मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — नागरखण्डः, अध्याय २५३

3
नागरखण्डः · 253

शंकरकृतपार्वत्यनुनयः

शूद्र उवाच

पार्वतीकुपिता देवी कथं देवेन शूलिना ॥

प्रसादं च गता शप्त्वा यत्कोपात्क्षुभ्यते जगत्

॥१॥

कथं स भगवान्रुद्रो भार्याशापमवाप ह ॥

वैकृतं रूपमासाद्य पुनर्दिव्यं वपुः श्रितः

॥२॥

गालव उवाच

देवा रूपाण्यदृश्यानि कृत्वा देव्या महाभयात् ॥

मनुष्यलोके सकले प्रतिमासु च संस्थिताः

॥३॥

तेषामपि प्रसन्ना साऽनुग्रहं समुपाकरोत् ॥

विष्णुस्तुता महाभागा विश्वमाताऽघनाशिनी ॥

४ [।

तेषां बलाच्च पार्वत्याः शापभारेण यन्त्रितः ॥

तां नित्यमेवानुनयन्नृचे सोवाच शंकरम्

॥५॥

एते देवा विश्व पूज्या विश्वस्य च वरप्रदाः ॥

मत्प्रसादाद्भविष्यंति भक्तितस्तोषिता नरैः

॥६॥

त्वामृते मम कर्मेदं कृतं साधुविनिन्दितम् ॥

वेद्यां विवाह काले च प्रत्यक्षं सर्वसाक्षिकम्

॥७॥

यत्सप्तमंडलानां च गमनं च करार्पणम् ॥

वह्निश्च वरुणः कृष्णो देवताश्च सवल्लभाः

॥८॥

चतुर्दिक्ष्वंग संयुक्ता देवब्राह्मणसंयुताः ॥

एतेषामग्रतो दिब्यं कृत्वा त्वं जनसंसदि

॥९॥

प्रमादात्सत्त्वमापन्नो व्यभिचारं कथं कृथाः ॥

गुरुवोऽपि न सन्मार्गे प्रवर्त्तंते जनौघवत्

॥१०॥

निग्राह्याः सर्वलोकेषु प्रबुद्धैः श्रूयते श्रुतौ ॥

पुत्रेणापि पिता शास्यः शिष्येणापि गुरुः स्वयम्

॥११॥

क्षत्रियैर्ब्राह्मणः शास्यो भार्यया च पतिस्तथा ॥

उन्मार्गगामिनं श्रेष्ठमपि वेदान्तपारगम्

॥१२॥

नीचैरपि प्रशास्येत श्रुतिराह सनातनी ॥

सन्मार्ग एव सर्वत्र पूज्यते नापथः क्वचित्

॥१३॥

येन स्वकुलजो धर्मस्त्यक्तः स पतितो भवेत् ॥

मृतश्च नरकं प्राप्य दुःखभारेण युज्यते

॥१४॥

धर्मं त्यजति नास्तिक्याज्ज्ञातिभेदमुपागतः ॥

स निग्राह्यः सर्वलोकैर्मनुधर्मपरायणैः

॥१५॥

कुलधर्माञ्ज्ञातिधर्मान्देशधर्मान्महेश्वर ॥

ये त्यजंति च तेऽवश्यं कुलाच्च पतिता जनाः

॥१६॥

अग्नित्यागो व्रतत्यागो वचनत्याग एव च ॥

धर्मत्यागो नैव कार्यः कुर्वन्पतित एव हि

॥१७॥

न पिता न च ते माता न भ्राता स्वजनोऽपि च ॥

पश्यते तव वार्तां च अस्पृश्यस्त्वमदन्विषम्

॥१८॥

अस्थिमालाचिताभस्म जटाधारी कुचैलवान् ॥

चपलो मुक्तमर्यादस्तस्थुं नार्हसि मेऽग्रतः

॥१९॥

अब्रह्मण्योऽव्रती भिक्षुर्दुष्टात्मा कपटी सदा ॥

नार्हसि त्वं मम पुरः संभाषयितुमीश्वर

॥२०॥

एवं सा रुदती देवी बाष्पव्याकुललोचना ॥

महादुःखयुतैवासीद्देवेशेऽनुनयत्यपि

॥२१॥

पुनरेव प्रकुपिता हरं प्रोवाच भामिनी ॥

तवार्जवं न हृदये काठिन्यं वेद्मि नित्यदा

॥२२॥

ब्राह्मणैस्त्वासुरैरुक्तं तन्मृषा प्रतिभाति मे ॥

यस्मान्मयि महादुष्टभाव एव कृतस्त्वया

॥२३॥

ब्राह्मणा वंचिता यस्माद्ब्राह्मणैस्त्वं हनिष्यसे ॥

एवमुक्त्वा भगवती पुनराह न किञ्चन

॥२४॥

ईशः प्रसन्नवदनामुपचारैरथाकरोत् ॥

शनैर्नीतिमयैर्वाक्यैर्हेतुमद्भिर्महेश्वरः

॥२५॥

प्रसन्नलोचनां ज्ञात्वा किंचित्प्राह हरस्ततः ॥

कोपेन कलुषं वक्त्रं पूर्णचन्द्र समप्रभम्

॥२६॥

कस्मात्त्वं कुरुषे भद्रे युक्तमेव वचो न ते ॥

सर्वभूतदया कार्या प्राणिनां हि हितेच्छया

॥२७॥

यद्यपीष्टो हि यस्यार्थो न कार्यं परपीडनम् ॥

जगत्सर्वं सुतप्रायं तवास्ति वरवर्णिनि

॥२८॥

जगत्पूज्या त्वमेवैका सर्वरूपधरानघे ॥

मया यदि कृतं कर्मावद्यं देव हिताय वै

॥२९॥

तथाप्येवं तव सुतो भविष्यति न संशयः ॥

अथवा मम सर्वेभ्यः प्राणेभ्योऽपि गरीयसी

॥३०॥

यदिच्छसि तथा कुर्यां तथा तव मनोरथान् ॥

प्रसन्नवदना भूत्वा कथयस्व वरानने

॥३१॥

इत्युक्ता सा भगवती पुनराह महेश्वरम् ॥

चातुर्मास्ये च संप्राप्ते महाव्रत धरो यदि

॥३२॥

देवतानां च प्रत्यक्षं तांडवं नर्तसे यदि ॥

पारयित्वा व्रतं सम्यग्ब्रह्मचर्यं महेश्वर ॥

३३ [।

मत्प्रीत्यै यदि देहार्थं वैष्णवं च प्रयच्छसि ॥

शापस्यानुग्रहं कुर्यां प्रसववदना सती

॥३४॥

नान्यथा मम चित्तं त्वां विश्वासमनुगच्छति ॥

तच्छ्रुत्वा भगवांस्तुष्टस्तथेति प्रत्युवाच ताम्

॥३५॥

सापि हृष्टा भगवती शापस्यानुग्रहे वृता

॥३६॥

इदं पुराणं मनुजः शृणोति श्रद्धायुक्तो भेदबुद्ध्या दृढत्वम् ॥

तस्या वश्यं जीवितं सर्वसिद्धं मर्त्याः सत्यात्तच्छ्रयत्वं प्रयांति

॥३७॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये शेषशाय्युपाख्याने ब्रह्मनारदसंवादे चातुर्मास्यमाहात्म्ये शंकरकृतपार्वत्यनुनयो नाम त्रिपंचाशदुत्तरद्विशततमोऽध्यायः ॥ २५३ ॥