पाप समाचारः स प्राप्नोति परां गतिम्
॥१८॥अपि पक्षिपतंगा ये पशवः कृमयो मृगाः ॥
प्रविष्टाः सलिले तस्मिंस्तृषार्ता भक्तिवर्जिताः
॥१९॥तेऽपि पापविनिर्मुक्ता देहांते चातिदुर्लभम् ॥
चक्रिणस्तत्पदं यांति जरामरणवर्जितम्
॥२०॥किं पुनः श्रद्धयोपेताः पर्वकाल उपस्थिते ॥
दत्त्वा दानं द्विजेन्द्राणां नरा वेदविदां द्विजाः
॥२१॥तत्र गाथा पुरा गीता नारदेन महर्षिणा ॥
विष्णुपद्याः समालोक्य प्रभावं पापनाशनम्
॥२२॥किं व्रतैर्नियमैर्वापि तपोभिर्विविधैर्मखैः ॥
कृतैर्विष्णुपदीतोये संस्थिते धरणीतले
॥२३॥एकः सर्वेषु तीर्थेषु स्नानं मर्त्यः समाचरेत् ॥
एको विष्णुपदीतोये स्नाति द्वाभ्यां समं फलम्
॥२४॥एको दानानि सर्वाणि ब्राह्मणेभ्यः प्रयच्छति ॥
एको विष्णुपदीतोये स्नाति द्वाभ्यां समं हि तत्
॥२५॥पञ्चाग्निसाधको ग्रीष्मे वर्षास्वाकाशमाश्रितः ॥
जलाश्रयश्च हेमंत एकः स्यात्पुरुषः क्षितौ
॥२६॥अन्यो विष्णुपदीतोये स्नात्वा विष्णुपदं स्पृशेत् ॥
तावुभावपि निर्दिष्टौ समौ पुरुषसत्तमौ
॥२७॥एकांतरोपवासी य एकः स्याज्जीवितावधि ॥
एकोविष्णुपदीतोये स्नाति द्वाभ्यां समं फलम्
॥२८॥त्रिरात्रोपोषितस्त्वेको यावद्वर्षशतं नरः ॥
एको विष्णुपदीतोये स्नाति द्वाभ्यां समं फलम्
॥२९॥सूत उवाच
एवमुक्त्वा मुनिश्रेष्ठो नारदो द्विजसत्तमाः ॥
विरराम मुनीनां स बहूनां पुरतोऽसकृत्
॥३०॥तस्मात्सर्व प्रयत्नेन स्नानं तत्र समाचरेत ॥
संस्पृशेच्च पदं विष्णोर्य इच्छेच्छ्रेय आत्मनः
॥३१॥ऋषय ऊचुः
यदेतद्भवता प्रोक्तमात्मानं विनिवेदयेत् ॥
विष्णोः पदस्य संप्राप्ते अयने दक्षिणोत्तरे
॥३२॥तत्केन विधिना सूत मन्त्रैश्च वद सत्वरम् ॥
वयं येन च तत्कुर्मः सर्वं भक्तिसमन्विताः
॥३३॥सूत उवाच
दक्षिणे चोत्तरे चापि संप्राप्ते चायनद्वये ॥
पूजयित्वा पदं विष्णोरिमं मन्त्रमुदीरयेत्
॥३४॥षण्मासाभ्यंतरे मृत्युर्यद्यकस्माद्भवेन्मम ॥
तत्ते पदं गतिर्मे स्यादहं ते भृत्यतां गतः
॥३५॥एवं प्रोच्य हरिं पश्चात्पूजयेद्ब्राह्मणांस्ततः ॥
अथ तैः सममश्नीयात्ततः प्राप्नोति सद्गतिम्
॥३६॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये विष्णुपदीतीर्थोत्पत्तिवर्णनंनाम चतुर्विंशोऽध्यायः ॥ २४ ॥