केलीश्वरी च या देवी श्रूयते सूतनंदन
ऋषय ऊचुः
केलीश्वरी च या देवी श्रूयते सूतनंदन ॥
माहात्म्यं वद नस्तस्या उत्पत्तिं च सुविस्तरात्
॥१॥कस्मिन्काले समुत्पन्ना किमर्थं च सुरेश्वरी ॥
किं तस्या जायते श्रेयः पूजया नमनेन च
॥२॥त्वया कात्यायनी प्रोक्ता चामुण्डा च सुरेश्वरी ॥
श्रीमाता च समुत्पन्ना किमर्थं च सुरेश्वरी
॥३॥श्रीमाता च तथा तारा देवी शत्रुविनाशिनी ॥
केलीश्वरी न संप्रोक्ता तस्मात्तां वद सांप्रतम्
॥४॥कौतुकं नः समुत्पन्नमत्रार्थे सूतनंदन
॥५॥सूत उवाच
आद्यैका देवता लोके बहुरूपा व्यवस्थिता ॥
देवतानां हितार्थाय दैत्यपक्षक्षयाय च
॥६॥यदायदात्र देवानां व्यसनं जायते क्वचित् ॥
तदातदा परा शक्तिर्या सा व्याप्य व्यवस्थिता
॥७॥सर्वमेतज्जगद्धात्री जन्म चक्रे धरातले ॥
महिषासुरनाशाय सा च कात्यायनी भुवि
॥८॥अवतीर्णा परा मूर्तिर्गतास्मिन्भुवनत्रये ॥
यदा शुंभनिक्षंभौ च दानवौ बलदर्पितौ
॥९॥अवतीर्णा तदा सैव चामुंडा रूपमाश्रिता ॥
प्रोद्गते कालयवने सर्वदेवभयावहे
॥१०॥श्रीमातारूपिणी देवी सैव जाता महीतले ॥
अंधासुरवधार्थाय शंभुनाऽऽक्रांतचेतसा ॥
सृष्टा केलीवरी देवी यया व्याप्तमिदं जगत्
॥११॥ततस्तस्याः प्रभावेन हत्वा दैत्यानशेषतः ॥
अन्धको निहतः पश्चात्त्रैलोक्यव्यसनप्रदः
॥१२॥ऋषय ऊचुः
अन्धकः कस्य पुत्रोऽयं किंप्रभावः कथं हतः ॥
कस्माद्धतस्तु संग्रामे सर्वं विस्तरतो वद
॥१३॥सूत उवाच
दक्षस्य दुहिता नाम्ना दितिः सर्वगुणालया ॥
हिरण्यकशिपुर्नाम तस्याः पुत्रो बभूव ह
॥१४॥येन शक्रादयो देवा जिताः सर्वे रणाजिरे ॥
स्वर्गे राज्यं कृतं भूरि स्वयमेव महात्मना
॥१५॥यद्भयात्सकलैर्देवैर्नानाशस्त्राण्यनेकशः ॥
निर्मितान्यतिमुख्यानि वर्मचर्मयुतानि च
॥१६॥स्वयं विदारितो यश्च विष्णुना प्रभविष्णुना ॥
करजैर्जानुनि पृष्ठे विनिधाय प्रकोपतः
॥१०७॥तस्य पुत्रद्वयं जज्ञ वीर्यौदार्यगुणान्वितम् ॥
ज्येष्ठः प्रह्लाद इत्युक्तो द्वितीयश्चांधकस्तथा
॥१८॥हिरण्यकशिपौ प्राप्ते मृत्युलोकं सुहृद्गणैः ॥
अमात्यैश्च ततः प्रोक्तः प्रह्लादो विनयान्वितैः
॥१९॥पितृपैतामहं राज्यमेतदाचर सांप्रतम् ॥
धुरं वहस्व राज्योत्थां देवान्युद्धे निपातय
॥२॥प्रह्राद उवाच
नाहं राज्यं करिष्यामि कथंचिदपि भूतले ॥
यतस्ततो निबोधध्वं वचनं मम सांप्रतम्
॥२१॥दैत्यराज्यं न वांछंति देवाः शक्रपुरोगमाः ॥
तेषां रक्षाकरो नित्यं विष्णुः स भगवान्स्वयम्
॥२२॥अप्यहं सन्त्यजे प्राणान्सर्वस्वं वा न संशयः ॥
हरिणा सह संग्रामं नाहं कर्तुमहो क्षमः
॥२३॥यो मयाऽभ्यर्चितो नित्यं प्रणतश्च सुरेश्वरः ॥
न तेन सहितो युद्धं करिष्यामि कथञ्चन
॥२४॥सूत उवाच
प्रह्लादेन च संत्यक्ते राज्ये पितृसमुद्भवे ॥
अन्धकः स्थापितस्तत्र संमंत्र्य सचिवैर्मिथः
॥२५॥हिरण्यकशिपोः पुत्रो देवदानवदर्पहा ॥
सोऽपि राज्यममात्येभ्यो निधाय तदनन्तरम्
॥२६॥तपश्चक्रे चिरं कालं ध्यायमानः पितामहम् ॥
त्यक्त्वा कामं तथा क्रोधं दंभं मत्सरमेव च
॥२७॥जितेंद्रियः सुशांतात्मा समः सर्वेषु जन्तुषु ॥
वृक्षमूलाश्रयः शांतः संतुष्टेनांतरात्मना
॥२८॥यावद्वर्षसहस्रांतं फलाहारो बभूव ह ॥
शीर्णपर्णाशनाहारो यावद्वर्षसहस्रकम्
॥२९॥ध्यायमानो दिवानक्तं देवदेवं पितामहम् ॥
वायुभक्षस्ततो जज्ञे तावत्कालं द्विजोत्तमाः
॥३०॥ततो वर्षसहस्रांते चतुर्थे समुपस्थिते ॥
तमुवाच स्वयं ब्रह्मा स्वयमभ्येत्य हर्षितः
॥३१॥ब्रह्मोवाच
परितुष्टोऽस्मि ते वत्स वरं वरय सुव्रत ॥
तुष्टोऽहं ते प्रदास्यामि यद्यपि स्यात्सुदुर्लभम् ॥
अन्धक उवाच ॥
यदि यच्छसि मे ब्रह्मन्वरं मनसि वांछितम् ॥
जरामरणनाशाय दीयतां सुरसत्तम
॥३३॥श्रीब्रह्मोवाच
न कश्चिच्च जराहीनो विद्यतेऽत्र धरातले ॥
मरणेन विना नैव यस्य जन्म भवेत्क्षितौ
॥३४॥तथापि तव दास्यामि बहुधर्मरतस्य च ॥
तस्मात्कुरु महाभाग राज्यं गत्वा निजं गृहम्
॥३५॥भवेद्बहुफलं राज्यं श्मशानं भवनं यथा ॥
बहुकण्टकसंकीर्णं क्रूरकर्मभिरावृतम्
॥३६॥सूत उवाच
एवमुक्त्वा चतुर्वक्त्रस्ततश्चादर्शनं गतः ॥
कस्यचित्त्वथ कालस्य प्रेरितः कालधर्मणा ॥
प्रोवाच सचिवान्सोऽथ पितुर्वैरमनुस्मरन्
॥३७॥अन्धक उवाच
पितास्माकं हतो देवैः पितृव्यश्च महाबलः ॥
कपटेन न शौर्येण तस्मात्तान्सूदयाम्यहम्
॥३८॥कोऽर्थः पुत्रेण जातेन यो न कृत्यैः सुशंसितैः ॥
प्राकट्यं याति सर्वत्र वंशस्याग्रे ध्वजो यथा
॥३९॥मंत्रिण ऊचुः
युक्तमेतन्महाभाग यत्त्वया व्याहृतं वचः ॥
वध्याःस्युर्विबुधाः सर्वे येऽस्माकं परिपंथिनः
॥४॥अस्माकं खल्विमे लोकाः के देवाः के द्विजातयः ॥
यज्ञभागान्हरिष्यामो हत्वा शक्रमुखान्सुरान्
॥४१॥एवं ते समयं कृत्वा सैन्येन महतान्विताः ॥
प्रजग्मुस्त्वरितास्तत्र यत्र शक्रो व्यवस्थितः
॥४२॥शक्रोऽपि दानवानीकं दृष्ट्वा तान्सहसागतान् ॥
आरुह्यैरावणं नागं युद्धार्थं निर्ययौ तदा
॥४३॥सह देवगणैः सर्वैर्वसुरुद्रार्कपूर्वकैः ॥
एतस्मिन्नंतरे शक्रो वज्रं रौद्रतमं च यत्
॥४४॥समुद्दिश्यांधकं तस्मै मुमोच परवीरहा ॥
स हतस्तेन वज्रेण विहस्य दनुजोत्तमः
॥४५॥शक्रं प्रोवाच संहृष्टस्तारनादेन संयुगे ॥
दृष्टं बाहुबलं शक्र तवाद्य सुचिरान्मया
॥४६॥अधुना पश्य चास्माकं त्वमेव बलसूदन
॥४७॥सूत उवाच
एवमुक्त्वाथ चाविध्य गदां गुर्वीं मुमोच ह ॥
शतघंटामहारावां निर्मितां विश्वकर्मणा
॥४८॥सर्वायसमयीं गुर्वीं यमजिह्वाभिवापराम् ॥
शतहस्तां प्रमाणेन प्राणिनां भयवर्द्धिनीम्
॥४९॥तया विनिहतः शक्रो मूर्छाव्याकुलितेंद्रियः ॥
ध्वजयष्टिं समाश्रित्य निविष्टो गजमूर्द्धनि
॥५०॥अथ संमूर्छितं दृष्ट्वा शक्रं स्कन्दः प्रकोपितः ॥
मुमोचाथ निजां शक्तिममोघां वज्रसंनिभाम्
॥५१॥तामायांतीं समालोक्य दानवो निशितैः शरैः ॥
प्रतिलोमां ततश्चक्रे लीलयैव महाबलः
॥५२॥ततः स्कन्दोऽपि संगृह्य चापं तं प्रति सायकान् ॥
मुमोचाशीविषाकाराल्लँघ्वस्त्रं तस्य दर्शयन्
॥५३॥एतस्मिन्नन्तरे देवाः सर्वे शस्त्रप्रवृष्टिभिः ॥
समंताच्छादयामासुर्दानवानामनीकिनीम्
॥५४॥ततस्तु दानवाः सर्वे देवतानामनीकिनीम् ॥
प्रहारैः पीडयामासुर्दुद्रुवुस्ते दिवौकसः
॥५५॥ततो भग्नान्सुरान्दृष्ट्वा सगणो वृषवाहनः ॥
दर्शयामास चात्मानं देवानाश्वासयन्निव
॥५९॥मा भैष्ट देवताः सर्वाः पश्यध्वं मद्विचेष्टितम् ॥
इत्युक्त्वा भगवाञ्छम्भुर्मंत्रैराथर्वणैस्तदा
॥५७॥आह्वयामास विश्वेशां परां शक्तिमनुत्तमाम् ॥
आहूता परमा शक्तिर्जगाम हरसंनिधिम्
॥५८॥दृष्ट्वा तामग्रतः प्राप्तां सर्वैदेवैः समन्वितः ॥
अस्तावीत्प्रणतो भूत्वा स्तोत्रेणानेन भक्तितः
॥५९॥श्रीभगवानुवाच
नमस्ते देवदेवेशि नमस्ते भक्तिवल्लभे ॥
सर्वगे सर्वदे देवि नमस्ते विश्वधारिणि
॥६०॥नमस्ते शक्तिरूपेण सृष्टिप्रलयकारिणि ॥
नमस्ते प्रभया युक्ते विद्युज्ज्वलितकुण्डले
॥६१॥त्वं स्वाहा त्वं स्वधा देवि त्वं सृष्टिस्त्वं शुचिर्धृतिः ॥
अरुंधती तथेंद्राणी त्वं लक्ष्मीस्त्वं च पार्वती
॥६२॥यत्किंचित्स्त्रीस्वरूपं च समस्तं भुवनत्रये ॥
तत्सर्वं त्वत्स्वरूपं स्यादिति शास्त्रेषु निश्चयः
॥६३॥श्रीदेव्युवाच
किमर्थं च समाहूता त्वयाहं वृषवाहन ॥
मंत्रैराथर्वणै रौद्रैस्तत्सर्वं मे प्रकीर्तय
॥६४॥येन ते कृत्स्नशः कृत्यं प्रकरोमि यथोदितम्
॥६५॥श्रीभगवानुवाच
एते शक्रादयो देवाः सर्वे स्वर्गाद्विवासिताः ॥
अंधकेन महाभागे दैत्यानामधिपेन च
॥६६॥तस्मात्तस्य वधार्थाय गच्छमानस्य मे शृणु ॥
साहाय्यं कुरु मे चाशु सूदयामि रणाजिरे
॥६७॥एते मातृगणाः सर्वे मया दत्तास्तवाधुना ॥
क्षुत्क्षामाः सूदयिष्यंति दानवान्ये पुरः स्थिताः
॥६८॥यस्मात्केलीमयं रूपं विधाय त्वं सहस्रधा ॥
अनेकैर्विकृतै रूपैः समाहूताग्निमध्यतः
॥६९॥तस्मात्केलीश्वरीनाम त्रैलोक्ये त्वं भविष्यसि ॥
अनेनैव तु रूपेण यस्त्वां भक्त्याऽर्चयिष्यति
॥७०॥अष्टम्यां च चतुर्दश्यां तस्याभीष्टं भविष्यति ॥
युद्धकालेऽथ संप्राप्ते स्तोत्रेणानेन ते स्तुतिम्
॥७१॥यः करिष्यति भूपालो जयस्तस्य भविष्यति ॥
अपि स्वल्पस्वसैन्यस्य स्वल्पाश्वस्य च संगरे
॥७२॥भविष्यति जयो नूनं त्वत्प्रसादादसंशयम् ॥
एवं सा देवदेवेन प्रोक्ता केलीश्वरी तदा
॥७३॥प्रस्थिता पुरतस्तस्य भवसैन्यस्य हर्षिता ॥
सर्वैर्मातृगणैः सार्धं रौद्रारावैःसुभीषणैः
॥७४॥युद्धोत्साहपरै रौद्रैर्नानाशस्त्रप्रहारिभिः ॥
अथ ते दानवा दृष्ट्वा स्त्रीसैन्यं तत्समागतम्
॥७५॥विकृतं विकृताकारं विकृताकाररावणम् ॥
शस्त्रोद्यतकरं सर्वयुद्धवांछापरायणम्
॥७६॥जहसुः सुस्वरं केचित्केचिन्निर्भर्त्सयंति च ॥
अन्ये स्त्रीति परिज्ञाय प्रहरंति न दानवाः
॥७७॥वध्यमानापि लज्जंतः पौरुषे स्वे व्यवस्थिताः ॥
एतस्मिन्नंतरे प्राप्तो नारदो मुनिसत्तमः
॥७८॥अन्धकाय स वृत्तांतं कथयामास कृत्स्नशः ॥
नैताः स्त्रियो दनुश्रेष्ठ युद्धार्थं समुपस्थिताः
॥७९॥एषा कृत्या वधार्थाय तव रुद्रेण निर्मिता ॥
यैषा सिंहसमारूढा चक्रांकितकरा स्थिता
॥८०॥एषा केलीश्वरीनाम वह्निकुण्डाद्विनिर्गता ॥
एताभिः सह रौद्राभिः स्त्रीभिर्मंत्रबलाश्रयात्
॥८१॥स्वरक्तेन कृते होमे देवदेवेन शम्भुना ॥
स एष भगवान्क्रुद्धः स्वयमभ्येति तेंऽतिकम्
॥८२॥युद्धाय निजहर्म्ये तान्स्थापयित्वा सुरोत्तमान् ॥
प्रतिज्ञाय वधं तुभ्यं पुरतः परमेष्ठिनः
॥८३॥एतज्ज्ञात्वा महाभाग यद्युक्तं तत्समाचर
॥८४॥अन्धक उवाच
नाहं बिभेमि रुद्रस्य तथान्यस्यापि कस्यचित् ॥
न स्त्रीणां प्रहरिष्यामि पालयन्पुरुषव्रतम्
॥८५॥सूत उवाच
एवं प्रवदतस्तस्य दानवस्य महात्मनः ॥
आक्रंदः सुमहाञ्जज्ञे तस्मिन्देशे समंततः
॥८६॥भक्ष्यन्ते दानवाः केचिद्वध्यन्ते त्वथ चापरे ॥
अर्धभक्षित गात्राश्च प्रणश्यंति तथा परे
॥८७॥युध्यमानास्तथैवान्ये शक्तिमंतोऽपि दानवाः ॥
भक्ष्यंते मातृभिस्तत्र सायुधाश्च सवाहनाः
॥८८॥तच्छ्रुत्वा स महाक्रंदमंधकः क्रोधमूर्छितः ॥
आदाय खड्गमुत्तस्थौ किमिदं किमिदं ब्रुवन्
॥८९॥अथ पश्यति विध्वस्तान्दानवान्बलदर्पितान् ॥
भक्ष्यमाणास्तथैवान्यान्पलायनपरायणान्
॥९०॥अन्येषां निहतानां च रुदंत्यो निकटस्थिताः ॥
स पश्यति प्रिया भार्याः प्रलपंत्योऽतिदुःखिताः
॥९१॥अथ तत्कदनं दृष्ट्वा अंधकः क्रोधमूर्छितः ॥
भर्त्सयामास ताः सर्वा योगिनीः समरोद्यताः
॥९२॥न च तास्तस्य दैत्यस्य भयं चक्रुः कथंचन ॥
केवलं सूदयंति स्म भक्षयंति च दानवान्
॥९३॥ततः स दानवस्तासां दृष्ट्वा तच्चेष्टितं रुषा ॥
स्वस्य गात्रस्य रक्षां स चकार भयसंकुलः
॥९४॥तमोऽस्त्रं मुमुचे रौद्रं कृत्वा रावं स तत्क्षणात् ॥
एतस्मिन्नंतरे कृत्स्नं त्रैलोक्यं तमसा वृतम्
॥९५॥न किंचिज्ज्ञायते तत्र समं विषममेव च ॥
केवलं दानवेन्द्रश्च सर्वं पश्यति नेतरः
॥९६॥ततः स सूदयामास योगिनीस्ताः शितैः शरैः ॥
यथायथा परा नार्यस्तादृग्रूपा भवन्ति च
॥९७॥अथ दृष्ट्वा परां वृद्धिं योगिनीनां स दानवः ॥
संहारं तस्य चास्त्रस्य चकार भयसंकुलः
॥९८॥ततः शुक्रं समासाद्य दीनः प्राह कृतांजलिः ॥
पश्य मे भार्गवश्रेष्ठ स्त्रीभिर्यत्कदनं कृतम्
॥९९॥अवध्याभिर्ममास्त्राणां मंत्रशक्त्या सुरद्विषः ॥
उत्पन्नाभिः प्रभूताभिर्हतं मे सर्वतो बलम्
॥१॥तस्मात्त्वमपि तां विद्यां प्रसाधय महामते ॥
यदि मे वांछसि श्रेयो नान्यथास्ति जयो रणे
॥१०१॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्येऽन्धकासुरवधवृत्तान्ते शंकरकृतकेलीश्वरीप्रादुर्भाववर्णनंनामैकोनपंचाशदुत्तरशततमोऽध्यायः ॥ १४९ ॥