मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — नागरखण्डः, अध्याय ३३

3
नागरखण्डः · 33

ऽगस्त्याश्रममाहात्म्यवर्णनम्

सूत उवाच

अगस्त्यस्याश्रमोऽन्योस्ति तथा तत्र द्विजोत्तमाः ॥

यत्र तिष्ठति विश्वात्मा स्वयं देवो महेश्वरः

॥१॥

शुक्लपक्षे चतुर्दश्यां चैत्रमासे दिवाकरः ॥

स्वयमभ्येत्य देवेशं पूजयत्येव शंकरम्

॥२॥

तस्मादन्योऽपि यस्तस्यां भक्त्या चागत्य शंकरम् ॥

तमेव पूजयेद्भक्त्या स याति देवमन्दिरम्

॥३॥

यस्तत्र कुरुते श्राद्धं सम्यक्छ्रद्धासमन्वितः ॥

पितरस्तस्य तृप्यंते पितृमेधे कृते यथा

॥४॥

ऋषय ऊचुः

अगस्त्यस्याश्रमं प्राप्य कस्माद्देवो दिवाकरः ॥

प्रदक्षिणां प्रकुरुते वदैतन्मे सुविस्तरम्

॥५॥

सूत उवाच

कथयामि कथामेतां शृणुत द्विज सत्तमाः ॥

अस्ति विंध्य इति ख्यातः पर्वतः पृथिवीतले

॥६॥

यस्य वृक्षाग्रशाखायां संलग्नास्तरणेः कराः ॥

पुष्पपूगा इवाधःस्थैर्लक्ष्यंते मुग्धसि द्धकैः

॥७॥

अनभिज्ञास्तमिस्रस्य यस्य सानुनिवासिनः ॥

रत्नप्रभाप्रणुन्नस्य कृष्णपक्षनिशास्वपि

॥८॥

यस्य सानुषु मुंचंतो भांति पुष्पाणि पादपाः ॥

वायुवेगवशान्नूनं नीरौघ नीरदा इव

॥९॥

यस्मिन्नानामृगा भांति धावमाना इतस्ततः ॥

कलत्रपुत्रपुष्ट्यर्थं लोभार्थं मानवा इव

॥१०॥

निर्यासच्छद्मना बाष्पं वासिताशेषदिङ्मुखम् ॥

मुञ्चंति तरवो यत्र दन्तिदन्तक्षतत्वचः

॥११॥

चीरिकाविरुतैर्दीर्घै रुदंत इव चापरे ॥

हस्तिहस्तहता वृक्षा मन्यन्ते यस्य सानुषु

॥१२॥

इतश्चेतश्च गच्छद्भिर्निर्झरांभोभिरावृतः ॥

शुशुभे सितवस्त्राढ्यैः पुमानिव विभूषितः

॥१३॥

यस्य स्पर्द्धा समुत्पन्ना पूर्वं सह सुमेरुणा ॥

ततः प्राह सहस्रांशुं गत्वा स क्रोधमूर्च्छितः

॥१४॥

कस्माद्भास्कर मेरोस्त्वं प्रकरोषि प्रदक्षिणाम् ॥

कुलपर्वतसंज्ञेऽपि न करोषि कथं मयि

॥१५॥

भास्कर उवाच

न वयं श्रद्धया तस्य गिरेः कुर्मः प्रदक्षिणाम् ॥

एष मे विहितः पन्था येनेदं विहितं जगत्

॥१६॥

तस्य तुंगानि शृंगाणि व्याप्य खं संश्रितानि च ॥

तेन संजायते तस्य बलादेव प्रद क्षिणा

॥१७॥

एतच्छ्रुत्वा विशेषेण संक्रुद्धो विंध्यपर्वतः ॥

प्रोवाच पश्य भानो त्वं तर्हि तुंगत्वमद्य मे ॥

रुरोधाथ नभोमार्गं येन गच्छति भास्करः

॥१८॥

अथ रुद्धं समालोक्य मार्गं वासरनायकः ॥

चिन्तयामास चित्ते स्वे सांप्रतं किं करोम्यहम्

॥१९॥

करोमि यद्यहं चास्य पर्वतस्य प्रदक्षिणाम् ॥

तद्भविष्यति कालस्य चलनं भुवनत्रये

॥२०॥

मासर्तुभुवनानां च तथा भावी विपर्ययः ॥

अग्निष्टोमादिकाः सर्वाः क्रिया यास्यंति संक्षयम् ॥

नष्टयज्ञोत्सवे लोके देवानां स्यान्महाव्यथा

॥२१॥

एवं संचिन्त्य चित्तेन बहुधा तीक्ष्णदीधितिः ॥

जगाम मनसा भीतः सोऽगस्त्यं मुनिपुंगवम्

॥२२॥

नान्योस्ति वारणे शक्तो विंधस्यास्य हि तं विना ॥

अगस्त्यं ब्राह्मणश्रेष्ठं मित्रावरुणसंभवम्

॥२३॥

ततो द्विजमयं रूपं स कृत्वा तीक्ष्णदीधितिः ॥

चमत्कारपुरक्षेत्रे तस्याश्रमपदं ययौ

॥२४॥

ततस्तु वैश्वदेवांते वेदोच्चारपरायणः ॥

प्रोवाच सोऽतिथिः प्राप्तस्तवाहं मुनिसत्तम

॥२५॥

ततोऽगस्त्यः कृतानन्दः स्वागतं ते महामुने ॥

मनोरथ इवाध्यातो योऽग्निकार्यांत आगतः

॥२६॥

तत्त्वं ब्रूहि मुनिश्रेष्ठ यद्ददामि तवेप्सितम् ॥

अदेयं नास्ति मे किञ्चित्कालेऽस्मिन्प्रार्थितस्य च

॥२७॥

भास्कर उवाच

अहं भास्कर आयातो विप्ररूपेण सन्मुने ॥

सर्वकार्यक्षमं मत्वा त्वामेकं भुवनत्रये

॥२८॥

त्वया पूर्वं सुरार्थाय प्रपीतः पयसांनिधिः ॥

वातापिश्च तथा दैत्यो भक्षितो द्विजकण्टकः

॥२९॥

तस्माद्गतिर्भवास्माकं सांप्रतं मुनिसत्तम ॥

देवानामिह वर्णानां त्वमेव शरणं यतः

॥३०॥

सूत उवाच

तच्छ्रुत्वा स मुनिर्विप्रा विशेषेण प्रहर्षितः ॥

अर्घ्यं दत्त्वा दिनेशाय ततः प्रोवाच सादरम्

॥३१॥

धन्योऽस्म्यनुगृहीतोस्मि यन्मे त्वं गृहमागतः ॥

तस्माद्ब्रूहि करिष्यामि तव वाक्यमखंडितम्

॥३२॥

भास्कर उवाच

एष विंध्याचलोऽस्माकं मार्गमावृत्य संस्थितः ॥

स्पर्द्धया गिरिमुख्यस्य सुमेरोर्मुनिसतम

॥३३॥

सामाद्यैर्विविधोपायैस्तस्मादेनं निवारय ॥

कालात्ययो यथा न स्याद्गतेर्भंगस्तथा कुरु

॥३४॥

अगस्त्य उवाच

अहं ते वारयिष्यामि वर्धमानं कुलाचलम् ॥

स्वस्थानं गच्छ तस्मात्त्वं सुखीभव दिवाकर

॥३५॥

ततः स प्रेषितस्ते न भास्करस्तीक्ष्णदीधितिः ॥

स्वं स्थानं प्रययौ हृष्टस्तमामंत्र्य मुनीश्वरम्

॥३६॥

अगस्त्योऽपि द्रुतं गत्वा विंध्यं प्रोवाच सादरम् ॥

न्यूनतां व्रज मद्वाक्याच्छीघ्रं पर्वतसत्तम

॥३७॥

दाक्षिणात्येषु तीर्थेषु स्नाने जाताद्य मे मतिः ॥

तवायत्ता गिरे सैव तत्कुरुष्व यथोचितम्

॥३८॥

स तस्य वचनं श्रुत्वा विंध्यः पर्वतसत्तमः ॥

अभजन्निम्नतां सद्यो विनयेन समन्वितः

॥३९॥

अगस्त्योऽपि समासाद्य तस्यांतं दक्षिणं द्विजाः ॥

त्वयैवं संस्थितेनाथ() स्थातव्यमित्युवाच तम्

॥४०॥

यावदागमनं मह्यं नात्र कार्या विचारणा ॥

नो चेच्छापं प्रदास्यामि येन संयास्यसि क्षयम्

॥४॥

स तथेति प्रतिज्ञाय शापाद्भीतो नगोत्तमः ॥

न जगाम पुनर्वृद्धिं तस्यागमनवांछया

॥४२॥

सोऽपि तेनैवमार्गेण निवृत्तिं न करोति च ॥

यावदद्यापि विप्रेंद्रा दक्षिणां दिशमाश्रित तः

॥४३॥

अथ तत्रैव चानीय लोपामुद्रां मुनीश्वरः ॥

समाहूय सहस्रांशुं ततः प्रोवाच सादरम्

॥४४॥

तव वाक्यान्मया त्यक्तः स्वाश्रमस्तीक्ष्णदी धिते ॥

तवार्थे च न गंतव्यं भूयस्तत्र कथंचन

॥४५॥

तस्मान्मद्वचनाद्भानो चतुर्दश्यां मधौ सिते ॥

यन्मया स्थापितं तत्र लिंगं पूज्यं हि तत्त्व या

॥४६॥

भास्कर उवाच

एवं मुने करिष्यामि तव वाक्यादसंशयम् ॥

पूजयिष्यामि तल्लिंगं वर्षांते स्वयमेव हि

॥४७॥

योऽन्यो हि तद्दिने लिंगं पूजयिष्यति मानवः ॥

मम लोकं समासाद्य स भविष्यति मुक्तिभाक्

॥४८॥

सूत उवाच

एतस्मात्कारणात्तत्र भगवांस्तीक्ष्णदीधितिः ॥

चैत्रशुक्लचतुर्दश्यां सांनिध्यं कुरुते सदा

॥४९॥

एतद्वः सर्वमाख्यातं यत्पृष्टोस्मि द्विजोत्तमाः ॥

भूयो वदत वै कश्चित्संदेहश्चे द्धृदि स्थितः

॥५०॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये ऽगस्त्याश्रममाहात्म्यवर्णनं नाम त्रयस्त्रिंशत्तमोऽध्यायः ॥ ३३ ॥