एतद्वः सर्वमाख्यातं यथा मे पिंगला गुरुः
अतिथिरुवाच
एतद्वः सर्वमाख्यातं यथा मे पिंगला गुरुः ॥
संजाता कुररो जातो यथा तत्प्रवदान्यहम्
॥१॥ममासीद्द्रविणं भूरि पितृपैतामहं महत्
॥२॥येऽथ पुत्राश्च दायादा बांधवा अपि ॥
ते मां सर्वे प्रबाधन्ते द्रव्यसस्यकृते सदा
॥३॥यस्याहं न प्रयच्छामि स मां चैव प्रबाधते ॥
सीदमानस्तु सुभृशं दर्शयन्प्राणसंक्षयम्
॥४॥एक साम्ना प्रयाचंते वित्तं भेदेन चापरे ॥
भयदानेन चान्येऽपि केचिद्दंडेन च द्विजाः
॥५॥एवं नाहं क्वचित्सौख्यं तेषां पार्श्वाल्लभामि भोः ॥
चिन्तयानो दिवानक्तं क्लेशस्य परि संक्षयम् ॥
उपायं न च पश्यामि येन शांतिः प्रजायते
॥६॥अन्यस्मिन्दिवसे दृष्टः कृतमांसपरिग्रहः ॥
कुररश्चंचुना व्योम्नि गच्छमानस्त्वरान्वितः
॥७॥हन्यमानः समंताच्च मांसार्थे विविधैः खगैः ॥
अथ तेन परिक्षिप्तं तन्मांसं पक्षिजाद्भयात्
॥८॥यावत्तावत्सुखी जातस्तेऽपिसर्वे समुज्झिताः ॥
मयापि क्लिश्यमानेन तद्वच्च निजबांधवैः
॥९॥सामिषं कुररं दृष्ट्वा वध्यमानं निरामिषैः ॥
आमिषस्य परित्यागात्कुररः सुखमेधते
॥१०॥एवं निश्चित्य मनसा सर्वानानीय बांधवान् ॥
पुत्रान्पौत्रांस्ततः सर्वान्पुरस्तेषां निवेदितम्
॥११॥त्रिःसत्यं शपथं कृत्वा नान्यदस्तीति मे गृहे ॥
विभज्यार्थं यथान्यायं यूयं गृह्णीत बान्धवाः
॥१२॥ततःप्रभृति तैर्मुक्तः सुखं तिष्ठाम्यहं द्विजाः ॥
एतस्मात्कारणाज्जातो ममासौ कुररो गुरुः
॥१३॥अर्थसंपद्विमोहाय विमोहो नरकाय च ॥
तस्मादर्थमनर्थं तं मोक्षार्थी दूरतस्त्यजेत्
॥१४॥यथामिषं जले मत्स्यैर्भक्ष्यते श्वापदैर्भुवि ॥
आकाशे पक्षिभिश्चैव तथा सर्वत्र वित्तवान्
॥१५॥दोषहीनोऽपि धनवान्भूपाद्यैः परिताप्यते ॥
दरिद्रः कृतदोषोऽपि सर्वत्र निरुपद्रवः
॥१६॥आलंबिताः परैर्यांति प्रस्खलंति पदेपदे ॥
गद्गदानि च जल्पंते धनिनो मद्यपा इव
॥१७॥भक्ते द्वेषो बहिः प्रीती रुचितं गुरुलघ्वपि ॥
मुखे च कटुता नित्यं धनिनां ज्वरिणामिव
॥१८॥अर्थानामर्जने दुःखमर्जितानां च रक्षणे ॥
नाशे दुःखं व्यये दुःखं धिगर्थो दुःखभाजनम्
॥१९॥अर्थार्थी जीव लोकोऽयं स्मशानमपि सेवते ॥
जनितारमपि त्यक्त्वा निःस्वं यांति सुता अपि
॥२०॥सुतस्य वल्लभस्तावत्पिता पुत्रोऽपि वै पितुः ॥
यावन्नार्थस्य संबन्धस्ताभ्यां भावी परस्परम् ॥
संबन्धे वित्तजे जाते वैरं संजायते मिथः
॥२१॥एतस्मात्कारणाद्वित्तं मया त्यक्तं तपोधनाः ॥
तेन सौख्येन तिष्ठामि कुररस्योपदेशतः
॥२२॥शृणुध्वं च महाभागा यथा मेऽहिर्गुरुः स्थितः
॥२३॥यथा मया गृहं त्यक्तं दृष्ट्वा सर्पविचेष्टितम् ॥
गृहारंभः सुदुःखाय सुखाय न कदाचन
॥२४॥सर्पः परकृतं वेश्म प्रविश्य सुखमेधते ॥
उषित्वा तत्र सौख्येन भूयोऽन्यत्तादृशं व्रजेत्
॥२५॥मम त्वं कुरुते नैव ममेदं गृहमित्यसौ ॥
न गृहं जायते तस्य न स्वयं हि कृतं यतः
॥२६॥यः पुनः कुरुते हर्म्यं स्वयं क्लेशैः पृथग्विधैः ॥
न तस्य याति तत्पश्चान्मृत्युकालेऽपि संस्थिते
॥२७॥गृहात्संजायते भार्या ततः पुत्रश्च कन्यका ॥
तेषामर्थे करोति स्म कृत्याकृत्यं ततः परम्
॥२८॥कोशकारमिवात्मानं वेष्टयन्नावबुध्यते
॥१२९॥पुत्रदारगृहक्षेत्रसक्ताः सीदंति जंतवः ॥
लोभपंकार्णवे मग्ना जीर्णा वनगजा इव
॥३०॥एकः पापानि कुरुते फलं भुंक्ते महाजनः ॥
भोक्तारो विप्रमुच्यंते कर्ता दोषेण लिप्यते ३१ ॥
एतस्मात्कारणाद्धर्म्यं मया त्यक्तं द्विजोत्तमाः।
मोक्षमार्गार्गला भूतं दृष्ट्वा सर्पविचेष्टितम्
॥३२॥एकरात्रं वसेद्ग्रामे त्रिरात्रं पत्तने वसेत् ॥
यो याति स यतिः प्रोक्तो योऽन्यो योगविडंबकः
॥३३॥विधूमे च प्रशांताग्नौ यस्तु माधुकरीं चरेत् ॥
गृहे च विप्रमुख्यानां यतिः स नेतरः स्मृतः
॥३४॥दण्डी भिक्षां च वा कुर्यात्तदेव व्यसनं विना ॥
यस्तिष्ठति न वैराग्यं याति नैव यतिर्हि सः
॥३५॥दिवा स्वप्नं वृथान्नं च स्त्रीकथाऽऽलोक्यमेव च ॥
श्वेतवस्त्रं हिरण्यं च यतीनां पतनानि षट्
॥३६॥समः शत्रौ च मित्रे च समलोष्टाश्मकांचनः ॥
सुहृत्पुत्र उदासीनः स यतिर्नेतरः स्मृतः
॥३७॥समौ मानापमानौ च स्वदेशे परिकेपि वा ॥
यो न हृष्यति न द्वेष्टि स यतिर्नेतरः स्मृतः
॥३८॥यस्मिन्गृहे विशेषेण लभेद्भिक्षा च वाशनम् ॥
तत्र नो याति यो भूयः स यतिर्नेतरः स्मृतः
॥३९॥एवं ज्ञात्वा मया विप्र दृष्ट्वा सर्पविचेष्टितम् ॥
सर्वसंगपरित्यागो मोक्षार्थं परिकल्पितः
॥४०॥एवं ममाहिः संजातो गुरुर्ब्राह्मणसत्तमाः।
तत्प्रभावान्महत्तेजः संजातं विग्रहे मम
॥४१॥यथा मे भ्रमरो जातो गुरुस्तद्वद्वदामि च ॥
कस्मिन्वृक्षे मया दृष्टो भ्रमरः कोऽपि संगतः
॥४२॥शाखाय तु समाश्रित्य कृतपूर्वनिबंधनम् ॥
वसंतसमये प्राप्ते पुष्पवंतश्च ये द्रुमाः
॥४३॥सुगन्धफलपुष्पाश्च सुगन्धदलसंयुताः ॥
तेषामणुं समादाय श्रेष्ठश्रेष्ठतमं रसम् ॥
नियोजयति शाखाग्रे तरोरस्य सदैव हि ॥
अनिर्विण्णतया हृष्टस्तदा सम्यङ्निरीक्षितः
॥४५॥मधुजालं ततो जातं कालेन महता महत् ॥
येनान्ये मधुना तृप्तिं प्राप्ताः शतसहस्रशः
॥४६॥तच्चेष्टितं मया वीक्ष्य शास्त्राण्यन्यानि भूरिशः ॥
ततस्तेषां समादाय सारभूतं पृथक्पृथक् ॥
कृतानि भूरिशास्त्राणि वेदांतानि च कृत्स्नशः
॥४७॥उपजीवंति यान्यन्ये यथा भृङ्गास्तथा द्विजाः
॥४८॥एवं मे मधुपो जातो गुरुत्वे च द्विजोत्तमाः ॥
तेनाहं तेजसा युक्तो नान्यदस्तीह कारणम्
॥४९॥वेदांतवादिनो येऽत्र प्रभवंति व्रतान्विताः ॥
निर्लोभा गततृष्णाश्च ते भवंति सुतेजसः
॥५०॥एकेनापि विहीना ये प्रभवंति कुबुद्धयः ॥
लोभमोहान्विताः पापा जायंते ते विचेतसः
॥५१॥वेदांतानि सुभूरीणि मया दृष्ट्वा विचार्य च ॥
समरूपाः कृता ग्रन्था मर्त्यलोकहितार्थिना
॥५२॥एवं मे गुरुतां प्राप्तो मधुपो द्विजसत्तमाः ॥
इषुकारो यथा जातस्तथा चैव ब्रवीमि वः
॥५३॥आत्मावलोकनार्थाय मया दृष्टाः सहस्रशः ॥
योगिनो ज्ञानसंपन्नास्तैः प्रोक्तं च स्वशक्तितः
॥५४॥आत्मावलोकनं भावि सुशिष्याय यथा तथा ॥
स समाधिजद्वारेण चतुराशीतिकेन च
॥५५॥आसनैस्तत्प्रमाणैश्च पद्मासनप्रपूर्वकैः ॥
असंख्यैः कारणैश्चैव ह्यध्यात्मपठनैस्तथा ॥
ततोपि लक्षितो नैव मयाऽत्मा च कथंचन
॥५६॥ततो वैराग्यमापन्नः प्रभ्रमामि धरातले ॥
गुर्वर्थे न च लेभेऽहं गुरुमात्मावलोकने
॥५७॥अन्यस्मिन्नहनि प्राप्ते राजमार्गेण गच्छता ॥
मया दृष्टो महीपालः सैन्येन महता वृतः
॥५८॥ततोऽहं मार्गमुत्सृज्य संमुखस्य महीपतेः ॥
उटजद्वारमाश्रित्य किंचिदूर्ध्वोपि संस्थितः
॥५९॥तत्रापि च स्थितः कश्चित्पुरुषः कांडकारकः ॥
ऋजुकर्मणि संयुक्तः शराणां नतपर्वणाम्
॥६०॥तस्मिन्दूरगते भूपे तथान्यः सेवकोऽभ्यगात्
॥६१॥तं पप्रच्छ त्वरायुक्तः शृण्वतोऽपि मम द्विजाः ॥
कांडकर्मणि संसक्तमृजुत्वेन स्थितं तदा
॥६२॥कियती वर्तते वेला गतस्य पृथिवीपतेः ॥
मार्गेणानेन मे ब्रूहि येन गच्छामि पृष्ठतः
॥६३॥सोऽब्रवीत्तं तदा विप्रा अधोवक्त्रः स्थितो नरः ॥
अनेन राजमार्गेण गच्छमानो महीपतिः
॥६४॥न मया वीक्षितः कश्चिदिदानीं राजसेवक ॥
तदन्यं पृच्छ चेत्कार्यं तवानेन ब्रवीतु सः
॥६५॥शरकर्मणि संसक्तस्त्वहमत्र व्यवस्थितः ॥
तच्छ्रुत्वा वचनं तस्य स्वचित्ते चिन्तितं मया
॥६६॥एकचित्ततया योगो ब्रह्मज्ञानसमुद्भवः ॥
नान्यथा भविता मे स ततश्चित्तनिरोधनम् ॥
करोमि ब्रह्मसंसिद्ध्यै ततो मेऽसौ भविष्यति
॥६७॥ततःप्रभृति चित्ते स्वे धारयामि सदैव तु ॥
विश्वरूपं तथा सूर्यं हृत्पंकजनिवासिनम्
॥६८॥ततो दिक्षु दिगन्तेषु गगने धरणीतले ॥
तमेकं चैव पश्यामि नान्यत्किंचिद्द्विजोत्तमाः
॥६९॥अहं च तेजसा युक्तस्तत्प्रभावेण संस्थितः
॥७०॥एवं मे स गुरुर्जातः शरकारो द्विजोत्तमाः ॥
शृणुध्वं कन्यका जाता गुरुत्वे मे यथा पुरा
॥७१॥सर्वसंगपरित्यागी यदाहं निर्गतो गृहात् ॥
ममानुपृष्ठतश्चैव ततो भार्या विनिर्गता
॥७२॥शिशुं पुत्रं समादाय कन्यामेकां च शोभनाम् ॥
ततोऽहं भार्यया प्रोक्तो वानप्रस्थाश्रमे स्थितः
॥७३॥कुरु मे वचनं मुक्तिरत्रैव हि भविष्यति ॥
ब्रह्मचारी गृहस्थो वा वानप्रस्थोऽथवा यतिः ॥
यदि स्यात्संयतात्मा स नूनं मुक्तिमवाप्नुयात्
॥७४॥अथवा मां परित्यज्य यदि यास्यसि चान्यतः ॥
तदहं च मरिष्यामि सत्यमेतदसंशयम्
॥७५॥मृतायां मयि ते बालावेतावनुमरिष्यतः ॥
कुमारी च कुमारश्च तस्मान्नाथ दयां कुरु
॥७६॥मा व्रजस्व परं तीर्थं परिजानन्नपि स्वयम् ॥
हाटकेश्वरजं क्षेत्रमेतत्पुण्यतरं स्मृतम्
॥७७॥सर्वेषामेव तीर्थानां श्रुतमेतन्मया विभो ॥
वदतां ब्राह्मणेन्द्राणां तथान्येषां तपस्विनाम्
॥७८॥श्लोकोऽयं बहुधा नाथ कीर्त्यमानो मया विभो ॥
विश्वामित्रस्य वक्त्रेण सन्मुनेः सत्यवादिनः
॥७९॥पुनंति सर्वतीर्थानि स्नानदानादसंशयम् ॥
हाटकेश्वरजं क्षेत्रं स्मरणादपि पावयेत्
॥८॥ततः कृच्छ्रात्प्रतिज्ञातं मयाश्रमनिषेवणम् ॥
वानप्रस्थोद्भवं वा स्यात्ततोऽहं तत्र संस्थितः
॥८१॥तत्रस्थस्य हि मे कन्या क्रीडते परतः स्थिता ॥
वलयापूरिताभ्यां च प्रकोष्ठाभ्यां ततस्ततः
॥८२॥यथायथा सा कुरुते कन्दमूलफलाशनम् ॥
तनुत्वं याति कायेन तथा चैव दिनेदिने
॥८३॥ततो मे जायते दुःखं तेषां पतन संभवम् ॥
कस्यचित्त्वथ कालस्य संजातं वलयत्रयम् ॥
तस्या हस्ते ततस्ताभ्यां शब्दः संजायते मिथः
॥८४॥ततः कालेन महता ताभ्यामेकं व्यवस्थितम् ॥
न संघर्षो न शब्दश्च तत्रस्थस्य च जायते
॥८५॥तद्विचिन्त्य मया सोऽपि ह्याश्रमः परिवर्जितः ॥
चिन्तितं च मया चित्ते कृत्वा चैवं सुनिश्चयम्
॥८६॥बहुभिः कलहो नित्यं द्वाभ्यां संघर्षणं तथा ॥
एकाकी विचरिष्यामि कुमारीवलयं यथा
॥८७॥ततः सुप्तां परित्यज्य तां भार्यां शिशुसंयुताम् ॥
गतोऽहं दूरमध्वानं यत्र नो वेत्ति सा च माम्
॥८८॥यत्राऽस्तमितशायी च यलब्धकृतभोजनः ॥
भ्रमामि मेदिनीपृष्ठे त्यक्त्वा संसारबन्धनम्
॥८९॥ततो मे ज्ञानमापन्नमेवं विप्राः शनैःशनैः ॥
अतीतानागतं चैव वर्तमानं विशेषतः
॥९०॥एवं मे कन्यका जाता गुरुत्वे द्विजसत्तमाः
॥९१॥एतद्वः सर्वमाख्यातं यत्पृष्टोऽस्मि गुरोः कृते ॥
न युष्माकं पुरो मिथ्या कीर्तयामि कथंचन
॥९२॥एवं मे ज्ञानमुत्पन्नं प्रकारैः षड्भिरेव च ॥
एभिर्लोकोत्तरं ज्ञानं युष्मत्प्रत्ययकारकम्
॥९३॥सूत उवाच
ततस्ते ब्राह्मणाः सर्वे पप्रच्छुस्तं द्विजोत्तमाः ॥
वानप्रस्थाश्रमं त्यक्त्वा भार्यां शिशुसमन्विताम् ॥
क्व गतस्त्वं तदाचक्ष्व कियत्कालं च संस्थितः
॥९४॥अतिथिरुवाच
अहं भीतः सहस्राणि ग्रामाणां च शतानि च ॥
यत्रास्तमितशायी सन्ननेकानि द्विजोत्तमाः ॥
संख्यया रहितान्येव वर्षाणां च शतानि च
॥९५॥दृष्टानि मुख्यतीर्थानि तथैवायतनानि च ॥
दृष्टाश्च पर्वताः श्रेष्ठा नद्यश्च विमलोदकाः
॥९६॥स्वयमेव मया ज्ञातो वाराणस्यां स्थितेन च ॥
यज्ञः पैतामहो भावी स्थानेऽस्मिन्मामके यतः
॥९७॥ततोऽहं सत्वरं प्राप्तः कौतुकेन द्विजोत्तमाः ॥
कीदृशः स मखो भावी यत्र यज्वा पितामहः
॥९८॥सूत उवाच
एतस्मिन्नंतरे प्राप्ताः सर्वे देवाः सवासवाः ॥
वासुदेवं पुरस्कृत्य तथा चैव महेश्वरम्
॥९९॥कमान्तरं समासाद्य पुलस्त्याद्यास्तथर्त्विजः ॥
ब्रह्मापि स्वयमायातो मृगचर्मधरस्तथा
॥१००॥ततस्ते तुष्टिमापन्नास्तस्य ज्ञानेन तेन च ॥
प्रोचुश्च वरदास्तुभ्यं सर्व एव दिवौकसः
॥१०१॥तस्माद्वरय भद्रं ते प्रार्थयस्व यथेप्सितम् ॥
अवश्यं तव दास्यामो यद्यपि स्यात्सुदुर्लभम्
॥१०२॥अतिथिरुवाच
यदि तुष्टाः सुरा मह्यं प्रयच्छंति वरं मम ॥
अनेनैव शरीरेण देवत्वं प्रार्थयाम्यहम्
॥१०३॥यज्ञभागसमोपेतं तथान्येषां दिवौकसाम् ॥
विशेषेण सुरश्रेष्ठाः स्थानं चोपरि संस्थितम्
॥१०९॥देवा ऊचुः
नूनं त्वं विबुधो भूत्वा देवलोके निवत्स्यसि ॥
अनेनेव शरीरेण यज्ञभागविवर्जितः
॥१०५॥यच्छामो यदि ते विप्र यज्ञांशं मानुषस्य भोः ॥
अप्रामाण्यं श्रुतेर्भावि तव दत्तेन तेन च
॥१०६॥अतिथिरुवाच
देवत्वेन न मे कार्यं यज्ञांशरहितेन च ॥
तदहं साधयिष्यामि यथा मुक्तिर्भविष्यति
॥१०७॥तच्छ्रुत्वा पद्मजः प्राह सर्वान्देवान्कृतांजलिः ॥
शृण्वंतु देवताः सर्वा यद्ब्रवीमि हितं वचः
॥१०९॥ममायं ब्राह्मणो यज्ञे दूरादेव समागतः ॥
नागरस्तु विशेषेण पात्रं ज्ञानसमुद्भवम्
॥१०९॥प्रतिज्ञातस्तथा सर्वैर्वरोऽस्य विबुधैर्यतः ॥
तस्मात्प्रदीयतामस्मै यदभीष्टं सुरोत्तमाः
॥११०॥महेश्वर उवाच
यथाऽस्य जायते तृप्तिर्यज्ञभागाधिका सदा ॥
तथाहं कथयिष्यामि शृण्वंतु विबुधोत्तमाः
॥१११॥य एष क्रियते यज्ञस्तस्य नाथो हरिः स्मृतः ॥
एतस्मात्कारणात्प्रोक्तः स देवो यज्ञपूरुषः
॥११२॥अद्यप्रभृति यत्किंचिच्छ्राद्धं मर्त्ये भविष्यति ॥
दैवं वा पैतृकं वाऽपि तस्य चांते व्यवस्थितः
॥११३॥एतस्य नाम संकीर्त्य पश्चाच्च यज्ञपूरुषम् ॥
संकीर्त्य भोजनं देयं ब्राह्मणस्य द्विजोत्तमाः
॥११४॥तेनास्य भविता तृप्तिर्यज्ञांताऽभ्यधिका सदा ॥
अदत्त्वास्य कृतं श्राद्धं यत्किंचित्प्रभविष्यति
॥११५॥तद्यास्यत्यखिलं व्यर्थं तथा भस्महुतं यथा ॥
वैश्वदेवांतमासाद्य यश्चैनं पूजयिष्यति
॥११६॥विष्णुनामसमोपेतं भविष्यति तदक्षयम् ॥
दत्तं स्वल्पमपि प्रायः श्रद्धापूतेन चेतसा
॥११७॥श्राद्धे वा वैश्वदेवे वा यश्चैनं नार्चयिष्यति ॥
संप्राप्तं व्यर्थतां तस्य तच्च सर्वं भविष्यति
॥११८॥अस्मिंस्तुष्टिं गते सर्वे सुरा यास्यंति संमुदम् ॥
पितरश्च तमायांति विमुखे संमुखे तथा
॥११९॥तच्छ्रुत्वा विबुधाः सर्वे महेश्वरवचस्तदा ॥
तथेति मुदिताः प्रोचुर्ब्रह्मविष्णुपुरस्सराः
॥१२०॥ततःप्रभृति संजाता पूजा चातिथिसंभवा ॥
तस्मात्सर्वप्रयत्नेन पूजा कार्याऽतिथेः सदा ॥
यज्ञे पूरुषयज्ञस्य न चैकस्य कथंचन
॥१२१॥अतिथिरुवाच
अत्रास्ति मामकं तीर्थं मया यत्र तपः कृतम् ॥
हाटकेश्वरजे क्षेत्रे पुरुकाले द्विजोत्तमाः
॥१२२॥अंगारकेण संयुक्ता चतुर्थी स्याद्यदा तिथिः ॥
सांनिध्यं तत्र कार्यं च सर्वैर्देवैश्च तद्दिने
॥१२३॥कुर्यात्तत्रैव यः स्नानं तस्मिन्नहनि संस्थिते ॥
सर्वतीर्थफलं तस्य जायतां वः प्रसादतः
॥१२४॥तथास्त्विति ततः सर्वेऽतिथिं प्रोचुः सुरोत्तमाः ॥
एतस्मिन्नंतरे प्राह पुलस्त्यर्षिः पितामहम्
॥१२५॥पुलस्त्य उवाच
ऋत्विजः सकला देवाः संस्थिताः कौतुकान्विताः ॥
उत्तिष्ठंतु च ते शीघ्रं यज्ञकर्मप्रसिद्धये
॥१२६॥एतस्मिन्नंतरे सर्वे तस्य वाक्यप्रणोदिताः ॥
उत्थिता ऋत्विजो ये च स्वानि स्थानानि भेजिरे ॥
ततः प्रववृते यज्ञः सपुनर्द्विजसत्तमाः ॥
कुर्वता यज्ञकर्माणि होमपूर्वाणि यानि च
॥१२७॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये तीर्थोत्पत्तिमाहात्म्यवर्णनं ना म पञ्चाशीत्युत्तरशत तमोऽध्यायः ॥ १८५ ॥