मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — नागरखण्डः, अध्याय ११५

3
नागरखण्डः · 115

भर्तृयज्ञकृतयज्ञविधानमुनिगोत्रवर्णनम्

त्रिजातो ब्राह्मणस्तत्र किन्नामा कस्य सम्भवः ॥

किंगोत्रश्चैव किंसंज्ञः कीर्तयस्व महामते

॥१॥

किं कुलीनैर्गुणाढ्यैर्वा तेजोविद्याविचक्षणैः ॥

त्रिजातोऽपि वरं सोऽपि स्वं स्थानं येन चोद्धृतम्

॥२॥

सूत उवाच

सांकृत्यस्य मुनेर्वंशे स संभूतो द्विजोत्तमः ॥

प्रभाव इति विख्यातो दत्तसंज्ञो निमेः सुतः

॥३॥

स एवं स्थानमुद्धृत्य चकारायतनं शुभम् ॥

त्रिजातेश्वरनाम्ना च देवदेवस्य शूलिनः

॥४॥

तमाराध्य दिवा नक्तं सम्यक्छ्रद्धासमन्वितः ॥

सशरीरो गतः स्वर्गं ततः कालेन केनचित्

॥५॥

यस्तं पश्यति सद्भक्त्या स्नापयेद्विषुवे सदा ॥

न त्रिजातः कुले तस्य कथञ्चिदपि जायते

॥६॥

ऋषय ऊचुः

यानि गोत्राणि नष्टानि यानि संस्थापितानि च ॥

नामतस्तानि नो ब्रूहि तत्पुरं सूत नन्दन

॥७॥

सूत उवाच

तत्रोपमन्युगोत्रा ये क्रौंचगोत्रसमुद्भवाः ॥

कैशोर्यं गोत्रसंभूतास्त्रैवणेया द्विजोत्तमः ८ ॥

ते भूयोऽपि न संप्राप्ता यथा गोत्रचतुष्टयम् ॥

तत्पूर्वकं शुकादीनां यन्नष्टं नागजाद्भयात्

॥९॥

शेषान्वः संप्रवक्ष्यामि ब्राह्मणान्गोत्रसंभवान् ॥

कौशिकान्वयसं भूताः षड्विंशतिश्च ते स्मृताः

॥१०॥

कश्यपान्वयसंभूताः सप्ताशीतिर्द्विजोत्तमाः ॥

लक्ष्मणान्वयसंभूता एकविंशतिरागताः

॥११॥

तत्र नष्टाः पुनः प्राप्तास्तस्मिन्स्थाने सुदुःखिताः ॥

भारद्वाजास्त्रयः प्राप्ताः कौंडनीयाश्चतुर्दश

॥१२॥

रैतिकानां तथा विंशत्पाराशर्याष्टकं तथा ॥

गर्गाणां च द्विविंशं च हारीतानां विविंशतिः

॥१३॥

और्वभार्गवगोत्राणां पञ्चविंशदुदाहृताः ॥

गौतमानां च षड्विंशमालूभायनविंशतिः

॥१४॥

मांडव्यानां त्रिविंशच्च बह्वृचानां त्रिविंशतिः ॥

सांकृत्यानां विशिष्टानां पृथक्त्वेन दशैव तु

॥१५॥

तथैवांगिरसानां च पंच चैव प्रकीर्तिताः ॥

आत्रेया दश संख्याताः शुक्लात्रेयास्तथैव च

॥१६॥

वात्स्याः पञ्च समाख्याताः कौत्साश्च नव सप्त वै ॥

शांडिल्या भार्गवाः पञ्च मौद्गल्या विंशतिः स्मृताः

॥७॥

बौधायनाः कौशलाश्च त्रिंशन्मात्राः प्रकीर्तिताः ॥

अथर्वाः पंचपंचाशन्मौनसाः सप्तसप्ततिः

॥८॥

याजुषास्त्रिंशतिः ख्याताश्च्यावनाः सप्त विंशतिः ॥

आगस्त्याश्च त्रयस्त्रिंशज्जैमिनेया दशैव तु

॥१९॥

नैवृताः पंचपंचाशत्पाठीनाः सप्ततिर्द्विजाः ॥

गोभिलाश्चापि काक्वाश्च पंचपंच द्विजाः स्मृताः

॥२॥

औशनसाश्च दाशार्हास्त्रयस्त्रय उदाहृताः ॥

लोकाख्यानां तथा षष्टिरैणिशानां द्विसप्ततिः

॥२१॥

कापिष्ठलाः शार्कराख्या दत्ताख्याः सप्तसप्ततिः ॥

शार्कवानां शतं प्रोक्तं दार्ज्यानां सप्तसप्ततिः

॥२२॥

कात्यायन्यास्त्रयोऽधिष्ठा वैदिशाश्च त्रयः स्मृताः ॥

कृष्णात्रेयास्तथा पंच दत्तात्रेया स्तथैव च

॥२३॥

नारायणाः शौनकेया जाबालाः शतसंख्यया ॥

गोपाला जामदन्याश्च शालिहोत्राश्च कर्णिकाः

॥२४॥

भागुरायणकाश्चैव मातृकास्त्रैणवास्तथा ॥

सर्वे ते ब्राह्मणश्रेष्ठाः क्रमेण द्विजसत्तमाः

॥२५॥

एतेषामेव सर्वेषां सत्काराय द्विजोतमाः ॥

चत्वारिंशत्तथाष्टौ च पुरा प्रोक्ताः स्वयंभुवा

॥२६॥

ते सर्वे च पृथक्त्वेन निर्दिष्टाः पद्मयोनिना ॥

संध्यातर्पणकृत्यानि वैश्वदेवोद्भवानि च ॥

श्राद्धानि पक्षकृत्यानि पितृपिंडांस्तथैव च

॥२७॥

यज्ञोपवीतसंयुक्ताः प्रवराश्चैव कृत्स्नशः ॥

तथा मौंजीविशेषाश्च शिखाभेदाः प्रकीर्तिताः

॥२८॥

त्रिजातेन समाराध्य देवदेवं पितामहम् ॥

तेषां कृत्वा द्विजेद्राणामात्मकीर्तिकृते तदा

॥२९॥

ऋषय ऊचुः

कथं सन्तोषितो ब्रह्मा त्रिजातेन महात्मना ॥

कर्मकांडं कथं भिन्नं कृतं तेन महात्मना ॥

सर्वं विस्तरतो ब्रूहि परं कौतूहलं हि नः

॥३०॥

सूत उवाच

तस्यार्थे ब्राह्मणैः सर्वैस्तोषितः प्रपितामहः ॥

अनेनैवोद्धृतं स्थानमस्माकं सकलं विभो

॥३१॥

तस्मादस्य विभो यच्छ वेदज्ञानमनुतमम् ॥

येन कर्मविशेषाश्च जायतेऽत्र पुरोत्तमे

॥३२॥

एतस्य च गुरुत्वं च प्रसादात्तव पद्मज ॥

यथा भवति देवेश तया नीतिर्विधीयताम्

॥३३॥

ब्रह्मा ददौ ततस्तस्य मंत्रग्राममनुत्तमम् ॥

येन विज्ञायते सर्वं वेदार्थो यज्ञकर्म च

॥३४॥

ततः प्रोवाच तान्सर्वान्प्रहष्टेनातरात्मना ॥

एष वेदार्थसंपन्नो भविष्यति महायशाः

॥३५॥

भर्तृयज्ञ इति ख्यातो यज्ञकर्मविचक्षणः ॥

यदेव वक्ति युष्माकं क्रियाकांडमशंकितैः

॥३॥

तत्कार्यं स्वर्गमोक्षाय मम वाक्यात्प्रबोधितैः ॥

वेदार्थानेष सर्वेषां युष्माकं योजयिष्यति

॥३७॥

ये चान्येषु च देशेषु स्थानेषु च गताः क्वचित् ॥

एतत्स्थानं परित्यज्य सत्यमेतद्विजोत्तमाः

॥३८॥

वेदस्थाने च बुद्ध्यैष यत्कर्म प्रचरिष्यति ॥

नानृते वाथ पापे च वाणी चास्य चरिष्यति

॥३९॥

एवमुक्त्वा स देवेशो विरराम पितामहः ॥

भर्तृयज्ञोऽपि ताः सर्वाश्चक्रे यज्ञक्रियाः शुभाः

॥४०॥

ब्राह्मणानां हितार्थाय श्रुत्यर्थं तस्य केवलम् ॥

दशप्रमाणाः संप्रोक्ताः सर्वे ते ब्राह्मणोत्तमाः

॥४१॥

चतुःषष्टिषु गोत्रेषु ह्येवं ते ब्राह्मणोत्तमाः ॥

तेन तत्र समानीतास्त्रिजातेन महात्मना

॥४२॥

तेषामेकत्र जातानि दशपंचशतानि च ॥

सामान्य भोगमोक्षाणि तानि तेन कृतानि च

॥४३॥

अष्टषष्टिविभागेन पूर्वमायुव्ययोद्भवम् ॥

तत्रासीदथ गोत्रे च पुरुषाणां प्रसंख्यया

॥४४॥

ततः प्रभृति सर्वेषां सामान्येन व्यवस्थितम् ॥

त्रिजातस्य च वाक्येन येन दूरादपि द्रुतम्

॥४५॥

समागच्छंति विप्रेन्द्राः पुरवृद्धिः प्रजायते ॥

न कश्चिद्याति संत्यक्त्वा दौस्थ्यादन्यत्र च द्विजाः

॥४६॥

ततस्तेषां सुतैः पौत्रैर्नप्तृभिश्च सहस्रशः ॥

दौहित्रैर्भागिनेयैश्च भूयो भूरि प्रपूरितम्

॥४७॥

तत्पुरं वृद्धिमायाति दूर्वांकुरैरिव द्विजाः ॥

कांडात्कांडात्प्ररोहद्भिः संख्याहीनैरनेकधा

॥४८॥

सूत उवाच

एतद्वः सर्वमाख्यातं गोत्रसंख्यानकं शुभम् ॥

ऋषीणां कीर्तनं चापि सर्वपातकनाशनम्

॥४९॥

यश्चैतत्पठते नित्यं शृणुयाद्वा प्रभक्तितः ॥

न स्यात्तस्य कुलच्छेदः कदाचिदपि भूतले

॥५०॥

तथा विमुच्यते पापैराजन्ममरणोद्भवैः ॥

न पश्यति वियोगं च कदाचित्प्रियसंभवम्

॥५१॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्येऽष्टषष्टितीर्थोपाख्याने भर्तृयज्ञकृतयज्ञविधानमुनिगोत्रवर्णनंनाम पंचदशोत्तरशततमोऽध्यायः ॥ ११५ ॥