मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — नागरखण्डः, अध्याय १०२

3
नागरखण्डः · 102

लक्ष्मणादिप्रासादपञ्चकनिर्माणप्रतिष्ठापनवर्णनम्

सूत उवाच

संप्रस्थितस्य रामस्य स्वकीयं सदनं प्रति ॥

यदाश्चर्यमभून्मार्गे श्रूयतां द्विजसत्तमाः

॥१॥

नभोमार्गेण गच्छत्तद्विमानं पुष्पकं द्विजाः ॥

अकस्मादेव सञ्जातं निश्चलं चित्रकृन्नृणाम्

॥२॥

अथ तन्निश्चलं दृष्ट्वा पुष्पकं गगनांगणे ॥

रामो वायुसुतस्येदं वचनं प्राह विस्मयात् ॥

३ त्वं गत्वा मारुते शीघ्रं भूमिं जानीहि कारणम् ॥

किमेतत्पुष्पकं व्योम्नि निश्चलत्वमुपागतम्

॥४॥

कदाचिद्धार्यते नास्य गतिः कुत्रापि केनचित् ॥

ब्रह्मदृष्टिप्रसूतस्य पुष्पकस्य महात्मनः

॥५॥

बाढमित्येव स प्रोच्य हनूमान्धरणीतलम् ॥

गत्वा शीघ्रं पुनः प्राह प्रणिपत्य रघूत्तमम्

॥६॥

अत्रास्याधः शुभं क्षेत्रं हाटकेश्वर संज्ञितम् ॥

यत्र साक्षाज्जगत्कर्ता स्वयं ब्रह्मा व्यवस्थितः

॥७॥

आदित्या वसवो रुद्रा देववैद्यौ तथाश्विनौ ॥

तत्र तिष्ठन्ति ते सर्वे तथान्ये सिद्धकिन्नराः

॥८॥

एतस्मात्कारणान्नैतदतिक्रामति पुष्पकम् ॥

तत्क्षेत्रं निश्चलीभूतं सत्यमेतन्मयोदितम्

॥९॥

सूत उवाच

तस्य तद्वचनं श्रुत्वा कौतूहलसमवितः ॥

पुष्पकं प्रेरयामास तत्क्षेत्रं प्रति राघवः ॥

सर्वैस्तैर्वानरैः सार्धं राक्षसैश्च पृथग्विधैः ॥

अवतीर्य ततो हृष्टस्तस्मिन्क्षेत्रे समन्ततः

॥११॥

तीर्थमालोकयामास पुण्यान्यायतनानि च ॥

ततो विलोकयामास पितामहविनिर्मिताम् ॥

चामुण्डां तत्र च स्नात्वा कुण्डे कामप्रदायिनि

॥१२॥

ततो विलोकयामास पित्रा तस्य विनिर्मितम् ॥

रामः स्वमिव देवेशं दृष्ट्वा देवं चतुर्भुजम्

॥१३॥

राजवाप्यां शुचिर्भूत्वा स्नात्वा तर्प्य निजान्पितॄन् ॥

ततश्च चिन्तयामास क्षेत्रे त्र बहुपुण्यदे

॥१४॥

लिंगं संस्थापयाम्येव यद्वत्तातेन केशवः ॥

तथा मे दयितो भ्राता लक्ष्मणो दिवमाश्रितः

॥१५॥

यस्तस्य नामनिर्दिष्टं लिंगं संस्थापयाम्यहम् ॥

तं चापि मूर्तिमंतं च सीतया सहितं शुभम् ॥

क्षेत्रे मेध्यतमे चात्र तथात्मानं दृषन्मयम्

॥१६॥

एवं स निश्चयं कृत्वा प्रासादानां च पंचकम् ॥

स्थापयामास सद्भक्त्या रामः शस्त्रभृतां वरः

॥१७॥

ततस्ते वानराः सर्वे राक्षसाश्च विशेषतः ॥

लिंगानि स्थापयामासुः स्वानिस्वानि पृथक्पृथक्

॥१८॥

तत्रैव सुचिरं कालं स्थितास्ते श्रद्धयाऽन्विताः ॥

ततो जग्मुरयोध्यायां विमानवरमाश्रिताः

॥१९॥

एतद्वः सर्वमाख्यातं यथा रामेश्वरो महान् ॥

लक्ष्मणेश्वरसंयुक्तस्तस्मिंस्तीर्थे सुशोभने

॥२०॥

यस्तौ प्रातः समुत्थाय सदा पश्यति मानवः ॥

स कृत्स्नं फलमाप्नोति श्रुते रामायणेऽत्र यत्

॥२१॥

अथाष्टम्यां चतुर्दश्यां यो रामचरितं पठेत् ॥

तदग्रे वाजिमेधस्य स कृत्स्नं लभते फलम्

॥२२॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये श्रीरामचन्द्रेण हाटकेश्वरक्षेत्रे लक्ष्मणादिप्रासादपञ्चकनिर्माणप्रतिष्ठापनवर्णनंनाम द्व्युत्तरशततमोऽध्यायः ॥ १०२ ॥