मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — नागरखण्डः, अध्याय २०८

3
नागरखण्डः · 208

एवं शक्रे दिवं प्राप्ते देवेषु सकलेषु च

विश्वामित्र उवाच

एवं शक्रे दिवं प्राप्ते देवेषु सकलेषु च ॥

गौतमः स्वाश्रमं प्रापत्कोपेन महता ज्वलन्

॥१॥

ततः स कथयामास सर्वं देवविचेष्टितम् ॥

वरदानं च शक्राय शतानन्दस्य चाग्रतः

॥२॥

तच्छ्रुत्वा पितरं प्राह विनयावनतः स्थितः ॥

तातांबाया न कस्मात्त्वं प्रसादं प्रकरोषि मे

॥३॥

उत्थापने न ते किञ्चिदसाध्यं विद्यते विभो ॥

तस्मात्कुरु प्रसादं मे यथा स्यान्मम चांबया

॥४॥

समागमो मुनिश्रेष्ठ दीनस्योत्कण्ठितस्य च ॥

तस्मादुत्थाप्य तां तूर्णं प्रायश्चित्तविधिं ततः ॥

तस्मादादिश मे क्षिप्रं येन शुद्धिः प्रजायते

॥५॥

गौतम उवाच

मद्यावलिप्तभांडस्य यदि शुद्धिः प्रजायते ॥

तत्स्त्रीणां जायतेशुद्धिर्योनौ शुक्राभिषेचनात्

॥६॥

ब्राह्मणस्तु सुरां पीत्वा मौंजीहोमेन शुध्यति ॥

तिंगिनीं साधयित्वा च न तु नारी विधर्मिता

॥७॥

मद्यभांडमपि प्रायो यथावद्वह्निशोधितम् ॥

विशुध्यति तथा नारी वह्निदग्धा विशुध्यति ॥

यस्या रेतोऽथ संक्रांत मुदरांतेऽन्यसंभवम्

॥८॥

एतस्मात्कारणान्माता मया ते पुत्र सा शिला ॥

विहिता न हि तस्याश्च विशुद्धिस्तु कथञ्चन

॥९॥

शतानन्द उवाच

यद्येवं साधयिष्यामि तत्कृतेऽहं हुताशनम् ॥

विषं वा भक्षयिष्यामि पतिष्यामि जलाशये

॥१०॥

मातुर्वियोगतस्तात सत्यमेतन्मयोदितम् ॥

धर्मद्रोणाः स्थिताश्चान्ये मन्वाद्या मुनयस्तथा

॥११॥

इतिहासपुराणानि वेदांतानि बहूनि च ॥

संचिंत्य तात सर्वाणि देहि शुद्धिं ममापि ताम् ॥

मम मातुः करिष्यामि नो चेत्प्राणपरिक्षयम्

॥१२॥

विश्वामित्र उवाच

तच्छ्रुत्वा सुचिरं ध्यात्वा गौतमः प्राह तं सुतम् ॥

परिष्वज्य स्वबाहुभ्यां मूर्ध्न्याघ्राय ततः परम्

॥१३॥

यद्येवं वत्स मा कार्षीः साहसं पापसंभवम् ॥

आत्मदेहविघातेन श्रूयतां वचनं मम

॥१४॥

मेध्यत्वे तव मातुश्च शुद्धिर्ज्ञाता मया पुरा ॥

यया सा मम हर्म्यार्हा भविष्यति न संशयः

॥१५॥

उत्पत्स्यते रवेर्वंशे रामरूपी जना र्दनः ॥

रावणस्य वधार्थाय मानुषं रूपमास्थितः ॥

तस्य पादस्य संस्पर्शाद्भूयः शुद्धा भविष्यति।

तस्मात्प्रतीक्ष्य तावत्त्वमौत्सुक्यं व्रज पुत्रक ॥

एतत्सम्यङ्मया ज्ञातं वत्स दिव्येन चक्षुषा

॥१८॥

एतच्छ्रुत्वा तथेत्युक्त्वा शतानन्दः प्रहर्षितः ॥

स्थितः प्रतीक्षमाणस्तु तं कालं मातृवत्सलः

॥१९॥

ततः कालेन महता रामरूपी जनार्दनः ॥

रावणस्य वधार्थाय जातो दशरथालये

॥२०॥

स मया भगवा विष्णुर्बालभावेन संस्थितः ॥

निजयज्ञस्यरक्षार्थं समानीतः स्वमाश्रमम् ॥

राक्षसानां विनाशाय यज्ञकर्मविनाशिनाम्

॥२१॥

हतैस्तै राक्षसै रौद्रैर्मम पूर्णोऽभवन्मखः ॥

अयोध्यायाः समानीतः स मया रघुनंदनः

॥२२॥

सीतायाश्च विवाहार्थं लक्ष्मणेन समन्वितः ॥

श्रुत्वा स्वयंवरं तस्याः पार्थिवानां समागमम्

॥२३॥

ततो मार्गे मया दृष्टा गौतमस्याश्रमे शुभे ॥

अहिल्या सा शिला रूपा प्रमाणेन महत्तमा

॥२४॥

ततः प्रोक्तो मया रामः स्पृशेमां वत्स पाणिना ॥

मानुषत्वं लभेद्येन गौतमस्य प्रिया मुनेः ॥

शापदोषेण संजाता शिलेयं तस्य सन्मुनेः

॥२५॥

अविकल्पं ततो रामो मम वाक्येन तां शिलाम् ॥

पस्पर्श पार्थिवश्रेष्ठ कौतू हलसमन्वितः

॥२६॥

अथ रामेण संस्पृष्टा सहसैवांगना मुनेः ॥

शुशुभे मानुषी जाता दिव्यरूपवपुर्धरा

॥२७॥

ततः सा लज्जयाऽऽविष्टा प्रणिपत्य च गौतमम् ॥

स्मरमाणाऽऽत्मनः कृत्यं यच्छक्रेण समन्वितम्

॥२८॥

प्रायश्चित्तं मम स्वामिन्देहि सर्वमशेषतः ॥

यन्नरस्य समायोगे परस्याह प्रजापतिः

॥२९॥

अहं दुष्करमप्येतत्करिष्यामि न संशयः ॥

येन शुद्धिर्भवेन्मह्यं पुरश्चरणसेवनात्

॥३०॥

ततः संचिंत्य सुचिरं प्रोवाच गौतमस्तदा ॥

कुरु चान्द्रायणशतं कृच्छ्राणां च सहस्रकम्

॥३१॥

प्राजापत्यायुतं चापि तीर्थयात्रापरायणा ॥

अष्टषष्टिषु तीर्थेषु यानि तीर्थानि भूतले ॥

तेषां संदर्शनात्सम्यक्ततः शुद्धिमवाप्स्यसि

॥३२॥

सा तथैति प्रतिज्ञाय नित्यं व्रतपरायणा ॥

अष्टषष्टिसु तीर्थेषु वाराणस्यादिषु क्रमात्

॥३३॥

बभ्राम तानि लिंगानि पूजयन्ती प्रभक्तितः ॥

क्रमेणैव तु संप्राप्ता हाटकेश्वरसंभवम्

॥३४॥

यावत्पश्यति सा साध्वी तावन्नागबिलो महान् ॥

पूरितो नागरेणैव मार्गः पातालसंभवः

॥३५॥

गच्छंति येन पूर्वं तु तीर्थयात्रापरायणाः ॥

हाटकेश्वरदेवस्य दर्शनार्थं मुनीश्वराः

॥३६॥

अथ सा चिन्तयामास न दृष्टे तु सुरेश्वरे ॥

हाटकेश्वरदेवे च न हि यात्राफलं लभेत्

॥३७॥

तस्मात्तपः करि ष्यामि स्थित्वा चैव सुदुष्करम् ॥

येनाहं तत्प्रभावेन तं पश्यामि सुरेश्वरम्

॥३८॥

एवं सा निश्चयं कृत्वा तपस्तेपे सुदुष्करम् ॥

दर्शनार्थं हि देवस्य पातालनिलयस्य च

॥३९॥

पंचाग्निसाधका ग्रीष्मे हेमन्ते सलिलाश्रया ॥

वर्षास्वाकाशशयना सा बभूव तपस्विनी

॥४०॥

हरलिंगं प्रतिष्ठाप्य स्वनाम्ना चांतिके तदा ॥

त्रिकालं पूजयामास गन्धपुष्पानुलेपनैः

॥४१॥

एवं तपसि संस्थायास्तस्याः कालो महान्गतः ॥

न च संदर्शनं जातं हाटकेश्वरसंभवम्

॥४२॥

कस्यचित्त्वथ कालस्य शतानन्दश्च तत्सुतः ॥

स तामन्वेषमाणस्तु तस्मिन्क्षेत्रे समागतः ॥

मातृस्नेह परीतात्मा तीर्थान्वेषणतत्परः

॥४३॥

अथ तां तत्र संवीक्ष्य दारुणे तपसि स्थिताम् ॥

प्रणिपत्य स्थितो दीनः सदुःखो वाक्यमब्रवीत्

॥४४॥

किमत्र क्लिश्यते कायस्तपः कृत्वा सुदारुणम् ॥

सप्तषष्टिषु तीर्थेषु यानि लिंगानि तेषु च

॥४५॥

माहेश्वराणि लिंगानि तानि दृष्टानि च त्वया ॥

एतत्पातालसंस्थं च हाटकेश्वरसंज्ञितम्

॥४६॥

न पश्यति नरः कश्चिद्दृष्टं क्षेत्रे न केनचित् ॥

तेन शुद्धिश्च संजाता स्वभर्त्रा विहिता तु या

॥४७॥

तस्मादागच्छ गच्छामस्ताताश्रामपदे शुभे ॥

त्वन्मार्गं वीक्षते तातः कर्षुको वर्षणं यथा ॥

आहिल्योवाच ॥

यावत्पश्यामि नो देवं हाटकेश्वरसंज्ञितम् ॥

तावद्गच्छामि नो गेहं यदा पश्यामि तं हरम्

॥४९॥

तदा यास्ये गृहं पुत्र निश्चयोऽयं मया कृतः

॥५०॥

तच्छ्रुत्वा सोऽपि तां प्राह ह्येष चेन्निश्चयस्तव ॥

मयाऽपि तातपार्श्वे तु प्रगंतव्यं त्वया -प

॥५१॥

एवमुक्त्वा ततः सोपि स्थापयामास शांभ वम् ॥

लिंगं च पूजयामास त्रिकालं तपसि स्थितः

॥५२॥

शतानन्दस्तु राजर्षिः गन्धपुष्पानुलेपनैः ॥

नैवेद्यैर्विविधैः सूक्तैर्वेदोक्तैः पर्यतोषयत्

॥५३॥

षष्ठान्नकालभोज्यस्य व्रतचर्यारतस्य च ॥

एवं तस्याऽपि संस्थस्य गतः कालो महान्मुने ॥

न च तुष्यति देवेश स्ताभ्यां द्वाभ्यां कथञ्चन

॥५४॥

ततः कालेन महता गौतमोऽपि महामुनिः ॥

आजगाम स्वयं तत्र पुत्रदर्शनलालसः

॥५५॥

स दृष्ट्वा भार्यया सार्धं पुत्रं तपसि संस्थितम् ॥

तुतोष प्रथमं तावत्पश्चादुःखसमन्वितः

॥५६॥

अहो बत महत्कष्टं पुत्रो मे कृशतां गतः ॥

तपसः संप्रभावेन नयामि स्वगृहं कथम् ॥

भार्येयं च तथा मह्यं विवर्णा तु कृशा स्थिता

॥५७॥

एवं संचिंत्य मनसा तावुभौ प्रत्यभाषत ॥

गम्यतां स्वगृहं कृत्वा तपसः संनिवर्तनम्

॥५८॥

शतानन्द उवाच

तातांबा बहुधा प्रोक्ता तपसः संनिवर्तने ॥

नो गच्छति तथा हर्म्यमदृष्टे हाटकेश्वरे

॥५९॥

अहं तया विहीनस्तु नैव यास्यामि निश्चितम् ॥

एवं ज्ञात्वा महाभाग यद्युक्तं तत्समाचर

॥६०॥

गौतम उवाच

यद्येवं निश्चयो वत्स तव मातुश्च संस्थितः ॥

अहं ते दर्शयिष्यामि तपसा हाटकेश्वरम्

॥६१॥

एवमुक्त्वा ततः सोऽपि तपश्चक्रे महामुनिः ॥

एकांतरोपवासस्तु स्थितो वर्षशतं मुनिः ॥

षष्ठान्नकालभोजी च तावत्काले ततोऽभवत्

॥६२॥

त्रिरात्रभोजी पश्चाच्च स बभूव मुनीश्वरः।

तावत्कालं फलैर्निन्ये तावत्कालं जलाशनः ॥

वायुभक्षस्ततो भूयस्तावत्कालमभून्मुनिः

॥६३॥

ततो वर्षसहस्रांते परमे संव्यवस्थिते ॥

प्रभिद्य मेदिनीपृष्ठं निष्क्रांतं लिंगमुत्तमम् ॥

६४ द्वादशार्कप्रतीकाशं सर्वलक्षणलक्षितम ॥

एतस्मिन्नंतरे देवः शंभुः प्रत्यक्षतां गतः

॥६५॥

एतस्मिन्नेव काले तु भगवाञ्छशिशेखरः ॥

तस्य दृष्टिपथं गत्वा वाक्यमेतदुवाच ह

॥६६॥

गौतमाऽहं प्रतुष्टस्ते तपसाऽनेन सुव्रत

॥६७॥

एतच्च मामकं लिंगं हाटकेश्वरसंज्ञितम् ॥

पातालाच्च विनिष्क्रांतं तव भक्त्या महामुने

॥६८॥

एतदर्थं तपस्तप्तं सभार्येण त्वया हि तत् ॥

सपुत्रेणाखिलं जातं फलं तस्य यथेप्सितम्

॥६९॥

एतत्पश्यतु ते भार्या अहिल्या दिव्यरूपिणी ॥

अष्टषष्ट्युद्भवं येन यात्राफलमवाप्नुयात्

॥७०॥

त्वं चापि प्रार्थय वरं येन सर्वं ददामि ते

॥७१॥

गौतम उवाच

हाटकेश्वरसंज्ञे तु सकृद्दृष्टे च यत्फलम् ॥

पातालस्थे च यत्पुण्यं नराणां जायते फलम् ॥

दृष्टेनानेन तत्पुण्यं पूजितेन विशेषतः

॥७२॥

अन्येऽपि ये जनास्तच्च पूजयंति प्रभक्तितः ॥

चैत्रशुक्लचतुर्दश्यां ते प्रयांतु त्रिविष्टपम्

॥७३॥

एतल्लिंगं न जानंति नराः सिद्ध्यभिकांक्षिणः ॥

विशंति विवरं तेन हाटकेश्वरकांक्षया

॥७४॥

अपि पापसमोपेता लिंगस्यास्य प्रभावतः ॥

परदारोद्भवा त्पापादहिल्येश्वरदर्शनात्

॥७९॥

मुच्यंते मानवास्तद्वच्छतानंदेश्वरादपि ॥

तस्मिन्दिने विहितया ताभ्यां चैव प्रपूजया

॥७६॥

विश्वामित्र उवाच

एतस्मिन्नेव काले तु व्याप्तः स्वर्गोऽखिलो नृप ॥

मानुषैरपि पापाढ्यैः सर्वधर्मविवर्जितैः

॥७७॥

न कश्चित्कुरुते यज्ञं तीर्थ यात्रामथापरम् ॥

न व्रतं नियमं चैव दानस्यापि कथामपि

॥७८॥

तच्च लिंगत्रयं दृष्ट्वा स्पृष्ट्वा संपूज्य भक्तितः

॥७९॥

ततो भीताः सुराः सर्वे सस्पर्धैर्मानुषैर्वृताः ॥

प्रोचुः पुरंदरं गत्वा व्यथया प्रया युताः

॥८०॥

मर्त्यलोके सहस्राक्ष सर्वे धर्माः क्षयं गताः ॥

अपि पापसमाचारा अभ्येत्य पुरुषा इह

॥८१॥

अस्माभिः सह गर्वाढ्याः स्पर्धां कुर्वंति सर्वदा ॥

हाटकेश्वरजे क्षेत्रे लिंगत्रयमनुत्तमम्

॥८२॥

यत्स्थितं स्थापितं तत्र गौतमेन महात्मना ॥

सपुत्रेण सदारेण तस्य पूजाप्रभावतः

॥८३॥

अपि पापसमाचारा इहागच्छंति तेऽखिलाः ॥

यमस्य नरकाः सर्वे सांप्रतं शून्यतां गताः

॥८४॥

गौतमेन समानीतः पातालाद्धाटकेश्वरः ॥

तपसा तोषयित्वा तु तत्र स्थाने सुरेश्वरः

॥८५॥

तत्प्रभावादयं जातो व्यवहारो धरातले

॥८६॥

एवं ज्ञात्वा प्रवर्तंते यथा यज्ञास्तथा कुरु ॥

तैर्विना नैव तृप्तिः स्यादस्माकं च कथंचन

॥८७॥

तच्छ्रुत्वा वासवस्तत्र समाहूय च मन्मथम् ॥

क्रोधं लोभं तथा दंभं मत्सरं द्वेषसंयुतम्

॥९८॥

गत्वा धरातलं सर्वे ममादेशाद्द्रुतं ततः ॥

स्वशक्त्या वारयध्वं भो गौतमेश्वरपूजकान्

॥८९॥

अहिल्येश्वरदेवस्य शतानंदेश्वरस्य च ॥

शक्रादेशं तु संप्राप्य ते गता धरणीतले

॥९०॥

कामादिका नरान्भेजुर्गौतमेश्वरपूजकान् ॥

तथाऽहिल्येश्वरस्यापि शतानंदेश्वरस्य च

॥९१॥

ततो भूयो मखा जाताः समग्रे धरणीतले ॥

संपूर्णदक्षिणाः सर्वे वतानि नियमास्तथा

॥९२॥

तीर्थयात्रा जपो होमो याश्चान्याः सुकृतक्रियाः ॥

एतत्सर्वं मया ख्यातं यत्पृष्टोऽस्मि धराधिप

॥९३॥

गयाकूप्यनुषंगेण शक्रगौतमचेष्टितम् ॥

बालमण्डनमाहात्म्यं शक्रेश्वरसमन्वितम्

॥९४॥

इन्द्रस्य स्थापनं मर्त्ये अहिल्याख्यानमेव च ॥

गौतमेश्वरमाहात्म्यं तथाहिल्येश्वरस्य च

॥९५॥

यश्चैतच्छृणुयान्नित्यं श्रद्धया परया युतः ॥

स मुच्येत्पातकात्सद्यः परदारसमुद्भवात्

॥९६॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये गौतमेश्वराहिल्येश्वर शतानन्देश्वरमाहात्म्यवर्णनंनामाष्टोत्तरद्विशततमोऽध्यायः ॥ २०८ ॥