अत्यद्भुतमिदं सूत यत्त्वया समुदाहृतम्
ऋषय ऊचुः
अत्यद्भुतमिदं सूत यत्त्वया समुदाहृतम् ॥
ब्रह्मणा यत्कृतो यज्ञस्तत्र क्षेत्रे महात्मना
॥१॥अग्निष्टोमादयो यज्ञा ये वर्तन्ते धरातले ॥
यष्टव्यस्तेषु यज्ञेषु स एव हि सुरेश्वरः
॥२॥तेनैव यजता तत्र को हीष्टः प्रब्रवीहि नः ॥
ऋत्विजः के स्थितास्तत्र यैस्तत्कर्म मखोद्भवम् ॥
तत्प्रत्यक्षे कृतं सर्वमेतन्नः कौतुकं परम्
॥३॥का चैव दक्षिणा दत्ता तेन तेषां द्विजन्मनाम् ॥
कोऽध्वर्युर्विहितस्तत्र येन तद्यजनं कृतम्
॥४॥को होता कश्च वाऽग्नीध्रः को ब्रह्मा तत्र संस्थितः ॥
उद्गाता कः स्थितस्तत्र ह्याचार्यो यज्ञकर्मणि
॥५॥सूत उवाच
अहं वः कीर्तयिष्यामि सर्वं यज्ञस्य संभवम् ॥
वृत्तांतं यच्च तत्रस्थ माश्चर्यं द्विजपुंगवाः
॥६॥ये सदस्याः स्थितास्तत्र ऋत्विजश्च द्विजोत्तमाः ॥
दक्षिणा याः प्रदत्ताश्च तेभ्यस्तेन महात्मना
॥७॥यजता देवदेवेन ब्रह्मणाऽमिततेजसा ॥
यज्ञकामं चतुर्वक्त्रं ज्ञात्वा देवः शतक्रतुः
॥८॥सर्वैः सुरगणैः सार्धं साहाय्यार्थमुपागतः ॥
तथा च भगवाञ्छंभुः सर्वदेवगणैः सह
॥९॥तान्दृष्ट्वाऽभ्यागतान्ब्रह्मा मर्त्यधर्मसमाश्रितान् ॥
प्रोवाच विनयोपेतः कृतांजलिपुटः स्थितः
॥१०॥स्वागतं वः सुरश्रेष्ठाः प्रसादः क्रियतां मम ॥
निविश्यतां यथान्यायं स्थानेषु रुचिरेषु च
॥११॥धन्योऽस्म्यनुगृहीतोऽस्मि यद्यूयं स्वयमागताः ॥
मंत्राहूता यथा कृच्छ्रात्सर्वसत्रेषु गच्छथ
॥१२॥देवा ऊचुः
येन यच्चात्र कर्तव्यं तच्छीघ्रं वद पद्मज ॥
यज्ञे तव महाभाग तस्य तत्त्वं समादिश
॥१३॥ब्रह्मोवाच
विश्वकर्मन्द्रुतं गच्छ यज्ञमण्डपसिद्धये ॥
पत्नीशालां ततश्चैव यज्ञवेदीस्तथैव च
॥१४॥कुण्डानि चैव सर्वाणि यथास्थानेषु कारय ॥
यज्ञपात्राणि सर्वाणि ग्रहाश्च चमसास्तथा
॥१५॥यूपाश्च यत्प्रमाणेन कर्तव्याः सचषालकाः ॥
पचनार्थं तथा गर्ताः कर्तव्या यत्प्रमाणतः
॥१६॥इष्टिकानां सहस्राणि दश चाष्टशतानि च ॥
कर्तव्यानि त्वया शीघ्रं चयनानीति सत्वरम्
॥१७॥तथा हिरण्मयश्चापि पुरुषः कार्य एव हि ॥
तथेत्युक्ता ततस्त्वष्टा शीघ्राच्छीघ्रतरं ययौ
॥१८॥ततस्तु पद्मजः प्राह देवाचार्यं बृह स्पतिम् ॥
बृहस्पते त्वमानीहि यज्ञार्हानृत्विजोऽखिलान्
॥१९॥यावत्षोडशसंख्याश्च नान्यस्यैतद्धि युज्यते ॥
त्वया शक्र सदा कार्या शुश्रूषा च द्विजन्मनाम्
॥२०॥हस्तपादावमर्द्दश्च श्रांतानां पृष्ठमर्द्दनम् ॥
धनाध्यक्ष त्वया देया दक्षिणा कालसंभवा
॥२१॥सुवस्त्राणि हिरण्यं च तथान्यद्वापि वांछितम् ॥
त्वया विष्णो सदा कार्यं कृत्याकृत्यपरीक्षणम्
॥२२॥युक्तं कृतमथो नैव सावधानेन सर्वदा ॥
लोकपालाश्च ये सर्वे रक्षंतु सकला दिशः ॥
भूतप्रेतपिशाचानां प्रवेशं राक्षसोद्भवम्
॥२३॥यो यं कामयते कामं किंचिद्वस्त्रं धनं च वा ॥
विचार्य तस्य तद्देयं सर्वयज्ञाधिपेन तु
॥२४॥आदित्या वसवो रुद्रा विश्वेदेवा मरुद्गणाः ॥
भवंतु परिवेष्टारो भोक्तुकामजनस्य च
॥२५॥एतस्मिन्नंतरे प्राप्तो विश्वकर्मा त्वरान्वितः ॥
अब्रवीत्पंकजभवं संसिद्धो यज्ञमण्डपः
॥२६॥सर्वमन्यत्समादिष्टं यत्त्वयोक्तं चतुर्मुख
॥२७॥ततो बृहस्पतिः प्राह समभ्येत्य पितामहम् ॥
समानीता मया देव ब्राह्मणा यज्ञकर्मणि
॥२८॥विप्राः षोडशसंख्याश्च ऋत्विक्कर्मणि योजय ॥
स्वयं परीक्ष्य देवेश यज्ञकर्मप्रसिद्धये
॥२९॥ततो ब्रह्मा स्वयं दृष्ट्वा तान्परीक्ष्य प्रयत्नतः ॥
ऋत्विक्त्वे च नियोज्याथ ततश्चक्रे तदर्हणम्
॥३०॥ऋषय ऊचुः
ऋत्विजां चैव सर्वेषां सूत नामानि कीर्तय ॥
येन यो विहितस्तत्र पदार्थः सूत तं वद
॥३१॥सूत उवाच
भृगुर्हौत्रे ततस्तेन वृतो ब्राह्मणसत्तमाः ॥
मैत्रावरुणसंज्ञस्तु तथैव च्यवनो मुनिः
॥३२॥अच्छावाको मरीचिश्च ग्रावस्तुद्गालवो मुनिः ॥
पुलस्त्यश्च तथा ऽध्वर्युः प्रस्थातात्रिश्च संस्थितः
॥३३॥तत्र रैभ्यो मुनिर्नेष्टा तत्रोन्नेता सनातनः ॥
ब्रह्मा च नारदो गर्गो ब्राह्मणाच्छंसिरेव च
॥३४॥आग्नीध्रश्च भरद्वाजो होता पाराशरस्तथा ॥
तथैव तत्र क्षेत्रे च उद्गाता गोभिलो मुनिः
॥३५॥तथैव कौथुमो जज्ञे प्रस्तौता यज्ञकर्मणि ॥
शांडिल्यः प्रतिहर्त्ता च सुब्रह्मण्यस्तथांगिराः
॥३६॥तस्य यज्ञस्य सिद्ध्यर्थमित्येते षोडशर्त्विजः ॥
वस्त्राभरणशोभाढ्या विनयेन कृताश्च ते
॥३७॥ततः कृत्वा स्वयं ब्रह्मा सर्वेषामर्हणक्रियाम् ॥
गृह्योक्तेन विधानेन ततः प्रोवाच सादरम्
॥३८॥एषोऽह शरणं प्राप्तो युष्माकं द्विजसत्तमाः ॥
अनुगृह्णीत मां सर्वे दीक्षायै यज्ञकर्मणः
॥३९॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे ब्रह्मयज्ञोपाख्याने यज्ञमण्ड पप्राप्तब्राह्मणसत्कारपूर्वकर्त्विगादिस्थानयोजनापूर्वकाध्वरकर्मारंभोनामाशीत्युत्तरशततमोऽध्यायः ॥ १८० ॥