मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — नागरखण्डः, अध्याय २३५

3
नागरखण्डः · 235

चातुर्मास्यदानमहिमवर्णनम्

ब्रह्मोवाच

दानधर्मं प्रशंसंति सर्वधर्मेषु सर्वदा ॥

हरौ सुप्ते विशेषेण दानं ब्रह्मत्वकारणम्

॥१॥

अन्नं ब्रह्म इति प्रोक्तमन्ने प्राणाः प्रतिष्ठिताः ॥

तस्मादन्नप्रदो नित्यं वारिदश्च भवेन्नरः

॥२॥

वारिदस्तृप्तिमायाति सुखमक्षय्यमन्नदः ॥

वार्यन्नयोः समं दानं न भूतं न भविष्यति

॥३॥

मणिरत्नप्रवालानां रूप्यं हाटकवाससाम् ॥

अन्येषामपि दानानामन्नदानं विशिष्यते

॥४॥

अन्नोदकप्रदानं च गोप्रदानं च नित्यदा ॥

वेदपाठो वह्निहोमश्चातुर्मास्ये महाफलम्

॥९॥

वैकुण्ठपदवाञ्छा चेद्विष्णुना सह संगमे ॥

सर्वपापक्षयार्थाय चातुर्मास्येऽन्नदो भवेत्

॥६॥

सत्यंसत्यं हि देवर्षे मयोक्तं तव नारद ॥

जन्मांतरसहस्रेषु नादत्तमुपतिष्ठते

॥७॥

तस्मादन्नप्रदानेन सर्वे हृष्यंति जन्तवः ॥

देवाश्च स्पृहयंत्येनमन्नदानप्रदायिनम्

॥८॥

आज्यं देयं च पात्रेषु श्रद्धया वज्रमिश्रितम् ॥

वज्रदानकरो मर्त्यश्चातुर्मास्ये न मानवः

॥९॥

भोजनं गुरुविप्राणां घृतदानं च सत्क्रिया ॥

एतानि यस्य तिष्ठन्ति चातुर्मास्ये न मानवः

॥१०॥

सद्धर्मः सत्कथा चैव सत्सेवा दर्शनं सताम् ॥

विष्षुपूजा रतिर्दाने चातुर्मास्येषु दुर्लभाः

॥११॥

पितॄनुद्दिश्य यो मर्त्यश्चातुर्मास्येऽन्नदो भवेत् ॥

सर्वपापविशुद्धात्मा पितृलोकमवामुयात्

॥१२॥

देवाः सर्वेऽन्नदानेन तृप्ता यच्छन्ति वांछितम् ॥

पिपीलिकाऽपि यद्गेहाद्भक्ष्यमादाय गच्छति

॥१३॥

रात्रौ दिवाऽनिषिद्धान्नो ह्यन्नदानमनुत्तमम् ॥

हरौ सुप्ते हि पापघ्नं वार्य मपि शत्रुषु

॥१४॥

चातुर्मास्ये दुग्धदानं दधि तक्रं महाफलम् ॥

जन्मकाले येन बद्धः पिंडस्तद्दानमुत्तमम्

॥१५॥

शाकप्रदाता नरकं यमलोकं न पश्यति ॥

वस्त्रदः सोमलोकं च वसेदाभूतसंप्लवम्

॥१६॥

सुप्ते देवे यथाशक्ति ह्यन्यासु प्रतिमासु च ॥

पुष्पवस्त्रप्रदानेन सन्तानं नैव हीयते

॥१७॥

चन्दनागुरुधूपं च चातुर्मास्ये प्रयच्छति ॥

पुत्रपौत्रसमायुक्तो विष्णुरूपी भवेन्नरः

॥१८॥

सुप्ते देवे जगन्नाथे फलदानं प्रय च्छति ॥

विप्राय वेदविदुषे यमलोकं न पश्यति

॥१९॥

विद्यादानं च गोदानं भूमिदानं प्रयच्छति ॥

विष्णुप्रीत्यर्थमेवेह स तारयति पूर्वजान्

॥२०॥

गुडसैंधवतैलादिमधुतिक्ततिलान्नदः ॥

देवतायास्समुद्दिश्य तासां लोकं प्रयाति हि

॥२१॥

चातुर्मास्ये तिलान्दत्त्वा न भूयः स्तनपो भवेत् ॥

यवप्रदाता वसते वासवं लोकमक्षयम्

॥२२॥

हूयेत हव्यं वह्नौ च दानं दद्याद्द्विजातये ॥

गावः सुपूजिताः कार्याश्चातुर्मास्ये विशेषतः

॥२३॥

यत्किंचित्सुकृतं कर्म जन्मावधि सुसंचितम् ॥

चातुर्मास्ये गते पात्रे विमुखे यन्न दीयते

॥२४॥

प्रणश्यति क्षणादेव वचना द्यस्तु प्रच्युतः ॥

दिवसेदिवसे तस्य वर्द्धते च प्रतिश्रुतम्

॥२५॥

तस्मान्नैव प्रतिश्राव्यं स्वल्पमप्याशु दीयते ॥

तावद्विवर्द्धते दानं यावत्तन्न प्रयच्छति

॥२६॥

यो मोहान्मनुजो लोके यावत्कोटिगुणं भवेत् ॥

ततो दशगुणा वृद्धिश्चातुर्मास्ये प्रदातरि

॥२७॥

नरके पतनं तस्य याव दिंद्राश्चतुर्दश ॥

अतस्तु सर्वदा देयं नरैर्यत्तु प्रतिश्रुतम्

॥२८॥

अन्यस्मै न प्रदातव्यं प्रदत्तं नैव हारयेत् ।

चातुर्मास्येषु यः शय्यां द्विजाग्र्याय प्रयच्छति

॥२९॥

वेदोक्तेन विधानेन न स याति यमालयम् ॥

आसनं वारिपात्रं च भाजनं ताम्रभाजनम्

॥३०॥

चातुर्मास्ये प्रयत्नेन देयं वित्तानुसारतः ॥

सर्वदानानि विप्रेभ्यो ददत्सुप्ते जगद्गुरौ

॥३१॥

आत्मानं पूर्वजैः सार्द्धं स मोचयति पातकात् ॥

गौर्भूश्च तिलपात्रं च दीपदानमनुत्तमम्

॥३२॥

ददद्विजातये मुक्तो जायते स ऋणत्रयात्

॥३३॥

स विश्वकर्ता भुवनेषु गोप्ता स यज्ञभुक्सर्वफलप्रदश्च ॥

दानानि वस्तुष्वधिदैवतं च यस्मिन्समुद्दिश्य ददाति मुक्तः

॥३४॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वर क्षेत्रमाहात्म्ये शेषशाय्युपाख्याने चातुर्मास्यमाहात्म्ये ब्रह्मनारदसंवादे चातुर्मास्यदानमहिमवर्णनंनाम पञ्चत्रिंशदुत्तरद्विशततमोऽध्यायः ॥ २३५ ॥