मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — नागरखण्डः, अध्याय ११७

3
नागरखण्डः · 117

भट्टिकातीर्थोत्पत्तिमाहात्म्यकथनम्

ऋषय ऊचुः

भट्टिकाख्या पुरा प्रोक्ता या त्वया सूतनन्दन ॥

कस्मात्तस्याः शरीरान्ताद्दंष्ट्रा नागसमुद्भवाः

॥१॥

विशीर्णाः किं प्रभावश्च तपसः सूतनन्दन ॥

किं वा मंत्रप्रभावश्च एतन्नः कौतुकं परम्

॥२॥

यन्मानुषशरीरेऽपि विशीर्णास्ता विषोल्बणाः ॥

नागानां तु विशेषेण तस्मात्सर्वं प्रकीर्तय

॥३॥

सूत उवाच

सा पुरा ब्राह्मणी बाल्ये वर्तमाना पितुर्गृहे ॥

वैधव्येन समायुक्ता जाता कर्मविपाकतः

॥४॥

ततो बाल्येऽपि शुश्राव शास्त्राणि विविधानि च ॥

देवयात्रां प्रचक्रेऽथ तीर्थे स्नाति समाहिता

॥५॥

तत्र केदारदेवं च गत्वा नित्यं समाहिता ॥

प्रातरुत्थाय गीतं च भक्त्या चक्रे तदग्रतः

॥६॥

ततस्तद्गीतलौल्येन पातालात्समुपेत्य च ॥

तक्षको वासुकिश्चैव द्विज रूपधरावुभौ

॥७॥

साऽपि तत्र महद्गीतं तानैः सर्वैरलंकृतम् ॥

मूर्च्छनाभिः समोपेतं सप्तस्वरविराजितम्

॥८॥

यतिभिश्च तथा ग्रामैर्वर्णग्रामैः पृथ ग्विधैः ॥

ततं च विततं चैव घनं सुषिरमेव च

॥९॥

तालकालक्रियामानवर्धमानादिकं च यत् ॥

अविदग्धापि सा तेषां गीतांगानां द्विजांगना ॥

केवलं कंठसंशुद्ध्या ताभ्यां तोषं समादधे

॥१०॥

ततस्तद्गीतलोभेन सर्वे तत्पुरवासिनः ॥

प्रातरुत्थाय केदारं समागच्छंति कौतुकात् ॥

कस्य चित्त्वथ कालस्य नागौ तौ स्वपुरं प्रति ॥

निन्युर्बलात्समुद्यम्य सर्वलोकस्य पश्यतः

॥१२॥

नागरूपं समाधाय रौद्रं जनविभीषणम् ॥

भोगाग्र्येण च संवेष्ट्य पातालतलमभ्ययुः

॥१३॥

अथ तां स्वगृहं नीत्वा प्रोचतुः कामपीडितौ ॥

भवावाभ्यां विशालाक्षि भार्या धर्मपरायणा ॥

एतदर्थं समानीता त्वं पाताले महीतलात्

॥१४॥

भट्टिकोवाच

यत्त्वं तक्षक मां शांतामनपेक्षां रतोत्सवे ॥

आनैषीरपहृत्याशु ब्राह्मणान्वय संभवाम्

॥१५॥

मानुषं रूपमास्थाय पुरा मां त्वं समाश्रितः ॥

कामोपहृतचित्तात्मा तस्मान्मर्त्यो भविष्यसि

॥१६॥

यदि मां त्वं दुराचार धर्षयिष्यसि वीर्यतः ॥

शतधा तव मूर्धाऽयं सद्य एव भविष्यति

॥१७॥

तं श्रुत्वा सुमहाशापं तस्याः स भयविह्वलः ॥

ततः प्रसादयामास कृतांजलिपुटः स्थितः

॥१८॥

मया त्वं कामसक्तेन समानीता सुमोहतः ॥

तस्मात्कुरु प्रसादं मे शापस्यांतो यथा भवेत्

॥१९॥

सूत उवाच

एवं प्रसादिता तेन तक्षकेण द्विजात्मजा ॥

ततः प्रोवाच तं नागं बाष्पव्याकुललोचना

॥२०॥

यदि मां मर्त्यलोके त्वं भूयो न यसि तक्षक ॥

तत्र शापस्य पर्यंतं करिष्यामि न संशयः

॥२१॥

एतस्मिन्नंतरे ज्ञात्वा मानुषीं स्वगृहागताम् ॥

तक्षकेण समानीतां कामोपहतचे तसा

॥२२॥

ततस्तस्य कलत्राणि महेर्ष्यासंश्रितानि च ॥

तस्या नाशार्थमाजग्मुः कोपरक्तेक्षणानि च ॥

२३ अथ तासां परिज्ञाय तक्षकः स विचेष्टितम् ॥

वाञ्छञ्छापस्य पर्यंतं तत्पार्श्वाद्भयसंयुतः

॥२४॥

वज्रां नामास्मरद्विद्यां तस्या गात्रं ततस्तया ॥

योजयामास रक्षार्थं प्राप्ता चाथ भुजंगमी

॥२५॥

अदशत्तां ततः क्रुद्धा ब्राह्मणस्य सुतां सतीम् ॥

सपत्नीं मन्यमानोच्चैः शीर्णदंष्ट्रा व्यजायत

॥२६॥

अथ तामपि सा क्रुद्धा शशाप द्विजसंभवा ॥

दृष्ट्वा सापत्न्यजैर्भावैर्वर्तमानां सहेर्ष्यया

॥२७॥

यस्मात्त्वं दोषहीनां मां सदोषामिव मन्यसे ॥

तस्माद्भव द्रुतं पापे मानुषी दुःखभागिनी

॥२८॥

अथ तां संगृहीत्वा स तक्षको नागसत्तमः ॥

केदारायतने तस्मिन्नर्धरात्रे मुमोच ह

॥२९॥

ततः प्रोवाच तां देवीं कृतां जलिपुटः स्थितः ॥

शापांतं कुरु मे साध्वि स्वगृहं येन याम्यहम्

॥३०॥

भट्टिकोवाच

सौराष्ट्रविषये राजा त्वं भविष्यसि पन्नग ॥

भूमौ रैवतको नाम भोगानां भाजनं सदा

॥३१॥

ततश्चैव तनुं त्यक्त्वा क्षेत्रेष्वाश्रममध्यतः ॥

संप्राप्स्यसि निजं स्थानं तत्क्षेत्रस्य प्रभावतः

॥३२॥

तक्षक उवाच

एषा मम प्रिया कांता त्वया शापेन योजिता ॥

या सा भवतु मे भार्या मानुषत्वेऽपि वर्तिते

॥३३॥

एत त्कुरु प्रसादं मे दीनस्य परियाचतः ॥

माऽस्या भवतु चान्येन पुरुषेण समागमः

॥३४॥

भट्टिकोवाच

आनर्ताधिपतेरेषा भवित्री दुहिता शुभा ॥

ततः पाणिग्रहं प्राप्य भार्या तव भविष्यति

॥३५॥

क्षेमंकरीति विख्याता रूपयौवनशालिनी ॥

त्वया सार्धं बहून्भोगान्भुक्त्वाऽथ पृथिवीतले ॥

परलोके पुनस्त्वां वै चानुयास्यति शोभना

॥३६॥

सूत उवाच

एवं च स तया प्रोक्तः क्षम्यतामिति सादरम् ॥

प्रणिपत्य जगामाऽथ निजं स्थानं प्रहर्षितः

॥३७॥

साऽपि प्राप्ते निशाशेषे केदारस्य पुरः स्थिता ॥

पुनश्चक्रे च तद्गीतं श्रुतिसौख्यकरं परम्

॥३८॥

अथ तस्य समायाताः केदारस्य दिदृक्षवः ॥

पुनः केदारभक्त्याढ्या ब्राह्मणाः शतशः परम्

॥३९॥

ते तां दृष्ट्वा समायातां भट्टिंकां तां द्विजोद्भवाम् ॥

विस्मयेन समायुक्ताः पप्रच्छुस्तदनंत रम्

॥४०॥

कोऽसौ ब्राह्मणरूपेण नागः प्राप्तः सुशोभने ॥

तेन त्वं कुत्र नीतासि किमर्थं च वदस्व नः

॥४॥

कस्मात्पुनः प्रमुक्ताऽसि सर्वं वद यथातथम् ॥

अत्र नः कौतुकं जातं सुमहत्तव कारणात्

॥४२॥

सूत उवाच

ततः सा कथयामास सर्वं तक्षकसंभवम् ॥

वृत्तांतं नागसंभूतं शापानुग्रहजं तथा

॥४३॥

एतस्मिन्नंतरे प्राप्तं सर्वं तस्याः कुटुम्बकम् ॥

रोरूयमाणं दुःखार्तं श्रुत्वा तां तत्र चागताम्

॥४४॥

अथ सा जननी तस्या वाष्प पर्याकुलेक्षणा ॥

सस्वजे तां तथा चान्याः सख्यः स्निग्धेन चेतसा

॥४५॥

ततो निन्युर्गृहं स्वं च शृण्वंतश्च मुहुर्मुहुः ॥

नागलोकोद्भवां वार्तां विस्य याविष्टचेतसः

॥४६॥

अथ तत्र पुरे पौराः सर्वे प्रोचुः परस्परम् ॥

अयुक्तं कृतमेतेन ब्राह्मणेन दुरात्मना

॥४७॥

यदानीता सुतरुणी परहर्म्योषिता तया? ॥

अन्येषामपि विप्राणां संति नार्यो ह्यनेकशः

॥४८॥

तरुण्यो रूपवत्यश्च वैधव्येन समन्विताः ॥

तासामपि च सर्वासामेष न्यायो भविष्यति ॥

योनिसंकरजो नूनं तस्मान्निर्वास्यतामिति

॥४९॥

एकीभूय ततः सर्वे ब्राह्मणं तं द्विजोत्तमाः ॥

सामपूर्वमिदं वाक्यं प्रोचुः शास्त्र समुद्भवम्

॥५०॥

एषा तव सुता विप्र तरुणी रूपसंयुता ॥

सानुरागेण नागेण पाताले च समाहृता

॥५१॥

तद्वक्ष्यति प्रमुक्ताहं निर्दोषा तेन रागिणा ॥

न श्रद्धां याति लोकोऽयं शुद्धैषा समुदाहृता ५२ ॥

तस्माच्छुद्धिं द्विजेद्राणां प्रयच्छतु द्विजोत्तम ॥

येनान्येषामपि प्राज्ञ विनश्यंति न योषितः

॥५३॥

बाढमित्येव स प्रोक्त्वा ततस्तां विजने सुताम् ॥

पप्रच्छ यदि ते दोषः कश्चिदस्ति प्रकीर्तय

॥५४॥

नो चेत्प्रयच्छ संशुद्धिं ब्राह्मणानां प्रतुष्टये

॥५५॥

भट्टिकोवाच

युक्तमुक्तं त्वया तात तथान्यैरपि च द्विजैः ॥

युक्ता स्याद्योषितः शुद्धिर्द्वारातिक्रमणादपि

॥५६॥

किं पुनः परदेशं च गताया रागिणा सह ॥

तस्मादहं न संदेहः प्रातः स्नाता हुताशनम्

॥५७॥

प्रविश्य सर्वविप्राणां शुद्धिं दास्याम्य संशयम् ॥

अहमत्र च पानं च यच्चान्यदपि किंचन ॥

प्राशयिष्यामि संप्राप्य शुद्धिं चैव हुताशनात्

॥५८॥

एवमुक्तस्तया सोऽथ हर्षेण महतान्वितः ॥

प्रातरुत्थाय दारूणि पुरबाह्ये न्ययोजयत्

॥५९॥

भट्टिकाऽपि ततः स्नात्वा शुक्लांबरधरा शुचिः ॥

सर्वैः परिजनैः सार्धं तथा निज कुटुंबकैः

॥६०॥

प्रसन्नवदना हृष्टा विष्णुध्यानपरायणा ॥

जगाम तत्र यत्रास्ते सुमहान्दारुपर्वतः

॥६१॥

ततो वह्निं समाधाय स्वयं तत्र द्विजोत्तमाः ॥

प्रदक्षिणात्रयं कृत्वा प्राह चैव कृतांजलिः ॥

यदि मेऽस्ति क्वचिद्दोषः कामजोऽल्पोऽपि गात्रके ॥

कृतो वाऽपि बलात्तेन तक्षकेण दुरात्मना

॥६३॥

अन्येनापि च केनापि भविष्यत्यथवा परः ॥

तस्मात्प्रदहतु क्षिप्रं समिद्धोऽयं हुताशनः ॥

६४ एवमुक्त्वाऽथ सा साध्वी प्रविष्टा निजहर्म्यवत् ॥

सुसमिद्धो हुतो वह्निर्जातो जलमयः क्षणात्

॥६५॥

सा च पश्यति चात्मानं जलमध्यगतां शुभा ।

८० पपाताऽथ महावृष्टिः कुसुमानां नभस्तलात्

॥६६॥

देवदूतो विमानस्थ इदं वाक्यमुवाच ह ॥

शुद्धासि त्वं महाभागे चारित्रै र्निजगात्रजैः

॥६७॥

न त्वया सदृशी चान्या काचिन्नारी भविष्यति ॥

तिस्रः कोट्योर्धकोटी च यानि लोमानि मानुषे ॥

प्रभवंति महाभागे सर्वगात्रेषु सर्वदा ॥

तेषां मध्ये न ते साध्वि पापमेकमपि क्वचित् ।

तस्माच्छीघ्रं ग्रहं गच्छ निजं बांधवसंयुता

॥६९॥

कुरु कृत्यानि पुण्यानि समाराधय केशवम् ॥

एतच्चैव चितेः स्थानं त्वदीयं जलपूरितम्

॥७०॥

तव नाम्ना सुविख्यातं तीर्थं लोके भविष्यति ॥

येऽत्र स्नानं करिष्यंति शयने बोधने हरेः

॥७१॥

ते यास्यंति परां सिद्धिं दुष्प्राप्या याऽमरैरपि ॥

उक्त्वैवं विरता वाणी देवदूतसमुद्भवा

॥७२॥

भट्टिका तु ततो हृष्टा प्रणम्य जनकं निजम् ॥

नाहं गृहं गमिष्यामि किं करिष्याम्यहं गृहे

॥७३॥

अत्रैवाराधयिष्यामि निजतीर्थे सदाऽच्यु तम् ॥

तथा तपः करिष्यामि भिक्षान्नकृतभोजना

॥७४॥

तस्मात्तात गृहं गच्छ स्थिताऽहं चाग्र संश्रये

॥७५॥

ततः स जनकस्तस्यास्ते वाऽपि पुरवासिनः ॥

संप्रहृष्टा गृहं जग्मुः शंसतस्तां पृथक्पृथक्

॥७६॥

तया त्रैविक्रमी तत्र प्रतिमा प्राग्विनिर्मिता ॥

पश्चान्माहेश्वरं लिंगं कृत्वा प्रासादमुत्तमम्

॥७७॥

ततः परं तपश्चक्रे भिक्षान्नकृतभोजना ॥

शस्यमाना जनैः सर्वैश्चमत्कारपुरोद्भवैः

॥७८॥

सूत उवाच

एतद्वः सर्वमाख्यातं यत्पृष्टोऽस्मि द्विजोत्तमाः ॥

यथा तस्या दृढं कायमभेद्यं संस्थितं सदा

॥७९॥

सर्पाणां च तथाऽन्येषां शस्त्रादीनामपि द्विजाः ॥

यश्चैतत्पठते नित्यं भट्टिकाख्यानमुत्तमम् ॥

नापवादो भवेत्तस्य कुकृतो द्विजसत्तमाः

॥८०॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखंडे हाटकेश्वरक्षेत्रमाहात्म्ये भट्टिकातीर्थोत्पत्तिमाहात्म्यकथनंनाम सप्तदशोत्तरशततमोऽध्यायः ॥ ११७ ॥