मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — नागरखण्डः, अध्याय १७९

3
नागरखण्डः · 179

तथान्यदपि तत्रास्ति पुष्करत्रितयं शुभम्

सूत उवाच

तथान्यदपि तत्रास्ति पुष्करत्रितयं शुभम् ॥

हाटकेश्वरजे क्षेत्रे सर्वपातकनाशनम्

॥१॥

यस्मिन्दृष्टेऽथवा स्पृष्टे कीर्तिते वा द्विजोत्तमाः ॥

पातकं नाशमायाति भास्करेण तमो यथा

॥२॥

पुनंति सर्वतीर्थानि स्नानाद्दानादसंशयम् ॥

पुष्करालोकनादेव सर्वपापैः प्रमुच्यते

॥३॥

ऋषय ऊचुः

श्रूयते पुष्करंनाम तीर्थं त्रैलोक्यविश्रुतम् ॥

ब्रह्मणा निर्मितं तत्र यच्च योजनमात्रकम्

॥४॥

उत्तरे चन्द्रभागाया नद्या यावत्सरस्वती ॥

दक्षिणे करतोयायाः सीमेयं पुष्करत्रये

॥५॥

अस्माकं तु पुरा सूत त्वयोक्तं वियति स्थितम् ॥

एतन्नः कौतुकं सूत तत्कथं हाटकेश्वरे ॥

तत्र क्षेत्रे समायातं तस्मात्त्वं वक्तुमर्हसि

॥६॥

सूत उवाच

सत्यमेतन्महाभागा यद्भवद्भिरुदाहृतम् ॥

तस्मिन्क्षेत्रे द्विजश्रेष्ठास्तच्छृणुध्वं समाहिताः

॥७॥

सर्वतो विस्तराद्वच्मि नमस्कृत्य स्वयं भुवम्

॥८॥

ब्रह्मलोके निवसतो ब्रह्मणोऽव्यक्तजन्मनः ॥

देवर्षिर्नारदः प्राप्तो भ्रांत्वा लोकत्रयं मुनिः

॥९॥

स नत्वा शिरसा पादावुपविष्टस्त दग्रतः

॥१०॥

ब्रह्मोवाच

कस्माद्वत्स चिराद्दृष्टः कुतः प्राप्तोऽधुना भवान् ॥

क्व भ्रांतस्त्वं समाचक्ष्व ब्रूहि वत्सात्र कारणम्

॥११॥

नारद उवाच

मर्त्यलोकाद्विभो प्राप्तः सांप्रतं च त्वरान्वितः ॥

तव पादप्रपूजार्थं सत्येनात्मानमालभे

॥१२॥

ब्रह्मोवाच

किंवदन्तीं ममाचक्ष्व मर्त्यलोकसमुद्भवाम् ॥

कीदृशाः पार्थिवास्तत्र कीदृशा द्विजसत्तमाः ॥

कीदृशा व्यवहाराश्च वर्तन्ते तत्र सांप्रतम्

॥१३॥

नारद उवाच

मर्त्यलोके कलिर्जातः सांप्रतं सुरसत्तम

॥१४॥

राजानः सत्पथं त्यक्त्वा तथा लोभपरायणाः ॥

पीडयंति च लोकांश्च अर्थहेतोः सुनिर्घृणाः

॥१५॥

शौर्यभावपरित्यक्ताः परदारविमर्दकाः ॥

पूजयन्ति न ते विप्रान्न देवान्न गुरूनपि

॥१६॥

वेदविक्रय कर्तारो ब्राह्मणाः शौचवर्जिताः ॥

पापप्रतिग्रहासक्ताः सन्ध्याहीनाः सुनिर्घृणाः

॥१७॥

कृषिकर्मरता नित्यं वैश्यवत्पशुपालकाः ॥

वैश्याः सर्वे समुच्छेदं प्रयाता धरणीतले

॥१८॥

शूद्रा नित्यं धर्मकामाः शूद्राश्चैव तपस्विनः ॥

लोकयात्राक्रियाः सर्वे प्रहसंति व्यपत्रपाः

॥१९॥

यस्य चास्ति गृहे वित्तं तरुण्यश्च तथा स्त्रियः ॥

तेनतेन समं सख्यं प्रकुर्वन्ति नरा भुवि

॥२०॥

विधवानां व्रतस्थानां सर्वेषां लिंगिनां तथा ॥

हृदि स्थितो महान्कामो व्रतचर्याबहिःस्थिताः

॥२१॥

तीर्थानि विप्लवं यांतिपापलोकश्रितानि च ॥

कलेभींतानि सर्वाणि प्रद्रवन्ति दिशो दश

॥२२॥

अहं तत्र स्थितो यस्मात्कलिकाले पितामह

॥२३॥

कलिकाले विशेषेण स्वैरिण्यो ललितस्पृहाः ॥

भर्त्रा विवदमानाश्च स्त्रियः कार्मणतत्पराः ॥

वृथा व्रतानि कुर्वंति त्यक्त्वा ताः स्वपतेः कथाम्

॥२४॥

कलिर्बलिष्ठः सुतरां वरदानेन ते कृतः ॥

यदा मर्त्ये भवेद्युद्धं कंडूतिर्जायते हृदि

॥२९॥

स्वर्गे वा मस्तके चैव पाताले चाथ पादयोः ॥

सांप्रतं मर्त्यलोके च मया दृष्टमनेकशः

॥२६॥

श्वश्रूणां च वधूनां च तथा जनकपुत्रयोः ॥

बांधवानां विशेषेण तथा च स्वामिभृत्ययोः

॥२७॥

चौराणां पार्थिवानां च दम्पत्योश्च विशेषतः ॥

स्वल्पोदकास्तथा मेघाः स्वल्पसस्या च मेदिनी

॥२८॥

स्वल्पक्षीरास्तथा गावः क्षीरे सर्पिर्न विद्यते ॥

एवं युद्धानि तेषां च वीक्षमाणो दिवानिशम्

॥२९॥

अहं मर्त्ये परिभ्रांतश्चिरात्तेन समागतः ॥

भूयो यास्यामि तत्रैव कण्डूतिर्महतीस्थिता

॥३०॥

तच्छ्रुत्वा वचनं तस्य नारदस्य पितामहः ॥

पुष्करस्य कृते जातश्चिन्ताव्याकु लतेंद्रियः

॥३१॥

मर्त्ये च मामकं तीर्थं पुष्करंनाम विश्रुतम् ॥

नाशं यास्यति तन्नूनं कलिकालपरिप्लुतम्

॥३२॥

तस्मादन्यत्र नेष्यामि कलिर्यत्र न विद्यते ॥

येन तत्र विमुंचामि निजं तीर्थं च पुष्करम्

॥३३॥

कलिकाले च संप्राप्ते सर्वप्राणिभयंकरे ॥

तत्र प्रयांतु तीर्थानि सर्वा ण्येव विशेषतः

॥३४॥

गते कलौ प्रयास्यंति निजस्थानमसंशयम्

॥३५॥

एवं निश्चित्य मनसा हस्तस्थं कमलं ततः ॥

प्रोवाच सादरं तच्च स्वयं ध्यात्वा पितामहः

॥३६॥

पत त्वं पद्म भूपृष्ठे कलिर्यत्र न विद्यते ॥

येनानयामि तत्रैव पुष्करं तीर्थमात्मनः

॥३७॥

ततस्तत्प्रेषितं तेन पद्मं भ्रांत्वा महीतले ॥

समस्ते पतितं क्षेत्रे हाटकेश्वरसंभवे

॥३८॥

दृष्ट्वा वेदविदो विप्रान्स्वाध्यायनिरताञ्छुचीन् ॥

तेषां यज्ञक्रियाभिश्च यज्ञोपांतैः समंततः

॥३९॥

यूपाद्यैः सर्वतो व्याप्ते सदिशे गगनांगणे ॥

ऋग्यजुःसामघोषेण तथा चाथर्वजेन च

॥४०॥

दिग्मण्डले तथा व्याप्ते नान्यः संश्रूयते ध्वनिः ॥

तथा च तार्किकाणां च विवादेषु महत्सु च

॥४१॥

वेदांतानां समस्तानां व्याख्याने बहुधा कृते ॥

दृश्यन्ते मुनयो यत्र संस्थिता नियमेषु च

॥४२॥

एकाहारा निराहारा एकांतरकृताशनाः ॥

त्रिरात्रोपोषिताश्चान्ये कृच्छ्रचांद्रायणे रताः

॥४३॥

महापाराकिणश्चान्ये तथा मासोपवासिनः ॥

अश्मकुट्टाशिनश्चान्ये दन्तोलूखलिकास्तथा

॥४४॥

शीर्णपर्णाशिनश्चैके फलाहारा महर्षयः ॥

तद्दृष्ट्वा तादृशं क्षेत्रं संयुक्तं विविधैर्गुणैः

॥४५॥

ततस्तत्पतितं तत्र पुण्यं ज्ञात्वा महीतले ॥

यत्र स्थानेऽपतत्पूर्वं तस्मादुच्चलितं पुनः ॥

अन्यस्मिंश्च ततः स्थाने द्वितीये द्विजसत्तमाः ॥

तस्मादपि तृतीये तु तृतीयं पंकजं हितम्

॥४७॥

ततो गर्तात्रयं जातं तेषु स्थानेषु च त्रिषु ॥

गर्तासु च जल जातं स्वच्छं स्फटिकसंनिभम्

॥४८॥

एतस्मिन्नंतरे प्राप्तः स्वयमेव पितामहः ॥

तत्र स्थाने द्विजश्रेष्ठा यज्ञकर्मप्रसिद्धये

॥४९॥

दृष्ट्वा समंततः क्षेत्रं हाटकेश्वरसंज्ञितम् ॥

नानाविप्रैः समाकीर्णं वेदवेदांगपारगैः ॥

तपस्विभिस्तथानेकैर्व्रतचर्यापरायणैः

॥५०॥

अहो क्षेत्रमहो क्षेत्रं पुण्यं रम्यं द्विजप्रियम् ॥

तस्मायज्ञं करिष्यामि क्षेत्रेऽस्मिंश्च द्विजाश्रये

॥५१॥

आनयिष्यामि तच्चापि पुष्करत्रितयं शुभम् ॥

गर्तास्वेतासु पुण्यासु ज्येष्ठं मध्यं कनीयकम्

॥५२॥

कलिकाले च संप्राप्ते येन लोपं न गच्छति ॥

स्वयं निश्चित्य मनसा चोपविश्य धरातले

॥५३॥

ध्यात्वा च सुचिरं कालमानयामास तत्र च ॥

पुष्करत्रितयं श्रेष्ठं ज्येष्ठमध्यकनीयकम्

॥५४॥

ततोऽब्रवीत्स हृष्टात्मा ह्येतद्धि पुष्कर त्रयम् ॥

मया सम्यक्समानीतं कलिकालभयेन च

॥५५॥

येऽत्र स्नानं करिष्यंति श्रद्धया परया युताः ॥

ते यास्यंति परां सिद्धिमक्षयां मत्प्रसादतः

॥५६॥

ये च श्राद्धं करिष्यंति कार्तिक्यां सुसमाहिताः ॥

करिष्यंति गयाशीर्षे तेषां पुण्यं महत्तमम्

॥५७॥

तत्राद्यात्पुष्करात्पुण्यं लभिष्यंति शताधिकम् ॥

मया यज्ञः कृतस्तत्र कार्तिक्यां पूर्वपुष्करे

॥५८॥

वैशाख्यां च करिष्यामि अत्राहं च द्वितीयके

॥५९॥

एवमुक्त्वा ततो ब्रह्मा ह्यादिदेश सदागतिम् ॥

ममादेशाद्द्रुतं वायो समानय पुरंदरम्

॥६०॥

आदित्यैर्वसुभिः सार्धं रुद्रैश्चैव मरुद्गणैः ॥

गंधर्वैर्लोकपालैश्च सिद्धैर्विद्याधरैस्तथा

॥६१॥

येन मे स्यात्सहायत्वं समस्ते यज्ञकर्मणि ॥

तच्छ्रुत्वा सकलं वायुर्गत्वा शक्रनिवेशनम् ॥

कथयामास तत्सर्वं यदुक्तं परमेष्ठिना

॥६२॥

सत्वरं प्रययौ तत्र सर्वैर्देवगणैः सह ॥

प्रणिपत्य ततस्तं स ब्रह्माणं वाक्यमब्रवीत्

॥६३॥

आदेशो दीयतां देव ह्यहमाकारितस्त्वया ॥

यदर्थं तत्करिष्यामि तस्माच्छीघ्रं निवेदय

॥६४॥

ब्रह्मोवाच

मया शक्रात्र चानीतं सुपुण्यं पुष्करत्रयम् ॥

कलिकालभयाच्चैव करिष्ये तदहं स्थिरम्

॥६५॥

अग्निष्टोमत्रयं कृत्वा वैशाख्यां च यथार्चितम् ॥

संभारमाहरस्वाशु तदर्थं सर्वमेव हि

॥६६॥

ब्राह्मणांश्च तदर्हांश्च वेदवेदांगपारगान् ॥

तच्छ्रुत्वा विनयाच्छक्रस्तथेत्युक्त्वा त्वरान्वितः ॥

' संभारानानयामास तदर्हांश्च द्विजोत्तमान्

॥६७॥

ततश्चकार विधिवद्यज्ञं स प्रपितामहः ॥

यथोक्तविधिना सर्वं तथा संपूर्णदक्षिणम्

॥६८॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये पुष्करत्रयोत्पत्तिपूर्वकं यज्ञसमारंभार्थमुपकरणानयनब्राह्मणामन्त्रणादि प्रकारकथनंनामैकोनाशीत्युत्तरशततमोऽध्यायः ॥ १७९ ॥