यत्त्वया सूतज प्रोक्तं तक्षकः संभविष्यति
ऋषय ऊचुः
यत्त्वया सूतज प्रोक्तं तक्षकः संभविष्यति ॥
सौराष्ट्रविषये राजा रैवताख्यो महाबलः
॥१॥तथा तस्य प्रिया भार्यो नाम्ना क्षेमंकरीति या ॥
आनर्ताधिपतेर्हर्म्ये संभविष्यति भामिनी
॥२॥ताभ्यां सर्वं समाचक्ष्व वृत्तांतं सूतनंदन ॥
अत्र नः कौतुकं जातं विचित्रं जल्पतस्तव
॥३॥केदारश्च श्रुतोऽस्माभिः सूतपुत्र हिमाचले ॥
स कथं तत्र संजातः सर्वं विस्तरतो वद
॥४॥सूत उवाच
अत्र वः कीर्तयिष्यामि सर्वं ब्राह्मणसत्तमाः ॥
यथा मया श्रुतं पूर्वं निजतातमुखाद्द्विजाः
॥६॥पूर्वं तच्छापदोषेण तक्षको धरणीतले ॥
सौराष्ट्राधिपतेर्हर्म्ये रैवताख्यो बभूव ह
॥६॥आनर्त्ताधिपतेश्चापि संजाता तनया गृहे ॥
तस्याश्चापि सुविख्यातं नाम जातं धरातले
॥७॥क्षेमंकरीति विप्रेन्द्राः कर्मणा प्रकटीकृतम् ॥
आनर्ताधिपतिः पूर्वमासीद्राजा प्रभंजनः
॥८॥तस्य वैरं समुत्पन्नं बहुभिः सह भूमिपैः ॥
ततो निर्वास्यते देशो नीयते पशवो बलात् ॥
शत्रुभिर्जायते युद्धं दिवा नक्तं द्विजोत्तमाः
॥९॥ततः कतिपयाहस्य तस्य भार्या प्रियंवदा ॥
ऋतुस्नाता दधाराथ गर्भं पुण्यं निजोदरे
॥१०॥यतः प्रभृति तस्याः स गर्भोऽभूदुदराश्रयः ॥
ततः प्रभृति राष्ट्रस्य क्षेमं जातं तथा पुरे ॥
एके संख्ये जिता स्तेन शत्रवोऽपि सुदुर्जयाः ॥
निहताश्च तथैवान्ये मित्रभावं समाश्रिताः
॥१२॥ततो जज्ञे शुभा कन्या तस्याः पद्मायतेक्षणा ॥
अंधकारेऽपि यद्रात्र्यां द्योतितं सूतिकागृहम्
॥३॥अथाऽसौ पार्थिवश्चक्रे सुतवत्सुमहोत्सवम् ॥
तस्यास्तोषसमायुक्तो गीतवाद्यादिनिस्वनैः
॥४॥दिने त्रयोदशे प्राप्ते नाम तस्या यथोचितम् ॥
विहितं भूभुजा तेन विप्राणां पुरतो द्विजाः
॥५॥यस्मात्क्षेमं समुत्पन्नं गर्भवासेऽपि संस्थया ॥
अनया क्षेमंकरीनाम तस्मादेषाभवे द्द्विजाः
॥६॥एवं सुविहिता ख्याता वृद्धिं याति दिनेदिने ॥
शुक्लपक्षे कला चेन्दोर्यथैव गगनांगणे
॥७॥ततस्तां यौवनोपेतां रैवताय महीपतिः ॥
ददौ सौराष्ट्रनाथाय काले वैवाहिके शुभे
॥१८॥अथ ताभ्यां सुता जाता रेवतीनाम विश्रुता ॥
भट्टिकाशापदोषेण शेषपत्नी यशस्विनी
॥९॥या तूढा रामरूपेण नागराजेन धीमता ॥
पुत्रपौत्रवती जाता सौभाग्यमदगर्विता
॥२०॥न च ताभ्यां सुतो जातः कथंचिदपि वंशजः ॥
वयसोंऽतेऽपि विप्रेंद्रास्ततो दुःखं व्यजायत
॥२१॥अथ तौ मंत्रिवर्गस्य राज्यं सर्वमशेषतः ॥
अर्पयित्वा तु पुत्रार्थं तपोऽर्थमिह चागतौ
॥२२॥ततः स्वमाश्रमं गत्वा स्थितौ तत्र समाहितौ ॥
देवीं कात्यायनीं स्थाप्य तदाराधनतत्परौ
॥२३॥यया विनिहतो रौद्रो महिषाख्यो महासुरः ॥
कौमारव्रतधारिण्या तस्मिन्विन्ध्ये महाचले
॥२४॥ततस्ताभ्यां ददौ तुष्टा सा पुत्रं वंशवर्धनम् ॥
नाम्ना क्षेमजितं ख्यातं परपक्षक्षया वहम्
॥२५॥ततः स्वं राज्यमासाद्य भूयोऽपि स महीपतिः ॥
. स्वपुत्रं वर्धयामास हर्षेण महतान्वितः
॥२६॥यदा स यौवनोपेतः सञ्जातः क्षेमजित्सुतः ॥
तं च राज्ये नियोज्याऽथ स्वस्थानं स पुनर्ययौ
॥२७॥हाटकेश्वरजं क्षेत्रं तदेतद्द्विजसत्तमाः ॥
भार्यया सहितस्त्यक्त्वा शेषमन्यं परिच्छदम्
॥२८॥तत्र संस्थापयामास लिंगं देवस्य शूलिनः ॥
प्रासादं च मनोहारि ततश्चक्रे समाहितः ॥
२९ रैवतेश्वरमित्युक्तं सर्वपातक नाशनम् ॥
दर्शनादेव सर्वेषां देहिनां द्विजसत्तमाः
॥३०॥या पूर्वं स्थापिता दुर्गा तस्मिन्क्षेत्रे महीभुजा ॥
तस्याः क्षेमंकरी चक्रे प्रासादं श्रद्ध यान्विता
॥३१॥सापि क्षेमंकरीनाम ततः प्रभृति कीर्त्यते ॥
कात्यायन्यपि या प्रोक्ता महिषासुरमर्दिनी
॥३२॥यस्तां चैत्रसिते पक्षे संप श्येदष्टमीदिने ॥
तस्याभीष्टा भवेत्सिद्धिः सर्वदैव द्विजोत्तमाः
॥३३॥एतद्वः सर्वमाख्यातं रैवतेश्वरवर्णनम् ॥
क्षेमंकर्याः प्रभावं च सर्वपातकनाशनम्
॥३४॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहिताया षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये क्षेमंकरीरैवतेश्वरोत्पत्तितीर्थ माहात्म्यवर्णननामाष्टादशोत्तरशततमोऽध्यायः ॥ ११८ ॥