मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — नागरखण्डः, अध्याय १३४

3
नागरखण्डः · 134

यदा दक्षेण क्रुद्धेन पुरा शप्तो हिमद्युतिः

ऋषय ऊचुः

यदा दक्षेण क्रुद्धेन पुरा शप्तो हिमद्युतिः ॥

तत्सर्वं भवता प्रोक्तं सोमनाथकथानकम्

॥१॥

सांप्रतं वद कामस्य यथा कुष्ठोऽभवत्पुरा ॥

येन दोषेण शापश्च केन तस्य नियोजितः ॥

शिलाखंडा च या देवी तथा सौभाग्यकूपिका ॥

यथा तत्र समुत्पन्ना तथाऽस्माकं प्रकीर्तय

॥३॥

सूत उवाच

पुरासीद्ब्राह्मणो नाम हारीत इति विश्रुतः ॥

स तपस्तत्र संतेपे वानप्रस्थाश्रमे वसन्

॥४॥

तस्य भार्याऽभवत्साध्वी रूपौदार्यसमन्विता ॥

त्रैलोक्यसुन्दरी साक्षाल्लक्ष्मीरिव मधुद्विषः

॥५॥

ख्याता पूणकलानाम सर्वैः समुदितागुणैः ॥

तां दृष्ट्वा पद्मजोऽप्याशु कामस्य वशगोऽभवत्

॥६॥

कदाचिदपि स प्राप्तस्तस्मिन्क्षेत्रे मनोभवः ॥

सह रत्या तथा प्रीत्या कामेश्वरदिदृक्षया

॥७॥

एतस्मिन्नंतरे सापि स्नानार्थं तत्र चागता ॥

कृत्वा वस्त्रपरित्यागं विवेश जलाशयम्

॥८॥

अथ तां कामदेवोपि समालोक्य शुभाननाम् ॥

आत्मीयैरपि निर्विद्धो हृदये पुष्पसायकैः

॥९॥

ततो रतिं परित्यक्त्वा प्रीतिं च शरपीडितः ॥

विजनं कंचिदासाद्य प्रसुप्तः स तरोरधः

॥१०॥

गात्रैः पुलकितैः सर्वैर्निःश्वासान्निःश्वसन्मुहुः ॥

अग्निवर्णान्सुदीर्घांश्च बाष्प पूर्णविलोचनः

॥११॥

तिष्ठन्स दर्शने तस्या एकदृष्ट्या व्यलोकयत् ॥

योगीव सुसमाधिस्थो ध्यायंस्तद्ब्रह्म संस्थितम्

॥१२॥

सापि कामं समालोक्य सानुरागं पुरः स्थितम् ॥

जृंभाभंगकृतास्यं च वेपमानशरीरकम्

॥१३॥

सापि तद्बाणनिर्भिन्ना साभिलाषा बभूव ह ॥

कामं प्रति विशेषेण तस्य रूपेण मोहिता

॥१४॥

अथ तस्माज्जलात्कृच्छ्राद्विनिष्क्रम्य शुचिस्मिता ॥

तीरोपांतं समासाद्य स्थिता तद्दृष्टिगोचरे

॥१५॥

ततः कामः समुत्थाय शनैस्तदंतिकं ययौ ॥

कृतांजलिपुटो भूत्वा ततः प्रोवाच सादरम्

॥१६॥

का त्वमत्र विशालाक्षि प्राप्ता स्नातुं जलाशये ॥

मम नाशाय चार्वंगि तस्माच्छृणु वचो मम

॥१७॥

अहं पुष्पशरो लोके प्रसिद्धश्चारुहासिनि ॥

विडंबनां मया नीता देवा अपि निजैः शरैः

॥१८॥

मद्बाणेनाहतो रुद्रः स्वशरीरे नितंबिनीम् ॥

अर्द्धेन धारयामास त्यक्त्वा लज्जां सुदूरतः

॥१९॥

ब्रह्मा मच्छरनिर्भिन्नः स्वसुतां चकमे ततः ॥

जनयामास तान्विप्रान्वालखिल्यांस्तथाविधान्

॥२०॥

अहिल्यां चकमे शक्रो गौतमस्य प्रियां सतीम् ॥

मद्बाणैः पीडितोऽतीव स्वर्गादेत्य धरातलम्

॥२१॥

एवं देवा अपि क्षुण्णा मच्छरैर्ये महत्तराः ॥

किं पुनर्मानवाः सुभ्रूः कृमिप्रायाः सुचंचलाः

॥२२॥

आकीटांतं जगत्सर्वमाब्रह्मांतं तथैव च ॥

विडंबनां परां प्राप्तं मच्छरैश्चारुहासिनि

॥२३॥

अहं पुनस्त्वया भीरु नीतोऽवस्थामिमां शुभे

॥२४॥

तस्माद्देहि महाभागे ममाद्य रतदक्षिणाम् ॥

यावन्न यांति संत्यज्य मम प्राणाः कलेवरात्

॥२५॥

सूत उवाच

सापि तद्वचनं श्रुत्वा पतिव्रतपरायणा ॥

हन्यमाना विशेषेण तद्बाणैर्हृदये भृशम्

॥२६॥

अनभिज्ञा च सा साध्वी कामधर्मस्य केवलम् ॥

तापसैः सह संवृद्धा नान्यं जानाति किंचन

॥२७॥

वक्तुं तद्विषये यच्च प्रोच्यते कामपीडितैः ॥

अधोमुखाऽलिखद्भूमिमंगुष्ठेन स्थिता चिरम्

॥२८॥

एतस्मिन्नन्तरे भानुः प्राप्तश्चास्तं गिरिं प्रति ॥

विहारसमये प्राप्त आहिताग्निर्निवेशने

॥२९॥

हारीतोऽपि चिरं वीक्ष्य तन्मार्गं चाकृताशनः ॥

ततः स चिंतयामास कस्मात्सा चात्र नागता

॥३०॥

स्नात्वा तीर्थवरे तस्मिन्दृष्ट्वा तां चन्द्रकूपिकाम् ॥

कामेश्वरं च देवेशं कामदं सुखदं नृणाम्

॥३१॥

ततः शिष्यसमायुक्तो वीक्षमाण इतस्ततः ॥

तं देशं समनुप्राप्तो यत्र तौ द्वावपि स्थितौ

॥३२॥

आलपन्बहुधा कामो हन्यमानो निजैः शरैः ॥

सापि चैव विशेषेण व्रीडयाऽधोमुखी स्थिता

॥३३॥

स गुल्मांतरितः सर्वं तच्छ्रुत्वा कामजल्पितम् ॥

तस्याश्च तद्गतं भावं ततः कोपादुवाच सः

॥३४॥

यस्मात्पाप त्वया पत्नी ममैवं शरपीडिता ॥

अनभिज्ञा तथा साध्वी पतिधर्मपरायणा ॥

कुष्ठव्याधिसमायुक्तस्तस्माद्विप्रियदर्शनः

॥३५॥

त्वं भविष्यसि पापात्मन्मुक्तो दारैः स्वकैरपि ॥

साऽपि चैव विशेषेण व्रीडयाऽधोमुखी स्थिता

॥३६॥

एषापि च शिलाप्राया भविष्यति विचेतना ॥

त्वां दृष्ट्वा या सरागाऽभून्निजधर्मबहिष्कृता

॥३७॥

ततः प्रसादयामास तं कामः प्रणिपत्य च ॥

न ज्ञातेयं मया विप्र तव भार्येति सुन्दरी

॥३८॥

तेन प्रोक्ता विरुद्धानि वाक्यानि विविधानि च ॥

एतस्या नास्ति दोषोऽत्र मद्बाणैः पीडिता भृशम् ॥

३९ सानुरागा परं जाता नोक्तं किंचिद्वचो मुने ॥

तस्मान्नार्हसि शापं त्वं दातुमस्याः कथंचन

॥४०॥

ममास्त्येषो ऽपराधोऽत्र तस्मान्मे निग्रहं कुरु ॥

भूयोऽपि ब्राह्मणश्रेष्ठ अस्याः शापसमुद्भवम्

॥४१॥

अपि रुद्रादयो देवा मद्बाणेभ्यो द्विजोत्तम ॥

सोढुं शक्ता न ते यस्मात्तत्कथं स्यादियं शिला

॥४२॥

तथात्र त्रिविधं पापं प्रवदंति मनीषिणः ॥

मानसं वाचिकं चैव कर्मजं च तृतीयकम् ॥

तदस्माकं द्विधा जातमेकं चास्या मुनीश्वर

॥४३॥

भार्यायास्ते सुरूपायास्तस्मात्संपूर्णनिग्रहम् ॥

करिष्यसि न ते भीतिः काचिदस्ति परत्रजा

॥४४॥

मनस्तापाद्व्रजेत्पापं मानसं वाचिकं च यत् ॥

तस्य प्रसादनेनैव यस्योपरि विजल्पितम्

॥४५॥

प्रायश्चित्तैर्यथोक्तैश्च कर्मजं पातकं व्रजेत् ।

धर्मशास्त्रैः परिप्रोक्तं यतः सर्वैर्महामुने

॥४६॥

हारीत उवाच

अन्यत्र विषये तस्याः पातकं कामदेवते ॥

एतस्य तव धर्मस्य प्राधान्यं मनसः स्मृतम्

॥४७॥

तस्मादेवंविधा चेयं सदा स्थास्यति चाधम ॥

किं पुनः कुरु यत्कृत्यं नाहं वक्ष्यामि किंचन

॥४८॥

प्रथमं मनसा सर्वं चिंत्यते तदनंतरम् ॥

ततः प्रजल्पते वाचा क्रियते कर्मणा ततः

॥४९॥

प्रमाणं हि मनस्तस्मात्सर्वकृत्येषु सर्वदा ॥

एतस्मात्कारणात्पूर्णो मयाऽस्या निग्रहः कृतः

॥५०॥

सूत उवाच

एवमुक्त्वा मुनिश्रेष्ठो हारीतः स्वाश्रमं ययौ ॥

सापि पूर्णकला जाता शिलारूपा च तत्क्षणात्

॥५१॥

कामदेवोऽपि कुष्ठेन ग्रस्तो रौद्रेण च द्विजाः ॥

शीर्णनासांघ्रिपाणिश्च नेत्राणामप्रियोऽभवत्

॥५२॥

अथ कामे निरुत्साहे संजाते द्विजसत्तमाः ॥

व्याधिग्रस्ते जगत्यस्मिन्सृष्टिरोधो व्यजायत

॥५३॥

केवलं क्षीयते लोको नैव वृद्धिं प्रगच्छति ॥

स्वेदजा येऽपि जीवाः स्युस्तेपि याताः परिक्षयम्

॥५४॥

एतस्मिन्नंतरे देवाः सर्वे चिंतासमाकुलाः ॥

किमिदं क्षीयते लोको जलस्थैः स्थलजैः सह

॥५५॥

न दृश्यते क्वचिद्बालः कोऽपि कश्चित्कथंचन ॥

न च गर्भवती नारी कच्चित्क्षेमं स्मरस्य च

॥५६॥

ततस्तं व्याधिना ग्रस्तं ज्ञात्वात्र क्षेत्रसंश्रयम् ॥

आजग्मुस्त्वरिताः सर्वे व्याकुलेनांतरात्मना

॥५७॥

कामेश्वरपुरस्थं च तं दृष्ट्वा कुसुमायुधम् ॥

अत्यंतविकृताकारं चिंतयानं महेश्वरम्

॥५८॥

ततः प्रोचुः सुदुःखार्ताः किमिदं कुसुमायुध ॥

निरुत्साहः समुत्पन्नः कुष्ठव्याधिसमाकुलः

॥५९॥

ततश्चाधोमुखो जातो लज्जया परया वृतः ॥

प्रोवाच शापजं सर्वं हारीतस्य विचेष्टितम्

॥६०॥

ततस्ते विबुधाः प्रोचुः पातकं यद्गिरा कृतम् ॥

३ तत्तस्याराधनात्सर्वं संक्षयं यात्यसंशयम्

॥६१॥

तस्मादेतां शिलारूपां त्वमाराधय चित्तज ॥

येन कुष्ठः क्षयं याति ततस्तेजोऽभिवर्धते

॥६२॥

जगति स्यान्महासृष्टिर्देवकृत्यं कृतं भवेत् ॥

न तेऽस्ति कायजं पापं यतो मुक्त्वा प्रवाचिकम्

॥६३॥

अत्र कुण्डे त्वदीयेऽन्यो यः स्नात्वा श्रद्धयान्वितः ॥

एनां पापविनिर्मुक्तां शिलां वै मानवः स्पृशेत्

॥६४॥

कुष्ठव्याधिसमोपेतः कायोत्थेनापि कर्मणा ॥

सोऽपि व्याधिविनिर्मुक्तो भविष्यति गतज्वरः

॥६५॥

एतत्सौभाग्यकूपं च लोके ख्यातं जलाशयम् ॥

भविष्यति न संदेहः सर्वरोगक्षयावहम्

॥६६॥

दद्रूणि दुर्विभूतानि तथान्याश्च विचर्चिकाः ॥

अत्र स्नातस्य यास्यंति दृष्ट्वैतां सद्य एव हि

॥६७॥

एवमुक्त्वाथ ते देवाः प्रजग्मुस्त्रिदशालयम् ॥

कामदेवोऽपि तत्रस्थस्तस्याः पूजामथ व्यधात्

॥६८॥

ततश्च समतिक्रांते मासमात्रे द्विजोत्तमाः ॥

तादृग्रूपः स संजातो यादृगासीत्पुरा स्मरः

॥६९॥

ततश्चायतनं तस्याः कृत्वा श्रद्धासमन्वितः ॥

जगाम वांछितं देशं सृष्ट्यर्थं यत्नमास्थितः

॥७०॥

सापि नम्रमुखी तादृक्तेन शप्ता तथैव च ॥

संजाता खण्डकाकारा तेन खण्डशिला स्मृता

॥७१॥

यस्तां पूजयते भक्त्या त्रयोदश्यां तथैव च ॥

नापवादो भवेत्तस्य परदारसमुद्भवः

॥७२॥

कामिन्याश्च विशेषेण प्राहैतच्छंकरात्मजः ॥

कार्तिकेयो द्विजश्रेष्ठाः सत्यमेतन्मयोदितम्

॥७३॥

तथा कामेश्वरं देवं कामदेवप्रतिष्ठितम् ॥

त्रयोदश्यां समाराध्य सर्वान्कामानवाप्नुयात्

॥७४॥

रतिप्रीतिसमायुक्तः स्थितस्तत्र स्मरस्तथा ॥

मूर्तो ब्राह्मणशार्दूलाः श्रेष्ठं प्रासादमाश्रितः ।

विरूपो दुर्भगो यो वा त्रयोदश्यां समाहितः ॥

यस्तं कुंकुमजैः पुष्पैः संपूजयति मानवः

॥७६॥

स सौभाग्यसमायुक्तो रूपवांश्च प्रजायते ॥

या नारी पतिना त्यक्ता सपत्नीजनसंवृता

॥७७॥

तं देवं सुकलत्राढ्यं तथैव परिपूजयेत् ॥

त्रयोदश्यां द्विजश्रेष्ठाः केसरैः कुंकुमोद्भवैः

॥७८॥

सा सौभाग्यवती विप्रा जायते च प्रजावती ॥

धनधान्यसमृद्धा च दुःखशोकविवर्जिता ॥

दोषैः सर्वैर्विनिर्मुक्ता शंसिता धरणीतले

॥७९॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे श्रीहाटकेश्वरक्षेत्रमाहात्म्ये खंडशिलासौभाग्यकूपिकोत्पत्तिमाहात्म्यवर्णनं नाम चतुस्त्रिंशदुत्तरशततमोध्यायः ॥ १३४ ॥