मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — नागरखण्डः, अध्याय १९८

3
नागरखण्डः · 198

एतस्मिन्नेव काले तु दशार्णाधिपतिस्तदा

सूत उवाच

एतस्मिन्नेव काले तु दशार्णाधिपतिस्तदा ॥

रत्नवत्या विवाहार्थं तत्र स्थाने समागतः

॥१॥

स श्रुत्वा तत्र वृत्तांतं रत्नवत्याः समुद्भवम् ॥

विरक्तिं परमां कृत्वा प्रस्थितः स्वपुरं प्रति

॥२॥

तं श्रुत्वा प्रस्थितं भूपमानर्तः स्वपुरं प्रति ॥

पृष्ठतोऽनुययौ तस्य व्याघो टनकृते तदा ॥

अथाब्रवीच्च तं प्राप्य कस्मात्त्वं प्रस्थितो नृप ॥

पाणिग्रहमकृत्वा तु मम कन्यासमुद्भवम्

॥४॥

दशार्ण उवाच

दूषितेयं तव सुता कन्यकात्वविवर्जिता ॥

यस्याः पीतोऽधरोऽन्येन मर्दितौ च तथा स्तनौ

॥५॥

पुनर्भूरिति संज्ञा सा सञ्जाता दुहिता तव ॥

पुनर्भूर्जनयेत्पुत्रं यं कदाचित्कथंचन

॥६॥

स पातयत्यसंदिग्धं दश पूर्वान्दशापरान् ॥

एकविंशतिमं चैव तथैवात्मानमेव च

॥७॥

न वरिष्याम्यहं तेन सुतां तेऽहं नरसिप ॥

निर्दाक्षिण्यमिति प्रोच्य दशार्णाधिपतिस्तदा

॥८॥

छंद्यमानोऽपि विविधैर्हस्त्यश्वरथपूर्वकैः ॥

अवज्ञाय महीपालं प्रस्थितः स्वपुरं प्रति

॥९॥

अथानर्त्तो गृहं प्राप्य मृगावत्याः समाकुलः ॥

तद्वृत्तं कथयामास यदुक्तं तेन भूभुजा ॥

स्वभार्यायाः सुतायाश्च मन्त्रिणां दुःखसंयुतः

॥१०॥

ते प्रोचुः संति भूपालाः संख्याहीना महीतले ॥

रूपाढ्या यौवनोपेता हस्त्यश्वरथसंयुताः

॥११॥

तेषामेकतमस्य त्वं देहि कन्यां निजां विभो ॥

मा विषादे मनः कृत्वा दुःखस्य वशगो भव

॥१२॥

आनर्तोऽपि च तच्छ्रुत्वा तेषां वाक्यं सुदुःखितम् ॥

ततः प्राह प्रहृष्टात्मा तान्सर्वान्मन्त्रिपूर्वकान्

॥१३॥

तां च कन्यां स्थितां तत्र साम्ना परमवल्गुना ॥

पुत्रि दृष्टा महीपालाः सर्वे चित्रगतास्त्वया

॥१४॥

तेषां मध्यान्नृपं चान्यं कञ्चिद्वरय शोभने ॥

यस्ते चित्तस्य सन्तोषं कुरुते दृक्पथं गतः

॥१५॥

रत्नावत्युवाच

न चाहं वरयिष्यामि पतिमन्यं कथंचन ॥

दशार्णाधिपतिं मुक्त्वा श्रूयतामत्र कारणम्

॥१६॥

सकृज्जल्पंति राजानः सकृज्जल्पंति च द्विजाः ॥

सकृत्कन्याः प्रदीयंते त्रीण्येतानि सकृत्सकृत्

॥१७॥

एवं ज्ञात्वा न मां तात त्वमन्यस्मिन्महीपतौ ॥

दातुमर्हसि धर्मोऽयं न भवेच्छाश्वतो यतः

॥१८॥

आनर्त उवाच

वाङ्मात्रेण प्रदत्ता त्वं दशार्णाधिपतेर्मया ॥

न ते हस्तग्रहं प्राप्तो विप्राग्निगुरुसन्निधौ

॥१९॥

तत्कथं स पतिर्जातस्तवः पुत्रि वदस्व मे

॥२०॥

रत्नावत्युवाच

मनसा चिंत्यते कार्यं सकृत्तातपुरा यतः ॥

वाचया प्रोच्यते पश्चात् कर्मणा क्रियते ततः

॥२१॥

तन्मया मनसा दत्तस्तस्यात्माऽयं पुरा किल ॥

त्वया च वाचया चास्मै प्रदत्तास्मि तथा विभो ॥

तत्कथं न पतिर्मे स्याद्ब्रूहि वा यदि मन्यसे

॥२२॥

साहं तपश्चरिष्यामि कौमारव्रतधारिणी ॥

नान्यं पतिं करिष्यामि निश्चयोऽयं मया कृतः

॥२३॥

तच्छ्रुत्वा वचनं रौद्रं माता तस्या मृगावती ॥

अश्रुपूर्णेक्षणा दीना वाक्यमेतदुवाच ह

॥२४॥

मा पुत्रि साहसं कार्षीस्तपोऽर्थं त्वं कथञ्चन ॥

बाला त्वं सुकुमारांगी सदैव सुखभागिनी

॥२५॥

कथं तपः समर्थासि विधातुं त्वमनिंदिते ॥

कन्दमूलफलाहारा चीरवल्कलधारिणी

॥२६॥

तस्मान्मुख्यस्य भूपस्य कस्यचित्वां ददाम्यहम्

॥२७॥

एषा ते ब्राह्मणीनाम सखी परमसंमता ॥

प्रतीक्षते विवाहं ते कौमारं भावमाश्रिता

॥२८॥

यस्य भूपस्य त्वं हर्म्ये प्रयास्यसि विवाहि ता ॥

पुरोधास्तस्य यो राज्ञो भार्येयं तस्य भाविनी

॥२९॥

रत्नावत्युवाच

न च भूयस्त्वया वाच्यं वाक्यमेवंविधं क्वचित् ॥

मदर्थे यदि मे प्राणास्त्वं वांछसि सुतैषिणी

॥३०॥

अथवा त्वं हठार्थं च तपोविघ्नं करिष्यसि

॥३१॥

ततस्त्यक्ष्याम्यहं देहं भक्षयित्वा महद्विषम् ॥

खंडयिष्याम्यहं जिह्वां प्रवेक्ष्यामि च वा जलम्

॥३२॥

एवं सा निश्चयं कृत्वा प्रोच्य तां जननीं तदा

॥३३॥

ततः प्रोवाच तां कन्यां ब्राह्मणीं संमतां सखीम् ॥

कृतांजलिपुटा भूत्वा समालिंग्य च सादरम्

॥३४॥

गच्छ त्वं स्वपितुर्हर्म्यं प्रेषितासि मया शुभे ॥

येन ते यच्छति पिता नागराय महात्मने

॥३५॥

क्षमस्व यन्मया प्रोक्ता कदाचित्परुषं वचः ॥

त्वयापि यन्मम प्रोक्तं क्षांतं चैतन्मया ध्रुवम्

॥३६॥

ब्राह्मण्युवाच

अष्टवर्षा भवेद्गौरी नववर्षा तु रोहिणी ॥

दशवर्षा भवेत्कन्या अत ऊर्ध्वं रजस्वला

॥३७॥

कौमार्यं च प्रणष्टं मे त्वत्संपर्काद्वरानने ॥

जातं षोडशकं वर्षं स्त्रीधर्मेण समन्वितम्

॥३८॥

न मे पाणिग्रहं कश्चिन्नागरोऽत्र करिष्यति ॥

बुध्यमानस्तु स्मृत्यर्थं वक्ष्य माणं वरानने

॥३९॥

रजस्वलां च यः कन्यामुद्वाहयति निर्घृणः ॥

तस्याः सन्तानमासाद्य पातयेत्पुरुषान्दश

॥४०॥

रजस्वला तु यः कन्यां पिता यच्छति निर्घृणः ॥

स पातयेदसंदिग्धं दश पूर्वान्दशापरान्

॥४१॥

तस्मादहं करिष्यामि त्वया सार्धं तपः शुभे ॥

पित्रा नैव हि मे कार्यं न च मात्रा कथंचन

॥४२॥

सूत उवाच

एवं ते निश्चयं कृत्वा कन्यके द्वे द्विजोतमाः ॥

गते यत्र स्थितः साक्षाद्भर्तृयज्ञो महामुनिः

॥४३॥

स्थितो वास्तुपदे रम्ये सर्वतीर्थमये शुभे ॥

तस्य तपःप्रभावेन जातु कोपो न दृश्यते

॥४४॥

कस्यचित्क्वापि मर्त्यस्य तिर्यग्योनिग तस्य च ॥

क्रीडंति नकुलाः सर्पैर्मार्जाराः सह मूषकैः

॥४६॥

सारंगा द्वीपिभिः सार्धं काकाश्च सह कौशिकैः ॥

भर्तृयज्ञं सुखासीनं तत्र गत्वा तु ते शुभे ॥

प्रोचतुर्विनयोपेते कृतांजलिपुटे स्थिते

॥४६॥

ब्राह्मण्युवाच

अहं सख्या समं याता ह्यनया राजकन्यया ॥

तपोऽर्थे तव पादांते तद्ब्रूहि तपसो विधिम्

॥४७॥

वदस्व येन तत्कृत्स्नं प्रकरोमि महामते

॥४८॥

भर्तृयज्ञ उवाच

अहं ते कथयिष्यामि तपश्चर्याविधिं पृथक् ॥

येन संप्राप्यते मोक्षः कि पुनस्त्रिदशालयः

॥४९॥

चांद्रायणानि कृच्छ्राणि तथा सांतपनानि च ॥

षष्ठे काले तथा भोज्यं दिनांतरितमेव च

॥५०॥

ब्रह्मकूर्चं त्रिरात्रं च एकभक्तमयाचितम् ॥

तपोद्वाराणि सर्वाणि कृतान्येतानि वेधसा

॥५१॥

स्वशक्त्या चैव कार्याणि रागद्वेषविवर्जितैः ॥

वांछितव्यं फलं चैव सर्वेषामेव पुत्रिके ॥

ततः सिद्धिमवाप्नोति या सदा मनसि स्थिता

॥५२॥

समत्वं शत्रुमित्राभ्यां तथा पा षाणरत्नयोः ॥

यदा संजायते चित्ते तदा मोक्षमवाप्नुयात्

॥५३॥

यो लिंगग्रहणं कृत्वा ततः कोपपरो भवेत् ॥

तस्य वृथा हि तत्सर्वं यथा भस्महुतं तथा

॥५४॥

सूत उवाच

सा तथेतिप्रतिज्ञाय ब्राह्मणी सहिता तया ॥

रत्नावत्या जगामाथ किंचिच्चैव जलाशयम्

॥५५॥

स्वच्छोदकेन संपूर्णं पद्मिनीषंडमंडितम् ॥

ततश्चांद्रायणं चक्रे तपसः प्रथमं व्रतम्

॥५६॥

ततः कृच्छ्रव्रतं चक्रे ततः सांतपनं च सा ॥

षष्ठान्नकालभोज्या च सा चाभूद्वत्सरत्रयम्

॥५७॥

त्रिरात्रोपोषणं पश्चाद्यावद्वर्षत्रयं तथा ॥

एकान्तरोपवासैश्च साऽनयद्वत्सरत्रयम्

॥५८॥

हेमंते जलमध्यस्था सा बभूव तपस्विनी ॥

पंचाग्निसाधका ग्रीष्मे सा बभूव यशस्विनी

॥५९॥

निराश्रयाऽभवत्साध्वी वर्षाकाल उपस्थिते ॥

ध्यायमाना दिवानक्तं देवदेवं जनार्दनम्

॥६०॥

यद्यद्व्रतं पुरा चक्रे ब्राह्मणी सा च सुव्रता ॥

अन्यं जलाशयं प्राप्य सा तच्चक्रे नृपात्मजा ॥

प्रीत्या परमया युक्ता तदा सा द्विजस त्तमाः

॥६१॥

ततो वर्षशतं सार्धं फलाहारा बभूव सा ॥

शीर्णपर्णाशना पश्चात्तावन्मात्रं व्यवस्थिता

॥६२॥

ततश्चैव जलाहारा यावद्वर्षशतानि षट् ॥

वायुभक्षा बभूवाथ सहस्रं परिवत्सरान्

॥६३॥

यथायथा तपश्चक्रे सा कुमारी द्विजोत्तमाः ॥

तथातथाऽभवत्तस्यास्तेजोवृद्धिरनुत्तमा

॥६४॥

एतस्मिन्नेव काले तु भगवाञ्छशिशेखरः

॥६५॥

गौर्या सह प्रसन्नात्मा तस्या गोचरमागतः ॥

मेघगंभीरया वाचा ततोवचनमब्रवीत्

॥६६॥

वत्से तपोनिवृत्तिं त्वं कुरुष्व वचनान्मम ॥

प्रार्थयस्व मनोऽभीष्टं येन सर्वं ददामि ते

॥६७॥

ब्राह्मण्युवाच

अभीष्टमेतदेवं मे यत्त्वं दृष्टोऽसि शंकर ॥

स्वप्नेऽपि दर्शनं देव दुर्लभं ते नृणां यतः

॥६८॥

भगवानुवाच

न मे स्याद्दर्शनं व्यर्थं कथंचित्सुतपस्विनि ॥

तस्माद्वरय भद्रं ते वरं येन ददाम्यहम्

॥६९॥

ब्राह्मण्युवाच

एषा मे सुसखी साध्वी राजपुत्री यशस्विनी ॥

ख्याता रत्नावतीनाम प्राणेभ्योऽपिगरीयसी

॥७०॥

मम तुल्यं तपश्चक्रे शूद्रयोनावपि स्थिता ॥

निवर्तते तु यद्येषा तपसस्तु निवर्तनम् ॥

करोम्यद्य जगन्नाथ तदहं संशयं विना

॥७१॥

अस्याः स्नेहेन संत्यक्तो मया भर्ता सुरेश्वर ॥

तस्माद्देव वरं देहि त्वमस्या मनसि स्थितम्

॥७२॥

सूत उवाच

तस्यास्तद्वचनं श्रुत्वा भगवाञ्छशिशेखरः ॥

अब्रवीद्राजपुत्रीं तां मेघगंभीरया गिरा ॥

वत्से मद्वचनादद्य तपस्त्वं त्यक्तुमर्हसि

॥७३॥

वरं वरय कल्याणि नित्यं मनसि संस्थितम् ॥

अदेयमपि दास्यामि सांप्रतं तव भामिनि

॥७४॥

रत्नावत्युवाच

एतज्जलाशयं पुण्यं पद्मिनीषण्ड मण्डितम्

॥७५॥

यत्रैषा ब्राह्मणी साध्वी नित्यं च तपसि स्थिता ॥

अस्या नाम्ना च विख्यातिं तीर्थमेतत्प्रपद्यताम्

॥७६॥

अत्र यः कुरुते स्नानं श्रद्धया परया युतः ॥

तस्य भूयात्सदा वासो देवदेव त्रिविष्टपे औ

॥७७॥

मदीयं मम नाम्ना तु शूद्रासंज्ञं तु जायताम् ॥

तस्य तुल्यप्रभावं तु तीर्थस्य प्रतिपद्यताम्

॥७८॥

आवाभ्यां नित्यशः कार्यं कुमारत्वे महत्तपः ॥

आराध्यस्त्वं सुरश्रेष्ठो वाङ्मनःकर्मभिस्तथा

॥७९॥

एतस्मिन्नेव काले तु निर्भिद्य धरणीतलम् ॥

लिंगं माहेश्वरं विप्रा निष्क्रांतं सूर्यसंनिभम्

॥८०॥

ततः प्रोवाच ते देवः स्वयमेव महेश्वरः ॥

ताभ्यां सुतपसा तुष्टः सादरं भक्तवत्सलः

॥८१॥

एतत्तीर्थद्वयं ख्यातं त्रैलोक्येपि भविष्यति ॥

शूद्रीनाम त्वदीयं तु ब्राह्मणी च सखी तव

॥८२॥

तीर्थद्वयेऽपि यः स्नात्वा एतस्मिञ्छ्रद्धयाऽन्वितः ॥

त्वत्तः पद्मानि संगृह्य अस्यास्तोयं च निर्मलम् ॥

एतच्च मामकं लिंगं स्नापयित्वाऽर्चयिष्यति

॥८३॥

पश्चात्पद्मैश्चतुर्दश्यां शुक्लायां सोमवासरे ॥

चैत्रे मासि च संप्राप्ते चिरायुः स भविष्यति

॥८४॥

सर्वपापविनिर्मुक्तो यद्यपि स्यात्सुपापकृत्

॥८५॥

एवमुक्त्वा स भगवांस्ततश्चादर्शनं गतः ॥

तत्र नित्यं च तपसि स्थिते सख्यावुभावपि

॥८६॥

यावत्कल्पशतं तावज्जरामरणवर्जि ते ॥

अद्यापि गगने ते च दृश्येते तारकात्मके

॥८७॥

ततःप्रभृति तत्ख्यातं तीर्थयुग्मं धरातले ॥

आगत्याथ नरो दूरात्ताभ्यां कृत्वा निमज्जनम्

॥८८॥

पूजयित्वा तु तल्लिंगं ततो याति दिवालयम् ॥

महापातकयुक्तोऽपि तत्प्रभावादसंशयम्

॥८९॥

एतस्मिन्नंतरे मर्त्ये नष्टा धर्मस्य च क्रिया ॥

यज्ञदानकृता या च देवार्चनसमुद्भवा

॥९०॥

व्याप्तस्तथाखिलः स्वर्गो मानवैः स्पर्धयान्वितैः ॥

सार्धं देवैर्विमानस्थैरप्सरोगणसेवितैः

॥९१॥

एतस्मिन्नेव काले तु धर्मराजः समाययौ ॥

यत्र वेदध्वनिर्ब्रह्मा ब्रह्मलोकं समाश्रितः

॥९२॥

अब्रवीद्दुःखितो दीनः क्षिप्त्वाग्रे पत्रकद्वयम् ॥

एकं पापसमुद्भूतमन्यद्धर्मसमुद्भवम्

॥९३॥

चित्रेण लिखितं यच्च विचित्रेण तथा परम् ॥

हाटकेश्वरजे क्षेत्रे देवतीर्थयुगं स्थितम्

॥९४॥

शूद्राख्यं ब्राह्मणीनाम तथान्यत्पद्ममंडितम् ॥

तथा तत्रास्ति लिंगं च पुण्यं माहेश्वरं महत्

॥९५॥

त्रयाणामथ तेषां च प्रभावात्सर्वमानवाः ॥

अपि पापसमायुक्ताः प्रयांति त्रिदशालयम्

॥९६॥

शून्या मे नरका जाताः सर्वे ते रौरवादयः

॥९७॥

न कश्चिद्यजनं चक्रे न दानं न च तर्पणम् ॥

देवतानां पितॄणां च मनुष्याणां विशेषतः

॥९८॥

तस्मान्मुक्तो मया सर्वो योऽधिकारस्तवोद्भवः ॥

नियोजयस्व तत्रान्यं कञ्चिच्छक्ततमं ततः

॥९९॥

अप्रमाणं स्थितं सर्वमेतत्पत्रद्वयं मम ॥

तच्छ्रुत्वा पद्मजः प्राह समानीय शतक्रतुम्

॥१००॥

गत्वा शीघ्रतमं मर्त्ये त्वं शक्र वचनान्मम ॥

हाटकेश्वरजे क्षेत्रे तीर्थद्वयमनुत्तमम्

॥१०१॥

शूद्र्याख्यं ब्राह्मणीत्येव यच्च लिंगमनुत्तमम् ॥

तत्रस्थं नाशय क्षिप्रं कृत्वा पांसुप्रवर्षणम्

॥१०२॥

सूत उवाच

तच्छ्रुत्वा सत्वरं शक्रो गत्वा भूमितलं ततः ॥

पांसुभिः पूरयामास ते तीर्थे लिंगमेव च

॥१०३॥

अद्यापि कलिकालेऽस्मिन्द्वाभ्यां गृह्य सुमृत्तिकाम् ॥

स्नात्वा च तिलकं कार्यं सर्वपापविशुद्धये

॥१०४॥

चतुर्दशीदिने प्राप्ते सोमवारे च संस्थिते ॥

द्वाभ्यां यः कुरुते श्राद्धं श्रद्धया परया युतः ॥

गयाश्राद्धेन किं तस्य मनुः स्वायंभुवोऽब्रवीत्

॥१०५॥

एतद्वः सर्वमाख्यातं यत्पृष्टोऽस्मि द्विजोत्तमाः ॥

यथा सा ब्राह्मणी जाता शूद्री चापि तथापरा ॥

यश्चैतच्छृणुयाद्भक्त्या पठेद्वा द्विजसत्तमाः ॥

सोऽपि तद्दिनजात्पापान्मुच्यते नात्र संशयः

॥१०७॥

एवं नरो न कः सिद्धस्तस्य लिंगस्य पूजनात् ॥

चिरायुश्च तथा जातो यथान्यो नात्र विद्यते

॥१०८॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये शूद्रीब्राह्मणीतीर्थद्वयमाहात्म्यवर्णनं नामाष्टनवत्युत्तरशततममोऽध्यायः॥