मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — नागरखण्डः, अध्याय १७२

3
नागरखण्डः · 172

सरस्वतीशापवृत्तांतवर्णनम्

सूत उवाच

ततःप्रभृति च्छिद्राणि विश्वामित्रो निरीक्षयन् ॥

वसिष्ठस्य वधार्थाय संस्थितो द्विजसत्तमाः

॥१॥

आत्मशक्तिप्रभावेन मशकस्य यथा गजः ॥

अन्यस्मिन्नहनि प्राप्ते विश्वामित्रेण सा नदी

॥२॥

समाहूता समायाता द्रुतं सा स्त्रीस्वरूपिणी ॥

अब्रवीत्प्रांजलिर्भूत्वा आदेशो दीयतां मम ॥

ब्रह्मर्षे येन कार्येण समाहूतास्मि सांप्रतम्

॥३॥

विश्वामित्र उवाच

यदा निमज्जनं कुर्यात्तव तोये महानदि ॥

परमं वेगमास्थाय तदाऽऽनय ममांतिकम्

॥४॥

पूर्णश्रोत्रं जले नैव व्याकुलांगं व्यवस्थितम् ॥

निहन्मि येन शीघ्रं च नान्यच्छिद्रं प्रलक्षये

॥५॥

एवमुक्ता तदा तेन विश्वामित्रेण सा नदी ॥

वित्रस्ता भयसंयुक्ता शापाद्वाक्यमुवाच सा

॥६॥

नाहं द्रोहं करिष्यामि वसिष्ठस्य महात्मनः ॥

ब्रह्मर्षे न च ते युक्तं कर्तुं वै ब्रह्मणो वधम्

॥७॥

यदि त्वं ब्रह्मणा प्रोक्तो ब्रह्मर्षिः स्वयमेव तु ॥

कामान्नायं वसिष्ठस्तु तस्मात्कोपं परित्यज

॥८॥

मनसापि वधं यस्तु ब्राह्मणस्य विचिंतयेत् ॥

तप्तकृच्छ्रेण मुच्येत मनुः स्वायंभुवोऽब्रवीत्

॥९॥

वाचया प्रवदेद्यस्तु ब्राह्मणस्य वधं नरः ॥

चांद्रायणेन शुद्धिः स्यात्तस्य देवोऽब्रवीदिदम्

॥१०॥

तस्मान्नाहं करिष्यामि तव वाक्यं कथंचन ॥

वसिष्ठार्थं तु यत्प्रोक्तं कुरु यत्तव रोचते

॥११॥

तच्छ्रुत्वा कुपितस्तस्या विश्वामित्रो द्विजोत्तमाः ॥

शशाप तां नदीं श्रेष्ठां यत्तद्वक्ष्यामि श्रूयताम्

॥१२॥

यस्मात्पापे वचो मह्यं न कृतं कुनदि त्वया ॥

तस्माद्रक्तप्रवाहस्ते जलजोऽयं भविष्यति

॥१३॥

एवमुक्त्वा करात्तोयं सप्तवाराभिमंत्रितम् ॥

चिक्षेपाथ जले तस्याः क्रोधसंरक्तलोचनः

॥१४॥

ततश्च तत्क्षणाज्जातं तत्तोयं रुधिरं द्विजाः ॥

सारस्वतं सुपुण्यं च यदासीच्छंखसंनिभम्

॥१५॥

एतस्मिन्नंतरे प्राप्ता भूतप्रेतनिशाचराः ॥

पीत्वापीत्वा प्रनृत्यंति गायंति च हसंति च

॥१६॥

ये तत्र तापसाः केचित्तटे तस्या व्यवस्थिताः ॥

ते सर्वेऽपि च तां त्यक्ता दूरदेशं समाश्रिताः

॥१७॥

बहिर्वासाश्च ये तत्र नागराः समवस्थिताः ॥

चण्डशर्म प्रभृतयस्तेऽपि याताः सुदूरतः

॥१८॥

वसिष्ठोऽपि मुनिश्रेष्ठो जगामार्बुदपर्वतम् ॥

विश्वामित्रस्तु विप्रर्षिश्चमत्कारपुरं गतः

॥१९॥

हाटकेश्वरजे क्षेत्रे यत्स्थितं विप्रसंकुलम् ॥

तत्राश्रमपदं कृत्वा तपस्तेपे सुदारुणम्

॥२०॥

येन सृष्टिक्षमो जातः स्पर्धते ब्रह्मणा सह ॥

एतद्वः सर्वमाख्यातं यथा सारस्वतं जलम्

॥२१॥

रुधिरत्वमनुप्राप्तं विश्वामित्रस्य शापतः ॥

चंडशर्मादयो विप्रा यथा देशांतरं गताः

॥२२॥

इति श्रीस्कांदे महापुराण काशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये सरस्वतीशापवृत्तांतवर्णनंनाम द्विसप्तत्युत्तरशततमोऽध्यायः ॥ १७२ ॥