मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — नागरखण्डः, अध्याय १५४

3
नागरखण्डः · 154

चित्रेश्वरीपीठक्षेत्रमाहात्म्यवर्णनम्

सूत उवाच

या नारी तत्र सत्कुण्डे स्नात्वा तां पार्वतीं पुनः ॥

दृष्ट्वा स्नाति ततस्तीर्थे तस्मिन्रूपमये शुभे

॥१॥

पुनश्च पार्वतीं पश्येच्छ्रद्धया परया युता ॥

सद्यः सा मुच्यते कृत्स्नैराजन्ममरणांतिकैः

॥२॥

तत्रैवास्ति जयानाम पार्वत्याः किंकरी द्विजाः ॥

तया तत्र कृतं कुण्डं गौरीकुण्डसमीपतः

॥३॥

या तत्र कुरुते स्नानं तृतीयादिवसेऽबला ॥

सुतसौभाग्यसंपन्ना सा भवेत्पतिवल्लभा

॥४॥

तथान्यदपि तत्रास्ति विजयाकुण्डमुत्तमम् ॥

तत्र स्नाताऽपि वंध्या स्त्री जायते पुत्रसंयुता

॥५॥

न च पश्यति पुत्राणां कदाचिद्व्यसनं द्विजाः ॥

न वियोगं न दुःखं च स्वप्नांते च कदाचन

॥६॥

काकवंध्याऽपि या नारी तत्र स्नानं समाचरेत् ॥

सा पुत्रान्विविधाँल्लब्ध्वा स्वर्गलोके महीयते

॥७॥

ऋषय ऊचुः

एतेषां सूत तीर्थानां तीर्थमस्ति सुसिद्धिदम् ॥

क्वचित्किंञ्चिद्भवेत्सिद्धिर्यत्र स्नानाच्छरीरजा

॥८॥

सूत उवाच

सप्तविंशतिलिंगानि यानि संति द्विजोत्तमाः ॥

तेषां मध्येऽभवत्सिद्धिरेकस्मिन्निखिला द्विजाः

॥९॥

एकस्य सत्त्वयुक्तस्य वीरव्रतयुतस्य च ॥

आश्विनस्य चतुर्दश्यां कृष्णायां द्विजसत्तमाः

॥१०॥

अर्धरात्रे विधानेन तेषां पूजां करोति यः ॥

प्रागुक्तं जपनं भक्त्या स क्रमात्साधकोत्तमः

॥११॥

अंगन्यासं विधायोच्चैः क्षुरिकासूक्तमुच्चरत् ॥

तेषामग्रे पुनः सम्यक्पूजयित्वा च शंकरम्

॥१२॥

पृथगेकैकशो भक्त्या पूजयेद्दिक्पतींश्च वै

॥१३॥

अथाऽऽगत्य गणेशो वै विकरालो भयानकः ॥

लंबोदरो वै नग्नश्च कृष्णदन्तसमुद्भवः

॥१४॥

खड्गहस्तोऽब्रवीद्युद्धं प्रकुरुष्व मया समम् ॥

मुक्त्वैतत्कपटं भूमौ यदि वीरोऽसि सात्त्विकः

॥१५॥

ततस्तत्कर्षणाच्चापि यस्तेनाशु प्रताड्यते ॥

स तेनैव शरीरेण नीयते तेन तत्पदम्

॥१६॥

यत्र स्थाने जरामृत्युर्न शोकश्च कदाचन ॥

तथा चित्रेश्वरीपीठे सिद्धिरेकस्य कीर्तिता

॥१७॥

माघकृष्णचतुर्दश्यां यः पीठं तत्र पूजयेत् ॥

आगमोक्तविधानेन सम्यक्छ्रद्धासमन्वितः

॥१९॥

पश्चात्कपालमादाय महामांसप्रपूरितम् ॥

अहमस्य करोम्यद्य महामांसस्य विक्रयम्

॥१९॥

सिद्धिमूल्ये न गृह्णातु कश्चिच्चेदस्ति सात्त्विकः ॥

ततश्च याचते यश्च प्रगृह्णाति च सद्द्विजाः

॥२०॥

स तमादाय निर्याति यत्र देवो महेश्वरः ॥

हाटकेश्वरजं लिंगं चित्रशर्मप्रतिष्ठितम्

॥२१॥

तस्य स्थानस्य मध्यस्थो यस्तं पूजयते नरः ॥

शिवरात्रौ निशीथे च पुष्पलक्षणभक्तितः ॥

सुसिद्धिमाप्नुयात्तूर्णं स शरीरेण तत्क्षणात्

॥२२॥

सिद्धिस्थानानि सर्वाणि तस्मिन्क्षेत्रे स्थितानि वै ॥

वीरव्रतप्रयुक्तानां मानवानां द्विजोत्तमाः

॥२३॥

ऋषय ऊचुः

तामसो यस्त्वया प्रोक्तः सिद्धिमार्गो महामते ॥

अनर्हो ब्राह्मणेन्द्राणां श्रोत्रियाणां विशेषतः

॥२४॥

शुद्धान्तः करणैः सूत भूतहिंसाविवर्जितैः ॥

यथा संप्राप्यते मोक्षो ब्राह्मणैः सुचिरादपि

॥२५॥

तत्त्वं ब्रूहि महाभाग मोक्षोपायं द्विजन्मनाम्

॥२६॥

सूत उवाच

रुद्रैर्दशभिः संयुक्तमानंदेश्वरकं तथा ॥

स्नात्वा तदग्रतः कुण्डे शास्त्रदृष्टेन कर्मणा

॥२७॥

संसिद्धिमाप्नुयान्मर्त्यो दुर्लभां त्रिदशैरपि ॥

माघमासे नरः स्नात्वा विश्वामित्रह्रदे नरः

॥२८॥

प्रत्यूषे तिलपात्रं च ब्राह्मणाय निवेदयेत् ॥

सर्वपापविनिर्मुक्तो ब्रह्म लोके महीयते

॥२९॥

यद्यपि स्याद्दुराचारः सर्वाशी सर्वविक्रयी ॥

सुपर्णाख्यस्य देवस्य पुरतः श्रद्धयाऽन्वितः

॥३०॥

प्रायोपवेशनं कृत्वा ह्युपवासपरो नरः ॥

यस्त्यजेन्मानवः प्राणान्न स भूयोऽभिजायते

॥३१॥

एवं सिद्धित्रयं प्रोक्तं ब्राह्मणानां हितावहम् ॥

सात्त्विकं ब्राह्मणश्रेष्ठाः शंसितं त्रिदशैरपि

॥३२॥

अन्यानि तत्र तीर्थानि देवतायतनानि च ॥

तानि स्वर्गप्रदान्याहुर्मुनयः शंसितव्रताः

॥३३॥

एतद्वः सर्वमाख्यातं क्षेत्रमाहात्म्यमुत्तमम् ॥

हाटकेश्वरदेवस्य सर्वपातकनाशनम्

॥३४॥

योऽत्र सर्वेषु तीर्थेषु स्नात्वा पश्यति भक्तितः ॥

सर्वाण्यायतनान्येव स पापोऽपि विमुच्यते

॥३५॥

एतत्खंडं पुराणस्य प्रथमं परिकीर्तितम् ॥

कार्तिकेयप्रणीतस्य सर्वपापहरं शुभम्

॥३६॥

यश्चैतत्कीर्तयेद्भक्त्या शृणुयाद्वा समाहितः ॥

इह भुक्त्वा सुविपुलान्भोगान्याति त्रिविष्टपम्

॥३७॥

सर्वतीर्थेषु यत्पुण्यं सर्वदानैश्च यत्फलम् ॥

तत्फलं समवाप्नोति शृण्वञ्छ्रद्धासमन्वितः

॥३८॥

श्रुत्वा पुराणमेतद्धि जन्मकोटिसमुद्भवात् ॥

पातकाद्विप्रमुच्येत कुलानामुद्धरेच्छतम्

॥३९॥

ततो व्यासः पूजनीयो वस्त्रदानादिभूषणैः ॥

गोभूहिरण्यनिर्वापैर्दानैश्च विविधैरपि

॥४०॥

तेन संपूजितो व्यासः कृष्णद्वैपायनः मनुः ॥

साक्षात्सत्यवतीपुत्रो येन व्यासः सुपूजितः

॥४१॥

एकमप्यक्षरं यस्तु गुरुः शिष्ये निवेदयेत् ॥

पृथिव्यां नास्ति तद्द्रव्यं यद्दत्त्वा ह्यनृणी भवेत्

॥४२॥

एतत्पवित्रमायुष्यं धन्यं स्व स्त्ययनं महत् ॥

यच्छ्रुत्वा सर्वदुःखेभ्यो मुच्यते नात्र संशयः

॥४३॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वर क्षेत्रमाहात्म्ये चित्रेश्वरीपीठक्षेत्रमाहात्म्यवर्णनंनाम चतुःपंचाशदुत्तरशततमोऽध्यायः ॥ १५४ ॥