मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — नागरखण्डः, अध्याय ९१

3
नागरखण्डः · 91

एवमुक्त्वा स भगवान्विरराम पितामहः

सूत उवाच

एवमुक्त्वा स भगवान्विरराम पितामहः ॥

संतोष्य पावकं क्रुद्धं स्वयमेव द्विजोत्तमाः

॥१॥

ततः सर्वैः सुरैः सार्धं शक्रविष्णुशिवादिभिः ॥

जगाम ब्रह्मलोकं च देवास्ते च निजं पदम्

॥२॥

पावकोऽपि द्विजेंद्राणामग्निहोत्रेषु संस्थितः ॥

हविर्जग्राह विधिवद्वसोर्द्धारोद्भवं तथा

॥३॥

एवं तत्र समुद्भूतमग्नितीर्थमनुत्तमम् ॥

यत्र स्नातो नरः प्रातर्मुच्यते दिनजादघात्

॥४॥

अथ संप्रस्थितान्दृष्ट्वा तान्देवान्स्वाश्रमं प्रति ॥

गजेंद्रशुकमण्डूकास्ते प्रोचुर्दुःखसंयुताः

॥५॥

युष्मत्कृते वयं शप्ताः पावकेन सुरेश्वराः ॥

तस्माज्जिह्वाकृतेऽस्माकमुपायश्चिंत्यतामपि

॥६॥

देवा ऊचुः

विपरीतापि ते जिह्वा यथान्येषां गजोत्तम ॥

कार्यक्षमा न संदेहो भविष्यति विशेषतः

॥७॥

तथा यूयं नरेन्द्राणां मंदिरेषु व्यवस्थिताः ॥

बहु मानसमायुक्ता मृष्टान्नं भक्षयिष्यथ

॥८॥

यथा च शुक ते जिह्वा कृता मंदा हविर्भुजा ॥

तथापि भूमिपालानां शंसनीया भविष्यति

॥९॥

श्रीमतां च तथान्येषामस्मदीयप्रसादतः ॥

त्वं च मंडूक यत्तेन विजिह्वो वह्निना कृतः ॥

तद्भविष्यति ते शब्दो विजिह्वस्यापि दीर्घगः

॥१०॥

एवमुक्त्वाऽथ ते देवाः स्वस्थानं प्रस्थितास्ततः ॥

तेषामनुग्रहं कृत्वा कृपया परया युता

॥११॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागररखण्डे हाटकेश्वरक्षेत्रमाहात्म्येऽग्नितीर्थोत्पत्तिवर्णनंनामैकनवतितमोऽध्यायः ॥ ९१ ॥