मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — नागरखण्डः, अध्याय १५

3
नागरखण्डः · 15

ब्रह्मपदप्राप्तिर्

पञ्चदशोऽध्यायः नारद उवाच

नारायणस्तदा देवो जटावल्कलधार्यथ द्वितीयोऽनुचरस्तस्य ह्याययौ फलहस्तवान् १ तौ दृष्ट्वा स्मरदूती सा विललाप मृगेक्षणा तच्छ्रुत्वा वचनं तस्याः प्रोचतुस्तां च तावुभौ २ भयं मा गच्छ कल्याणि त्वामावां त्रातुमागतौ वने घोरे प्रविष्टासि कथं दुष्टनिषेविते ३ एवमाश्वास्य तां तन्वीं राक्षसं प्राह माधवः मुंचेमामधमाचार मृद्वंगीं चारुहासिनीम् ४ रेरे मूर्ख दुराचार किं कर्तुं त्वं व्यवस्थितः सर्वस्वं लोकनेत्राणामाहारं कर्तुमुद्यतः ५ भव पुण्यप्रभावेयं हंस्येतां मंडनं भुवः अद्यलोकं निरालोकं कंदर्पं दर्पवर्जितम् ६ करिष्यस्यधुना त्वं च हत्वा वृंदारिकां वने तस्मादिमां विमुंचाशु सुखप्रासाददेवताम् ७ इति श्रुत्वा हरेर्वाक्यं राक्षसः कुपितोऽब्रवीत् समर्थस्त्वं यदि तदा मोचयाद्यैव मत्करात् ८ इत्युक्तमात्रे वचने माधवेन क्रुधेक्षितः पपात भस्मसाद्भूतस्त्यक्त्वा वृंदां सुदूरतः ९ अथोवाच प्रमुग्धा सा मायया जगदीशितुः कस्त्वं कारुण्यजलधिर्येनाहमिह रक्षिता १० शारीरं मानसं दुःखं सतापं तपसां निधे त्वया मधुरया वाचा हृतं राक्षसनाशनात् ११ तवाश्रमे तपः सौम्य करिष्यामि तपोधन १२ तापस उवाच- भरद्वाजात्मजश्चाहं देवशर्मेति विश्रुतः विहाय भोगानखिलान्वनं घोरमुपागतः १३ अनेन बटुनासार्धं मम शिष्येण कामगाः बहुशः संति चान्येऽपि मच्छिष्याः कामरूपिणः १४ त्वं चेन्ममाश्रमे स्थित्वा चिकीर्षसि तपः शुभे एहि राज्ञ्यपरं यामो वनं दूरस्थितं यतः १५ इत्युक्त्वा राजपत्नीं तां ययौ प्राचीं दिशं हरिः वनं प्रेतपिशाचाढ्यं मंदगत्या नराधिप १६ वृंदारिकाश्रुपूर्णाक्षी तस्य पृष्ठानुगा ययौ स्मरदूती च तत्पृष्ठे मां प्रतीक्षेति वादिनी १७ अत्रांतरे दुराचारः कोपि पापाकृतिर्वने जालं प्रसारयामास तद्यदा जीवपूरितम् १८ ततः संकोचयामास तज्जालं पापनायकः जालस्थांस्तु तदा जीवानुपाहृत्य मुमोच ह १९ स च व्याधः स्त्रियौ दृष्ट्वा स्मरदूती जगाद ताम् देवि मामत्तुमायाति करे गृह्णातु मां सखी २० वृंदा तयोक्तं श्रुत्वैनं विकृतास्यं व्यलोकयत् वीक्ष्यतं भयवातेन निर्धूता सिंधुजप्रिया २१ दुद्राव विकलं शुभ्रं स्मरदूत्या समं वने विद्रवंती समं सख्या तापसाश्रममागता २२ सा तापसवने तस्मिन्ददर्शात्यंतमद्भुतम् पक्षिणः कांचनीयांगान्नानाशब्दसमाकुलान् २३ सापश्यद्धेमपद्माढ्यां वापीं तु स्वर्णभूमिकाम् क्षीरं वहंति सरितः स्रवंति मधु भूरुहः २४ शर्कराराशयस्तत्र मोदकानां च संचयाः भक्ष्याणि स्वादुसर्वाणि बहून्याभरणानि च २५ बहुशस्त्राणि दिव्यानि नभसः संपतंति च क्रीडंति हरयस्तृप्ता उत्पतंति पतंति च २६ मठेति सुंदरं वृंदा तं ददर्श तपस्विनम् व्याघ्रचर्मासनगतं भासयंतं जगत्त्रयम् २७ तमुवाच विभो पाहि पाहि पापर्द्धिकादथ तपसा किं च धर्मेण मौनेन च जपेन च २८ भीतत्राणात्परं नान्यत्पुण्यमस्ति तपोधन एवमुक्तवती भीता सालसांगी तपस्विनम् २९ तावत्प्राप्तः सदुष्टात्मा सर्वजीवप्रबंधकः वृंदादेवी भयत्रस्ता हरिकंठे समाश्लिषत् ३० सुखस्पर्शं भुजाभ्यां सा शोकवल्लीव लिंगिता तवालिंगनभावेन पुनरेव भविष्यति ३१ शिरः सर्वांगसंपन्नं त्वद्भर्तुरधिकं गुणैः अथ त्वं प्रमदे गच्छ पत्यर्थे चित्रशालिकाम् ३२ सा चित्रशालामित्युक्ता विवेश मुनिना तदा दिव्यपर्यंकमारूढा गृह्य कांतस्य तच्छिरः ३३ चकाराधरपानं सा मीलिताक्ष्यतिलोलुपा यावत्तावदभूद्राजन्रूपं जालंधराकृति ३४ तत्कांतसदृशाकारस्तद्वक्षस्तद्वदुन्नतिः तद्वाक्यस्तन्मनोभावस्तदासीज्जगदीश्वरः ३५ अथ संपूर्णकायं तं प्रियं वीक्ष्य जगाद सा तव कुर्वे प्रियं स्वामिन्ब्रूहि त्वं स्वरणं च मे ३६ वृंदावचनमाकर्ण्य प्राह मायासमुद्रजः शृणु देवि यथा युद्धं वृत्तं शंभोर्मया सह ३७ प्रिये रुद्रेण रौद्रेण छिन्नं चक्रेण मे शिरः तावत्वत्सिद्धियोगाच्च त्वद्गतेन ममात्मना ३८ छिन्नं तदत्र चानीतं जीवितं तेंगसंगतः प्रिये त्वं मद्वियोगेन बाले जातासि दुःखिता ३९ क्षंतव्यं विप्रियं मह्यं यत्त्वां त्यक्त्वा रणं गतः इत्यादि वचनैस्तेन वृंदा संस्मारिता तदा ४० तांबूलैश्च विनोदैश्च वस्त्रालंकरणैः शुभैः अथ वृंदारिका देवी सर्वभोगसमन्विता ४१ प्रियं गाढं समालिंग्य चुचुंब रतिलोलुपा मोक्षादप्यधिकं सौख्यं वृंदा मोहनसंभवम् ४२ मेने नारायणो देवो लक्ष्मीप्रेमरसाधिकम् वृंदां वियोगजं दुःखं विनोदयति माधवे ४३ तत्क्रीडाचारुविलसद्वापिका राजहंसके तद्रूपभावात्कृष्णोऽसौ पद्मायां विगतस्पृहः ४४ अभूद्वृंदावने तस्मिंस्तुलसीरूप धारिणी वृंदांगस्वेदतो भूम्यां प्रादुर्भूताति पावनी ४५ वृंदांग संगजं चेदमनुभूय सुंखं हरिः दिनानि कतिचिन्मेने शिवकार्यं जगत्पतिः ४६ एकदा सुरतस्यांते सा स्वकंठे तपस्विनम् वृंदा ददर्श संलग्नं द्विभुजं पुरुषोत्तमम् ४७ तं दृष्ट्वा प्राह सा कंठाद्विमुच्य भुजबंधनम् कथं तापसरूपेण त्वं मां मोहितुमागतः ४८ निशम्य वचनं तस्याः सांत्वयन्प्राह तां हरिः शृणु वृंदारिके त्वं मां विद्धि लक्ष्मीमनोहरम् ४९ तव भर्ता हरं जेतुं गौरीमानयितुं गतः अहं शिवः शिवश्चाहं पृथक्त्वे न व्यवस्थितौ 6.15.५० जालंधरो हतः संख्ये भज मामधुनानघे नारद उवाच- इति विष्णोर्वचः श्रुत्वा विषण्णवदनाभवत् ततो वृंदारिका राजन्कुपिता प्रत्युवाच ह ५१ रणे बद्धोऽसि येन त्वं जीवन्मुक्तः पितुर्गिरा विविधैः सत्कृतो रत्नैर्युक्तं तस्य हृता वधूः ५२ पतिर्धर्मस्य यो नित्यं परदाररतः कथम् ईश्वरोऽपि कृतं भुंक्ते कर्मेत्याहुर्मनीषिणः ५३ अहं मोहं यथानीता त्वया माया तपस्विना तथा तव वधूं माया तपस्वीकोऽपि नेष्यति ५४ इति शप्तस्तथा विष्णुर्जगामादृश्यतां क्षणात् सा चित्रशालापर्यंकः स च तेऽथप्लवंगमाः ५५ नष्टं सर्वं हरौ याते वनं शून्यं विलोक्य सा वृंदा प्राह सखीं प्राप्य जिह्मं तद्विष्णुना कृतम् ५६ त्यक्तं पुरं गतं राज्यं कांतः संदेहतां गतः अहं वने विदित्वैतत्क्व यामि विधिनिर्मिता ५७ मनोरथानां विषयमभून्मे प्रियदर्शनम् प्राह निःश्वस्य चैवोष्णं राज्ञी वृंदातिदुःखिता ५८ मम प्राप्तं हि मरणं त्वया हि स्मरदूतिके इत्युक्ता सा तया प्राह मम त्वं प्राणरूपिणी ५९ तस्यास्तथोक्तमाकर्ण्य इतिकर्त्तव्यतां ततः वने निश्चित्य सा वृंदा गत्वा तत्र महत्सरः ६० विहाय दुःखमकरोद्गात्रक्षालनमंबुना तीरे पद्मासनं बद्ध्वा कृत्वा निर्विषयं मनः ६१ शोषयामास देहं स्वं विष्णुसंगेन दूषितम् तपश्चचारसात्युग्रं निराहारा सखीसमम् ६२ गंधर्वलोकतो वृंदामथागत्याप्सरोगणः प्राह याहीति कल्याणि स्वर्गं मा त्यज विग्रहम् ६३ गांधर्वं शस्त्रमेतत्त्रिभुवनविजयं श्रीपतिस्तोषमग्र्यं नीतो येनेह वृंदे त्यजसि कथमिदं तद्वपुः प्राप्तकामम् कांतं ते विद्धि शूलिप्रवरशरहतं पुण्यलाभस्य भूषास्वर्गस्य त्वं भवाद्य द्रुतममरवनं चंडिभद्रे भज त्वम् ६४ श्रुत्वा शास्त्रं वधूनां जलधिजदयिता वाक्यमाह प्रहस्य स्वर्गादाहृत्य मुक्तात्रिदशपति वधूश्चातिवीरेण पत्या आदौ पात्रं सुखानामहममरजिता प्रेयसा तद्वियुक्तानिर्दुष्टा तद्य तिष्ये प्रियममृतगतं प्राप्नुयां येन चैव ६५ इत्युक्त्वा ससखी वृंदा विससर्जाप्सरोगणान् तत्प्रीतिपाशबद्धास्ता नित्यमायांति यांति च ६६ योगाभ्यासेन वृंदाथ दग्ध्वा ज्ञानाग्निना गुणान् विषयेभ्यः समाहृत्य मनः प्राप ततः परम् ६७ दृष्ट्वा वृंदारिकां तत्र महांतश्चाप्सरोगणाः तुष्टुवुर्नभसस्तुष्टा ववृषुः पुष्पवृष्टिभिः ६८ शुष्ककाष्ठचयं कृत्वा तत्र वृंदाकलेवरम् निधायाग्निं च प्रज्वाल्य स्मरदूती विवेश तम् ६९ दग्धं वृंदांगरजसां बिंबं तद्गोलकात्मकम् कृत्वा तद्भस्मनः शेषं मंदाकिन्यां विचिक्षिपुः ७० यत्र वृंदा परित्यज्य देहं ब्रह्मपथं गता आसीद्वृंदावनं तत्र गोवर्द्धनसमीपतः ७१ देव्योऽथ स्वर्गमेत्य त्रिदशपतिवधूसत्त्वसंपत्तिमाहुर्देवीभ्यस्तन्निशम्य प्रमुदितमनसो निर्जराद्याश्च सर्वे शत्रोर्दैत्यस्य हित्वा प्रबलतरभयं भीमभेर्यो निजघ्नुः श्रुत्वा तत्रासनस्थः परिजननिवहोवापशोभां शुभस्य ७२

॥१॥

इति श्रीपाद्मे महापुराणे उत्तरखंडे पंचपंचाशतसहस्रसंहितायां जालंधरोपाख्याने वृंदाया ब्रह्मपदप्राप्तिर्नाम पंचदशोऽध्यायः १५