मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — नागरखण्डः, अध्याय ५२

3
नागरखण्डः · 52

रुद्रकोटिमाहात्म्यवर्णनम्

सूत उवाच

उमामहेश्वरौ तत्र स्थापितौ तेन भूभुजा ॥

प्रासादं परमं कृत्वा साधुदृष्टिसुखप्रदम्

॥१॥

तस्याग्रतः शुभं कुंडं तत्र चैव विनिर्मितम् ॥

स्वच्छोदकेन सम्पूर्णं पद्मिनीखंडमंडितम्

॥२॥

स्नात्वा तत्र नरो भक्त्या तौ पश्येद्यः समाहितः ॥

माघशुक्लचतुर्दश्यां न स भूयोऽत्र जायते

॥३॥

तस्यैव पूर्वदिग्भागेऽगस्त्यकुण्डसमीपतः ॥

अस्ति वापी महापुण्या सर्वपातकनाशिनी

॥४॥

तस्यां यः कुरुते स्नानं मासि वै फाल्गुने नरः ॥

सोपवासः सिताष्टम्यां वांछितं लभते च सः

॥५॥

तस्या दक्षिणदिग्भागे तत्रास्ति कपिला नदी ॥

कपिलो यत्र संप्राप्तः सिद्धिं सांख्यसमुद्भवाम्

॥६॥

कपिलायाश्च पूर्वेण सिद्धक्षेत्रं प्रकीर्तितम् ॥

यत्र सिद्धिं गताः सिद्धाः पुरा शत सहस्रशः

॥७॥

यो यं काममभिध्याय तपस्तत्र समाचरेत् ॥

षण्मासाभ्यंतरे नूनं स तमाप्नोति मानवः

॥८॥

तस्याधस्ताच्छिला विप्रा विद्यते वैष्णवी शुभा ॥

भ्रमन्ती चतुरस्रा च सर्वपातकनाशिनी

॥९॥

सदा महानदीतोयक्षालिता मुक्तिदा नृणाम् ॥

गंगायमुनयोर्मध्ये संनिविष्टा सरस्वती

॥१०॥

त्रिवेणी वहते तस्याः पुरतो भुक्तिमुक्तिदा ॥

तस्यामुपरि दग्धानां ब्राह्मणानां विशेषतः

॥११॥

नूनं मुक्तिर्भवेत्तेषां चिता भस्मनि गोष्पदम् ॥

दृश्यते तत्र तज्ज्ञात्वा संस्कार्या ब्राह्मणा मृताः

॥१२॥

तस्यैवोत्तरदिग्भागे रुद्रकोटिर्द्विजोत्तमाः ॥

अस्ति संपूजिता विप्रै र्दाक्षिणात्यैर्महात्मभिः

॥१३॥

महायोगिस्वरूपेण दाक्षिणात्या द्विजोत्तमाः ॥

चमत्कारपुरे क्षेत्रे श्रुत्वा स्वयमुमापतिम्

॥१४॥

ततः कौतूहलाविष्टाः श्रद्धया परया युताः ॥

कोटिसंख्या द्रुतं जग्मुस्तस्य दर्शनवांछया

॥१५॥

अहंपूर्वमहंपूर्वं वीक्षयिष्यामि तं हरम् ॥

इति श्रद्धासमो पेताश्चक्रुस्ते शपथं गताः

॥१६॥

एतेषां मध्यतो यस्तं महायोगिनमीश्वरम् ॥

चरमं देवमीक्षेत भविष्यति स पापकृत्

॥१७॥

ततस्तेषामभिप्रायं ज्ञात्वा देवो महेश्वरः ॥

भक्तिप्रीतो हितार्थाय कोटिरूपैर्व्यवस्थितः

॥१८॥

हेलया दर्शनं प्राप्तः सर्वेषां द्विजसत्तमाः ॥

ततः प्रभृति तत्स्थानं रुद्रकोटीतिविश्रुतम्

॥१९॥

तदर्थं पठितः श्लोको नारदेन पुरा द्विजाः ॥

रुद्रावर्तं समालोक्य प्रहृष्टेन द्विजोत्तमाः

॥२०॥

आषाढीं कार्तिकीं माघीं तथा चैत्रसमुद्भवाम् ॥

धन्याः पृथिव्यां लप्स्यंते रुद्रावर्ते चतुर्दशीम्

॥२१॥

आजन्मशतसाहस्रं कृत्वा पापं नरः क्षितौ ॥

रुद्रावर्तं समालोक्य विपाप्मत्वं प्रपद्यते

॥२२॥

रुद्रावर्त्ते नरो गत्वा दृष्ट्वा योगेश्वरं हरम् ॥

शुक्लपक्षे चतुर्दश्यां विपाप्मा जायते ध्रुवम्

॥२३॥

यस्तत्र कुरुते श्राद्धं महायोगिपुरे द्विजाः ॥

रुद्रावर्ते स चाप्नोति फलं शतमखोद्भवम्

॥२४॥

उपवासपरो भूत्वा यः कुर्याद्रात्रिजागरम् ॥

कामगेन विमानेन स स्वर्गे याति मानवः

॥२५॥

तत्र यः कपिलां दद्याद्ब्राह्मणायाहिताग्नये ॥

स गणः स्यान्न संदेहो हरस्य दयितस्तथा

॥२६॥

षडक्षरं जपेद्यस्तु महायोगिपुरः स्थितः ॥

मंत्रं तस्य भवेच्छ्रेयः षङ्गुणं राजसूयतः

॥२७॥

यस्तस्य पुरतो भक्त्या जपेद्वा शतरुद्रियम् ॥

चतुर्णामपि वेदानां सोऽधीतानां भजेत्फलम्

॥२८॥

गीतं वा यदि वा नृत्यं तत्पुरः कुरुते नरः ॥

स सर्वेषां भजेच्छ्रेयो मखानां नात्र संशयः

॥२९॥

एवमुक्त्वा द्विजश्रेष्ठाः स मुनिर्ब्रह्मसंभवः ॥

विरराम ततो हृष्टस्तीर्थयात्रां गतो द्रुतम्

॥३०॥

इति श्रीस्कांदे महापुराण एकाशीति साहस्र्यां संहितायां षष्ठे नागरखंडे हाटकेश्वरक्षेत्रमाहात्म्ये रुद्रकोटिमाहात्म्यवर्णनंनाम द्विपञ्चाशत्तमोऽध्यायः ॥ ९२ ॥