मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — नागरखण्डः, अध्याय ४४

3
नागरखण्डः · 44

विश्वामित्रेश्वरमाहात्म्यवर्णनम्

मेनकोवाच

नूनं हि कामधर्मे त्वं न प्रवीणो महाद्युते ॥

तेन मामीदृशैर्वाक्यैर्निवारयसि रागिणीम्

॥१॥

सूत उवाच

एवमुक्तस्ततो भूयो विश्वामित्रोऽब्रवीदिदम् ॥

कोपेन महता युक्तो निःस्पृहस्तत्परिग्रहे

॥२॥

विश्वामित्र उवाच

त्वं जीव गच्छ वा मृत्युं नाहं कर्तास्मि ते वचः ॥

व्रतनाशात्तु यत्पापमधिकं स्त्रीवधाद्भवेत्

॥३॥

प्रायश्चित्तं बुधैरुक्तं व्रतिनां स्त्रीवधे कृते ॥

न संगात्तु पुनस्तासां तस्मात्त्वं गन्तुमर्हसि

॥४॥

न केवलं व्रतोपेताः स्त्रीसंगात्पापमाप्नुयुः ॥

व्रतबाह्या अपि नराः सक्ताः स्त्रीषु पतंत्यधः

॥५॥

संसारभ्रमणं नारी प्रथमेपि समागमे ॥

वह्निप्रदक्षिणा व्याजन्यायेनैव प्रदर्शयेत्

॥६॥

तस्मात्स्त्रीभिः समं प्राज्ञः संभाषामपि वर्जयेत् ॥

आस्तां तावत्समासंगं य इच्छेच्छ्रेय आत्मनः

॥७॥

अंगार सदृशा नारी घृतकुंभसमः पुमान् ॥

अस्पर्शाद्दृढतामेति तत्संपर्काद्विलीयते

॥८॥

स्त्रियो मूलमनर्थानां सर्वेषां प्राणिनां भुवि ॥

तस्मात्त्याज्या सुदूरेण ताः स्वर्गस्य निरोधकाः

॥९॥

कुलीना वित्तवत्यश्च नाथवत्योऽपि योषितः ॥

एकस्मिन्नंतरे रागं कुर्वंत्येताः सुचञ्चलाः

॥१०॥

न स्त्रीभ्यः किंचिदन्यद्धि पापाय विद्यते भुवि ॥

यासां संगसमासाद्य संसारे भ्रमते जनः ॥

नीचोऽपि कुरुते सेवां यस्तासां विजनेष्वथ ॥

विरूपं वापि नीचं वा तं सेवन्ते हि ताः स्त्रियः

॥१२॥

अनर्थत्वान्मनुष्याणां भयात्परिजनस्य च ॥

मर्यादायाममर्यादाः स्त्रियस्तिष्ठन्ति भर्तृषु

॥१३॥

सूत उवाच

एवं संभर्त्सिता तेन मेनका कोपसंयुता ॥

शशाप तं मुनिश्रेष्ठं स्फुरमाणोष्ठसंपुटा

॥१४॥

यस्मात्त्वया परित्यक्ता सकामाहं सुदुर्मते ॥

त्यजता कामजं धर्मं तस्माच्छापं गृहाण मे

॥१५॥

अद्यैव भव दुबुर्द्धे वलीपलितसंयुतः ॥

जराजर्ज्जरितांगश्च तुच्छदृष्टिर्विरंगितः

॥१६॥

सूत उवाच

उक्तमात्रे तु वचने तत्क्षणान्मुनिसत्तमः ॥

बभूव तादृशः सद्यस्तया यादृक्प्रकीर्तितः

॥१७॥

ततः कोपपरीतात्मा सोऽपि तां शप्तुमुद्यतः ॥

कमण्डलोर्जलं गृह्य संतापाद्रक्तलोचनः

॥१८॥

निर्दोषोऽपि त्वया यस्माच्छप्तोऽहं गणिकाधमे ॥

तस्माद्भव त्वमप्याशु जराजर्जरितांगिका

॥१९॥

सापि तद्वचनात्सद्यस्तादृग्रूपा व्यजायत ॥

यादृशोऽसौ मुनिश्रेष्ठो वलीपलितगात्रभृत्

॥२०॥

अथ तादृक्स्वरूपेण स्नाता तत्र जला शये ॥

भूयोऽपि तादृशी जाता यादृशी संस्थिता पुरा

॥२१॥

तद्दृष्ट्वा परमाश्चर्यमतीव त्वरयान्वितः ॥

सोऽपि तत्राकरोत्स्नानं संजातश्च यथा पुरा

॥२२॥

ततस्तौ तीर्थमाहात्म्याद्रूपौदार्यगुणान्वितौ ॥

मिथ आमंत्र्य संहृष्टौ गतौ देशं यथेप्सितम्

॥२३॥

एवं तीर्थस्य माहात्म्यं विज्ञाय भगवानृषिः ॥

लिंगं संस्थापयामास देवदेवस्य शूलिनः

॥२४॥

तपश्चकार सुमहत्तस्मिंस्तीर्थवरे तदा ॥

कुशस्तम्बेन कृतवांस्तत्सरो विपुलं विभुः

॥२५॥

तत्र स्नात्वा नरो यस्तु पूजयेल्लिंगमुत्तमम् ॥

विश्वामित्रेश्वरं ख्यातं स गच्छेच्छिवमंदिरम्

॥२६॥

अद्यापि दृश्यते तत्र गंगोदकसमं जलम् ॥

सर्वपापहरं पुण्यं सर्वकामप्रदायकम्

॥२७॥

यस्तत्र कुरुते स्नानं श्रद्धापूतेन चेतसा ॥

स देवलोकमासाद्य पितृभिः सह मोदते

॥२८॥

ततःप्रभृति तत्तीर्थं ख्यातिं प्राप्तं महीतले ॥

पाताले स्वर्गलोके च रूपौदार्यप्रदं नृणाम्

॥२९॥

एतद्वः सर्वमाख्यातं यत्पृष्टोऽस्मि द्विजोत्तमाः ॥

विश्वामित्रेश माहात्म्यं सर्वपातकनाशनम्

॥३०॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखंडे श्रीहाटकेवरक्षेत्रमाहात्म्ये विश्वामित्रकुण्डोत्पत्ति विश्वामित्रेश्वरमाहात्म्यवर्णनंनाम चतुश्चत्वारिंशत्तमोऽध्यायः ॥ ४४ ॥