अश्वत्थमहिमवर्णनम्
पैजवन उवाच
श्रीः कथं तुलसीरूपा बिल्ववृक्षे च पार्वती ॥
एतच्च विस्तरेण त्वं मुने तत्त्वं वद प्रभो
॥१॥गालव उवाच
पुरा दैवासुरे युद्धे दानवा बलदर्पिताः ॥
देवान्निजघ्नुः संग्रामे घोररूपाः सुदारुणाः
॥२॥देवाश्च भय संविग्ना ब्रह्माणं शरणं ययुः ॥
ते स्तुत्वा पितरं नत्वा वृहस्पतिपुरःसराः
॥३॥तस्थुः प्रांजलयः सर्वे तानुवाच पितामहः ॥
किमर्थं म्लानवदना अस्मद्गेहमुपागताः
॥४॥कारणं कथ्यतामाशु वह्नीन्द्रवसुभिर्युताः ॥
देवा ऊचुः ॥
दैत्यैः पराजितास्तात संगरेऽद्भुतकारिभिः
॥९॥वयं सर्वे पराक्रांता अतस्त्वां शरणं गताः ॥
त्राह्यस्मान्देवदेवेश शरणं समुपागतान्
॥६॥तच्छ्रुत्वा भगवान्प्राह ब्रह्मा लोकपितामहः ॥
मया न शक्यते कर्त्तुं पक्षः कस्य जनस्य च
॥७॥वक्ष्याम्युपायं सद्धर्माश्रितानां भवतां पुरः ॥
एकदा शिवभक्तानां विवादः सुमहानभूत् ॥
समं केशवभक्तैश्च परस्परजिगीषया ॥
ततस्तु भगवान्रुद्रः स्वभक्तानां च पश्यताम्
॥९॥ऐक्यं विष्णुगणैः कुर्वन्दध्रे रूपं महाद्भुतम् ॥
तदा हरिहराख्यं च देहार्द्धाभ्यां दधार सः
॥१०॥हरश्चैवार्द्धदेहेन विष्णुरर्द्धेन चाभवत् ॥
एकतो विष्णुचिह्नानि हरचिह्नानि चैकतः
॥११॥एकतो वैनतेयश्च वृषभश्चान्यतोऽभवत् ॥
वामतो मेघवर्णाभो देहोऽश्मनिचयोपमः
॥१२॥कर्पूरगौरः सव्ये तु समजायत वै तदा ॥
द्वयोरैक्यसमं विश्वं विश्वमैक्यमवर्त्तत १३ ॥
विभेदमतयो नष्टाः श्रुतिस्मृत्यर्थबाधकाः ॥
पाखंडिनो हैतुकाश्च सर्वे विस्मयमागमन्
॥१४॥स्वंस्वं मार्गं परित्यज्य ययुर्निर्वाणपद्धतिम् ॥
मंदरे पवतश्रेष्ठे सा मूर्तिर्नित्यसंस्तुता
॥१५॥प्रमथाद्यैर्गणैश्चैव वर्त्ततेऽद्यापि निश्चला ॥
सृष्टिस्थित्यंतकर्त्री सा विश्वबीजमनंतका
॥१६॥महेशविष्णसंयुक्ता सा स्मृता पापनाशिनी ॥
योगिध्येया सदापूज्य सत्त्वाधारगुणातिगा
॥१७॥मुमुक्षवोऽपि तां ध्यात्वा प्रयांति परमं पदम् ॥
चातुर्मास्ये विशेषेण ध्यात्वा मर्त्यो ह्यमानुषः
॥१८॥तत्र गच्छंति ये तेषां स देवः संविधास्यति ॥
इत्युक्त्वा भगवांस्तेषां तत्रैवांतरधीयत
॥१९॥तेऽपि वह्निमुखा देवाः प्रजग्मुर्मंदराचलम् ॥
बभ्रमुस्तत्र तत्रैव विचिन्वाना महेश्वरम्
॥२०॥पार्वतीं बिल्ववृक्षस्थां लक्ष्मीं च तुलसीगताम् ॥
आदौ सर्वं वृक्षमयं पूर्वं विश्वमजायत
॥२१॥एते वृक्षा महाश्रेष्ठाः सर्वे देवांशसंभवाः ॥
एतेषां स्पर्शनादेव सर्वपापैः प्रमुच्यते [
॥२२॥चातुर्मास्ये विशेषेण महापापौघहारिणः ॥
यदा तेनैव ददृशुर्देवास्त्रिभुवनेश्वरम्
॥२३॥तदाकाशभवा वाणीं प्राह देवान्यथार्थतः ॥
ईश्वरः सर्वभूतानां कृपया वृक्षमाश्रितः
॥२४॥चातुर्मास्येऽथ संप्राप्ते सर्वभूतदयाकरः ॥
अश्वत्थोऽतः सदा सेव्यो मंदवारे विशेषतः ॥
नित्यमश्वत्थसंस्पर्शात्पापं याति सहस्रधा ॥
दुग्धेन तर्पणं ये वै तिलमिश्रेण भक्तितः
॥२६॥सेचनं वा करिष्यंति तृप्तिस्तत्पूर्वजेषु च ॥
दर्शनादेव वृक्षस्य पातकं तु विनश्यति
॥२७॥पिप्पलः पूजितो ध्यातो दृष्टः सेवित एव वा ॥
पापरोगविनाशाय चातुर्मास्ये विशेषतः ॥
अश्वत्थं पूजितं सिक्तं सर्वभूतसुखावहम्
॥२८॥सर्वामयहरं चैव सर्वपापौघहारिणम् ॥
ये नराः कीर्तयिष्यंति नामाप्यश्वत्थवृक्षजम्
॥२९॥न तेषां यमलोकस्य भयं मार्गे प्रजायते ॥
कुंकुमैश्चंदनैश्चैव सुलिप्तं यश्च कारयेत
॥३०॥तस्य तापत्रयाभावो वैकुंठे गणता भवेत् ॥
दुःस्वप्नं दुष्टचिंताञ्च दुष्टज्वरपराभवान्
॥३१॥विलयं नय पापानि पिप्पल त्वं हरिप्रिय ॥
मंत्रेणानेन ये देवाः पूजयिष्यंति पिप्पलम्
॥३२॥ततस्तेषां धर्मराजो जायते वाक्यकारकः ॥
अश्वत्थो वचनेनापि प्रोक्तो ज्ञानप्रदो नृणाम् ।
श्रुतो हरति पापं च जन्मादि मरणावधि ॥
अश्वत्थसेवनं पुण्यं चातुर्मास्ये विशेषतः
॥३४॥सुप्ते देवे वृक्षमध्यमास्थाय भगवान्प्रभुः ॥
जलं पृथ्वीगतं सर्वं प्रपिबन्निव सेवते
॥३५॥जलं विष्णुर्जलत्वेन विष्णुरेव रसो महान् ॥
तस्माद्वृक्षगतो विष्णुश्चातुर्मास्येऽघनाशनः
॥३६॥सर्वभूतगतो विष्णुराप्याययति वै जगत् ॥
तथाश्वत्थगतं विष्णुं यो नमस्येन्न नारकी
॥३७॥अश्वत्थं रोपयेद्यस्तु पृथिव्यां प्रयतो नरः ॥
तस्य पापसहस्राणि विलयं यांति तत्क्षणात्
॥३८॥अश्वत्थः सर्ववृक्षाणां पवित्रो मंगलान्वितः ॥
मुक्तिदो रोपितो ध्यातश्चातुर्मास्येऽघनाशनः
॥३९॥अश्वत्थे चरणं दत्त्वा ब्रह्महत्या प्रजायते ॥
निष्कारणं संकुथित्वा नरके पच्यते ध्रुवम्
॥४०॥मूले विष्णुः स्थितो नित्यं स्कंधे केशव एव च ॥
नारायणस्तु शाखासु पत्रेषु भगवान्हरिः
॥४१॥फलेऽच्युतो न संदेहः सर्वदेवैः समन्वितः ॥
चातुर्मास्ये विशेषेण द्रुमपूजी स मुक्तिभाक्
॥४२॥तस्मात्सर्वप्रयत्नेन सदैवाश्वत्थसेवनम् ॥
यः करोति नरो भक्त्या पापं याति दिनोद्भवम्
॥४३॥स एव विष्णुर्द्रुम एव मूर्तो महात्मभिः सेवितपुण्यमूलः ॥
यस्याश्रयः पापसहस्रहंता भवेन्नृणां कामदुघो गुणाढ्यः
॥४४॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये शेषशाय्युपाख्याने ब्रह्मनारदसंवादे चातुर्मास्यमाहात्म्ये पैजवनोपाख्यान अश्वत्थमहिमवर्णनंनाम सप्तचत्वारिंशदुत्तरद्विशततमोऽध्यायः ॥ २४७ ॥