मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — नागरखण्डः, अध्याय २२८

3
नागरखण्डः · 228

तथान्यच्च बिलद्वारि शयनार्थे व्यवस्थितम्

सूत उवाच

तथान्यच्च बिलद्वारि शयनार्थे व्यवस्थितम् ॥

दृष्ट्वा प्रमुच्यते पापी देवं च जलशायिनम्

॥१॥

स्नात्वा तस्मिन्बिलद्वारे पवित्रे लोकसंश्रये ॥

यस्तं पूजयते भक्त्या शेषपर्यंकशायिनम् ॥

आजन्ममरणात्पापात्स च मुक्तिमवाप्नुयात्

॥२॥

चतुरो वार्षिकान्मासान्सुप्रसुप्तं सुरेश्वरम् ॥

संपूजयति यो भक्त्या न स भूयोऽत्र जायते

॥३॥

तत्र पूर्वं महाभागा मुनयः सेव्य तं प्रभुम् ॥

मृत्तिकाग्रहणं कृत्वा तस्य चायतने शुभे

॥४॥

संप्राप्ताः परमं स्थानं तद्रिष्णोः परमं पदम् ॥

यत्फलं सर्वतीर्थेषु सर्वयज्ञेषु यत्फलम् ॥

तत्फलं तस्य पूजायां चातुर्मास्यां प्रजायते

॥५॥

यत्फलं गोग्रहे मृत्युं संप्राप्ता यांति मानवाः ॥

तत्फलं चतुरो मासान्पूजया जलशायिनः

॥६॥

अपि पापसमाचारः परदाररतोऽपिच ॥

ब्रह्मघ्नोऽपि सुरापोऽपि स्त्रीहन्ताऽपि विगर्हितः ॥

पूजया चतुरो मासांस्तस्य देवस्य मुच्यते

॥७॥

ऋषय ऊचुः

यदेतद्भवता प्रोक्तं तत्रस्थं जलशायिनम् ॥

बिलद्वारे कथं सूत तत्र नः संशयो महान्

॥८॥

स किल श्रूयते देवः क्षीराब्धौ मधुसूदनः ॥

सदैव भगवाञ्छेते योगनिद्रां समाश्रितः

॥९॥

. कथं स भगवाञ्छेते बिलद्वारे व्यवस्थितः ॥

एतत्कीर्तय कार्त्स्न्येन परं कौतूहलं हि नः

॥१०॥

सूत उवाच

सत्यमेतन्महाभागाः क्षीराब्धौ मधुसूदनः ॥

योगनिद्रां गतः शेते शेषपर्यंकशा यकः

॥११॥

स यथा तत्र क्षेत्रे तु संश्रितो भगवान्स्वयम् ॥

जलशायिस्वरूपेण तच्छृशुध्वं समाहिताः १२ ॥

यथा च चतुरो मासान्पूजितस्तत्र संस्थितः ॥

मुक्तिं ददाति पुंसां स तथा संकीर्तयाम्यहम्

॥१३॥

चत्वारोऽपि यथा मासा गर्हणीया धरातले ॥

सर्वकर्मसु मुख्येषु यज्ञोद्वा हादिषु द्विजाः

॥१४॥

तद्वोऽहं कीर्तयिष्यामि नमस्कृत्य द्विजोतमाः ॥

तस्मै देवाधिदेवाय निर्गुणाय गुणात्मने

॥१५॥

अव्यक्तायाऽप्रमेयाय सर्वदेवमयाय च ॥

सर्वज्ञाय कवीशाय सर्वभूतात्मने तथा

॥१६॥

पुरासीद्दानवो रौद्रो हिरण्यकशिपुर्महान् ॥

नारसिंहं वपुः कृत्वा विष्णुना यो निपातितः

॥१७॥

तस्य पुत्रद्वयं जज्ञे सर्वलक्षणलक्षितम् ॥

प्रह्लादश्चांधकश्चैव वीर्येणाप्रतिमौ युधि

॥१९॥

हिरण्यकशिपौ प्राप्ते परं लोकं महासुरे ॥

अमात्यैरभिषेकाय प्रह्लादः स नियोजितः

॥१९॥

स नैच्छत तदा राज्यं पितृपैतामहं महत् ॥

समागतमपि प्राज्ञो यस्मात्तद्वो वदाम्यहम्

॥२०॥

दानवानां सदा द्वेषो देवेन सह चक्रिणा ॥

न करोति पुनर्द्वेषं तं समुद्दिश्य सर्वदा

॥२१॥

एतस्मात्कारणात्सर्वे तेन त्यक्ता दितेः सुताः ॥

स्वराज्यमपि संत्यज्य विष्णुस्तेन समाश्रितः

॥२२॥

ततस्तैर्दानवैः क्षुद्रैर्विष्णुद्वेषपरायणैः ॥

अन्धकः स्थापितो राज्ये पितृपैतामहे तदा

॥२३॥

अन्धकोऽपि समाराध्य देवदेवं चतुर्मुखम् ॥

अमरत्वं ततो लेभे यावच्चन्द्रार्कतारकम्

॥२४॥

वरपुष्टस्ततः सोऽपि चक्रे शक्रेण विग्रहम्

॥२५॥

जित्वा शक्रं महासंख्ये यज्ञांशाञ्जगृहे स्वयम् ॥

गत्वाऽमरावतीं दैत्यो निःसार्य च शतक्रतुम् ॥

स्ववर्गेण समोपेतः स्वर्गं समहरत्तदा

॥२६॥

शक्रोऽपि च समाराध्य शंकरं लोकशंकरम् ॥

सर्वदेवसमोपेतो भृत्यवत्परिवर्तते

॥२७॥

ततः कालेन महता तस्य तुष्टः पिनाकधृक् ॥

तं प्राह वरदोऽस्मीति वद शक्र करोमि किम्

॥२८॥

इन्द्र उवाच

अंधकेन हृतं राज्यं मम वीर्यात्सुरेश्वर ॥

यज्ञभागैः समोपेतं हत्वाऽऽशु तत्प्रयच्छ मे

॥२९॥

तच्छ्रुत्वा तस्य दीनस्य भगवाञ्छशिशेखरः ॥

प्रोवाच तव दास्यामि राज्यं त्रैलोक्यसंभवम्

॥३०॥

ततः संप्रेषयामास दूतं तस्य विचक्षणम् ॥

गणेशं वीरभद्राख्यं गत्वा तं ब्रूहि चांधकम्

॥३१॥

ममादेशात्परित्यज्य स्वर्गं गच्छ धरातलम् ॥

पितृपैतामहं स्थानं राज्यं तत्र समाचर

॥३२॥

परित्यजस्व यज्ञांशान्नो चेद्धंतास्मि सत्वरम् ॥

स गत्वा चांधकं प्राह यथोक्तं शंभुना स्फुटम्

॥३३॥

सविशेषमहाबुद्धिः स्वामिकार्यप्रसिद्धये ॥

अथ तं चाधकः प्राह प्रविहस्य महाबलः

॥३४॥

अवध्यो हि यथा दूतस्तेन त्वां न निहन्म्यहम् ॥

क स्याद्वै शंकरोनाम यो मामेवं प्रभाषते

॥३५॥

न मां वेत्ति स किं मूढः किं वा मृत्यु मभीप्सते

॥३६॥

अथवा सत्यमेवैतान्निर्विण्णो जीविताच्च सः ॥

दरिद्रोपहतो नित्यं सर्वभोगविवर्जितः

॥३७॥

स्मशाने क्रीडनं यस्य भस्म गात्रविलेपनम् ॥

भूषणं चाहयो वस्त्रं दिशो यस्य जटालका

॥३८॥

कस्तस्य जीवितेनार्थस्तेनेदं मां ब्रवीति सः ॥

तस्माद्गत्वा द्रुतं ब्रूहि मद्वाक्यं दूत सस्फुटम्

॥३९॥

त्यक्त्वा कैलासमेनं त्वं वाराणस्यां तपः कुरु ॥

मया स्थानमिदं दत्तं कैलासं स्वसुतस्य च

॥४०॥

वृकस्यापि न सन्देहो विभवेन समन्वितम् ॥

नो चेत्प्राणान्हरिष्यामि सेंद्रस्य तव शंकर

॥४१॥

तच्छ्रुत्वा वीरभद्रस्तु निर्भर्त्स्य च मुहुर्मुहुः ॥

क्रोधेन महताविष्टः कैलासं समुपाविशत्

॥४२॥

ततः स कथयामास तद्वाक्यं च पिनाकिनः ॥

अतिक्रूरं विशेषेण तत क्रुद्धः पिनाकधृक्

॥४३॥

इति श्रीस्कान्दे महा पुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये जलशाय्युपाख्याने ब्रह्मदत्तवरप्रदानोद्धतान्धकासुरकृतशंकराज्ञाव माननवर्णनंनामाष्टाविंशत्युत्तरद्विशततमोऽध्यायः ॥ २२८ ॥