एतत्सामान्यतः प्रोक्तं मया श्राद्धं यथा नरैः
भर्तृयज्ञ उवाच
एतत्सामान्यतः प्रोक्तं मया श्राद्धं यथा नरैः ॥
कर्त्तव्यं विप्रपूर्वैर्यद्वर्णैः पार्थिवसत्तम
॥१॥अतः परं प्रवक्ष्यामि स्वशाखायाः स्मृतं नृप ॥
स्वदेशवर्णजातीयं यथा स्यादत्र निर्वृतिः
॥२॥श्राद्धे श्रद्धा यतो मूलं तेन श्राद्धं प्रकीर्तितम् ॥
तत्तस्मिन्क्रियमाणे तु न किंचिद्व्यर्थतां व्रजेत्
॥३॥अनिष्टमपि राजेन्द्र तस्माच्छ्राद्धं समा चरेत् ॥
विप्रपादोदकं यत्तु भूमौ पतति पार्थिव
॥४॥जाता ये गोत्रजाः केचिदपुत्रा मरणं गताः ॥
ते यांति परमां तृप्तिममृतेन यथा सुराः ॥
विप्रपादोदकक्लिन्ना यावत्तिष्ठति मेदिनी ॥
तावत्पुष्करपात्रेषु पिबन्ति पितरो जलम्
॥६॥श्राद्धेऽथ क्रियमाणे तु यत्किंचित्पतति क्षितौ ॥
पुष्पगन्धोदकं चान्नमपि तोयं नरेश्वर
॥७॥तेन तृप्तिं परां यांति ये कृमित्वमुपागताः ॥
कीटत्वं वापि तिर्यक्त्वं व्यालत्वं च नराधिप
॥८॥यदुच्छिष्टं क्षितौ याति पात्रप्रक्षालनोद्भवम् ॥
तेन तृप्तिं परां यांति ये प्रेतत्वमुपागताः
॥९॥ये चापमृत्युना केचिन्मृत्युं प्राप्ताः स्ववंशजाः ॥
असंस्कृतप्रमीतानां त्यागिनां कुलयोषिताम्
॥१०॥उच्छिष्टभागधेयं स्याद्दर्भेषु विकिरश्च यः ॥
विकिरेण प्रदत्तेन ते तृप्तिं यांति चाखिलाः
॥११॥यत्किंचिन्मंत्रहीनं वा कालहीनमथापि वा ॥
विधिहीनं च संपूर्णं दक्षिणायां तु तद्भवेत्
॥१२॥तस्मान्न दक्षिणाहीनं श्राद्धं कार्यं विपश्चिता ॥
य इच्छेच्छाश्वतीं तृप्तिं पितॄणामात्मनश्च यः
॥१३॥दक्षिणारहितं श्राद्धं यथैवोषरवर्षितम् ॥
यथा तमसि नृत्यं च गीतं वा बधिरस्य च
॥१४॥श्राद्धं दत्त्वा च युक्त्वा च श्राद्धे निष्कामतां व्रजेत् ॥
न स्वाध्यायः प्रकर्तव्यो न ग्रामांतरकं व्रजेत्
॥१५॥श्राद्धभुग्रमणीतल्पं तदहर्योऽधिगच्छति ॥
तं मासं पितरस्तस्य जायंते वीर्यभोजिनः
॥१६॥श्राद्धभुक्छ्राद्धदाता च यः सेवयति मैथुनम् ॥
तस्य संवत्सरं यावत्पितरः शुक्रभोजिनः ॥
प्रभवंति न संदेह इत्येषा वैदिकी श्रुतिः
॥१७॥श्राद्धे भुक्त्वाथ दत्त्वा वा यः श्राद्धं कुरुतेल्पधीः ॥
स्वाध्यायं पितरस्तस्य यावत्संवत्सरं नृप ॥
व्यर्थश्राद्धफलाः संतः पीड्यंते क्षुत्पिपासया
॥१८॥श्राद्धे भुक्त्वाऽथ दत्त्वा वा यः श्राद्धं मानवाधमः ॥
ग्रामातरं प्रयात्यत्र तच्छ्राद्धं व्यर्थतां व्रजेत्
॥१९॥ब्राह्मणेन न भोक्तव्यं समायाते निमंत्रणे ॥
अथ भुंक्ते च यो मोहात्स प्रयाति ह्यधोगतिम्
॥२०॥यजमानेन च तथा न कार्यं भोजनं परम् ॥
कुर्वंति ये नराः सर्वे ते यांति नरकं ध्रुवम्
॥२१॥श्राद्धे भुक्त्वाऽथ दत्त्वा वा श्राद्धं यो युद्धमाचरेत् ॥
असंदिग्धं हि तच्छ्राद्धं स मन्दो व्यर्थतं नयेत्
॥२२॥तस्मात्सर्वप्रयत्नेन दोषानेतान्परित्यजेत् ॥
श्राद्धभुग्यजमानश्च विशेषेण महीपते
॥२३॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये श्राद्धकल्पे श्राद्धनियमवर्णनंनामाष्टादशोत्तरद्विशततमोऽध्यायः ॥ २१८ ॥