मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — नागरखण्डः, अध्याय २६२

3
नागरखण्डः · 262

ज्ञानयोगकथनम्

पार्वत्युवाच

ध्यानयोगमहं प्राप्य ज्ञानयोगमवाप्नुयाम् ॥

तथा कुरुष्व देवेश यथाहममरी भव

॥१॥

ईश्वर उवाच

१ प्रत्युक्तोऽयं मंत्रराजो द्वादशाक्षरसंज्ञितः ॥

जप्तव्यः सुकुमारांगि वेदसारः सनातनः

॥२॥

प्रणवः सर्ववेदाद्यः सर्वब्रह्मांडयाजकः ॥

प्रथमः सर्वकार्येषु सर्वसिद्धिप्रदायकः

॥३॥

सितवर्णो मधुच्छंदा ऋषिर्ब्रह्मा तु देवता ॥

परमात्मा तु गायत्री नियोगः सर्वकर्मसु

॥४॥

एतद्ब्रह्ममयं बीजं विश्वमत्र समन्वितम् १।

वेदवेदांग तत्त्वाख्यं सदसदूपमव्ययम्

॥५॥

नकारः पीतवर्णस्तु जलबीजः सनातनः ॥

बीजं पृथ्वी मनश्छन्दो विषहा विनियोगतः

॥६॥

मोकारः पृथिवी बीजो विश्वामित्रसमन्वितः ॥

रक्तवर्णो महातेजा धनदो विनियोजितः

॥७॥

भकारः पंचवर्णस्तु जलबीजः सनातनः ॥

मरीचिना समायुक्तः पूजितः सर्वभोगदः

॥८॥

गकारो हेमरक्ताभो भरद्वाजसमन्वितः ॥

वायुबीजो विनिर्योगं कुर्वतामादिभोगदः

॥९॥

वकारः कुन्दधवलो व्योमबीजो महाबलः ॥

ऋषिमंत्रिपुरस्कृत्य योजितो मोक्षदायकः ॥

१ तकारो विद्युद्विकारः सोमबीजं महत्स्मृतम् ॥

अंगिरावर्द्धमूलं च वर्जितं कर्मका मिकम् १

॥११॥

वाकारो धूम्रवर्णश्च सूर्यबीजं मनोजवम् ॥

पुलस्त्यर्षिसमायुक्तं नियुक्तं सर्वसौख्यदम् ।

सुकारश्चाक्षरो नित्यं जपाकुसुम भास्वरः ॥

मनो बीजं दुर्विषह्यं पुलहाश्रितमर्थिदम्

॥१३॥

देकाराक्षरकं बीजं हंसरूपं च कर्बुरम् ।

सिद्धिबीजं महासत्त्वं क्रतौ क्रतुनियोजितम्

॥१४॥

वाकारो निर्मलो नित्यं यजमानस्तु बीजभृत् ॥

प्रचेताश्रियमाश्रेयं मोक्षे मोक्षप्रदायकम्

॥१५॥

यकारस्य महाबीजं पिंगवर्णश्च खेचरी ॥

भूचरी च महासिद्धिः सर्वदा भूविचिन्तनम्

॥१६॥

भृगुयन्त्रे समाश्रांतिनियोगे सर्वकर्मकृत् ॥

गायत्रीछंद एतेषां देहन्यासक्रमो भवेत्

॥१७॥

ओंकारं सर्वदा न्यस्यन्नकारं पादयोर्द्वयोः ॥

मोकारं गुह्यदेशे तु भकारं नाभिपंकजे

॥१८॥

गकारं हृदये न्यस्य वकारः कण्ठ मध्यगः ॥

तेकारं दक्षिणे हस्ते वाकारो वामहस्तगः

॥१९॥

सुकारं मुखजिह्वायां देकारः कर्णयोर्द्वयोः ॥

वाकारश्चक्षुषोर्द्वन्द्वे यकारं मस्तके न्यसेत्

॥२०॥

लिंगमुद्रा योनिमुद्रा धेनुमुद्रा तथा त्रयम् ॥

सकलं कृतमेतद्धि मंत्ररूपे बिजाक्षरम्

॥२१॥

योजयेत्प्रत्यहं देवि न स पापैः प्रलिप्यते ॥

एतद्द्वादशलिंगारं कूर्मस्थं द्वादशाक्षरम्

॥२२॥

शालग्रामशिलाश्चैव द्वादशैव हि पूजिताः ॥

ताभिः सहाकरैरेभिः प्रत्यक्षैः सह संसदि

॥२३॥

यथावर्णमनुध्यानैर्मुनिबीजसमन्वितैः ॥

विनियोगेन सहितैश्छन्दोभिः समलंकृतैः

॥२४॥

ध्यानैजपैः पूजितैश्च भक्तानां मुनिसत्तम ॥

मोक्षो भवति बन्धेभ्यः कर्मजेभ्यो न संशयः

॥२५८॥

अयं हि ध्यानकर्माख्यो योगो दुष्प्राप्य एव हि ॥

ध्यानयोगं पुनर्वच्मि शृणुष्वैकाग्रमानसा

॥२६॥

ध्यानयोगेन पापानां क्षयो भवति नान्यथा ॥

जपध्यानमयो योगः कर्मयोगो न संशयः

॥२७॥

शब्दब्रह्मसमुद्भूतो वेदेन द्वादशाक्षरः ॥

ध्यानेन सर्वमाप्नोति ध्यानेनाप्नोति शुद्धताम्

॥२८॥

ध्यानेन परमं ब्रह्म मूर्त्तौ योगस्तु ध्यानजः ॥

सावलम्बो ध्यानयोगो यन्नारायणदर्शनम्

॥२९॥

द्वितीयो निखिलालम्बो ज्ञानयोगेन कीर्तितः ॥

अरूपमप्रमेयं यत्सर्वकायं महः सदा

॥३०॥

तडित्कोटिसमप्रख्यं सदोदितमखंडितम् ॥

निष्कलं सकलं वापि निरंजनमयं वियत्

॥३१॥

तत्स्वरूपं भोगरूपं तुर्यातीतमनोपमम् ॥

विभ्रांतकरणं मूर्तं प्रकृतिस्थं च शाश्वतम्

॥३२॥

दृश्यादृश्यमजं चैव वैराजं सततोज्ज्वलम् ॥

बहुलं सर्वजं धर्म्यं निर्विकल्पमनीश्वरम्

॥३३॥

अगोत्रं वरणं वापि ब्रह्मांडशतकारणम् ॥

निरीहं निर्ममं बुद्धिशून्यरूपं च निर्मलम्

॥३४॥

तदीशरूपं निर्देहं निर्द्वंद्वं साक्षिमात्रकम् ॥

शुद्धस्फटिकसंकाशं ध्यातृध्येयविवर्जितम् ॥

नोपमेयमगाधं त्वं स्वीकुरुष्व स्वतेजसा

॥३५॥

पार्वत्युवाच

तत्कथं प्राप्यते सम्यग्ज्ञानं योगिस्वरूपिणम् ॥

नारायणममूर्तं च स्थानं तस्य वद प्रभो

॥३६॥

ईश्वर उवाच

शिरः प्रधानं गात्रेषु शिरसा धार्यते महान्

॥३७॥

शिरसा पूजितो देवः पूजितं सकलं जगत् ॥

शिरसा धार्यते योगः शिरसा ध्रियते बलम्

॥३८॥

शिरसा ध्रियते तेजो जीवितं शिरसि स्थितम् ॥

सूर्यः शिरो ह्यमूर्त्तस्य मूर्तस्यापि तथैव च

॥३९॥

उरस्तु पृथिवीलोकः पादश्चैव रसातलम् ॥

अयं ब्रह्मांडरूपे च मूर्त्तामूर्त्तस्वरूपतः

॥४०॥

विष्णुरेव ब्रह्मरूपो ज्ञानयोगाश्रयः स्वयम् ॥

सृजते सर्वभूतानि पालयत्यपि सर्वशः

॥४१॥

विनाशयति सर्वं हि सर्वदेवमयो ह्ययम् ॥

सर्वमासेष्वाधिपत्यं यस्य विष्णोः सनातनम्

॥४२॥

तस्मात्सर्वेषु मासेषु सर्वेषु दिवसेष्वपि ॥

सर्वेषु यामकालेषु संस्मरन्मुच्यते हरिम्

॥४३॥

चातुर्मास्ये विशेषेण ध्यानमात्रात्प्रमुच्यते ॥

अमूर्त्तसेवनं गंगातीर्थध्यानाद्वरं परम्

॥४४॥

सर्वदानोत्तरं चैव चातुर्मास्ये न संशयः ॥

सर्वमासकृतं पापं चातुर्मास्ये शुभाशुभम्

॥४५॥

अक्षय्यं तद्भवेद्देवि नात्र कार्या विचारणा ॥

तस्मात्सर्वप्रयत्नेन ज्ञानयोगो बहूत्तमः

॥४६॥

सेवितो विष्णुरूपेण ब्रह्ममोक्षप्रदायकः ॥

शृणुष्वावहिता भूत्वा मूर्त्तामूर्ते स्थितिं शुभे

॥४०७॥

न कथ्येयं यस्य कस्य सुतस्याप्य परस्य च ॥

अदांतायाथ दुष्टाय चलचित्ताय दांभिके

॥४८॥

स्ववाक्च्युताय निंद्याय न वाच्या योगजा कथा ॥

नित्यभक्ताय दांताय शमादि गुणिने तथा

॥४९॥

विष्णुभक्ताय दातव्या शूद्रायापि द्विजन्मने ॥

अभक्तायाप्यशुचये ब्रह्मस्थानं न कथ्यते

॥५०॥

मद्भक्त्या योगसिद्धिं त्वं गृहाणाशु तपोधने ॥

अभूतं ज्ञानगम्यं तं विद्धि नारायणं परम्

॥५१॥

नादरूपेण शिरसि तिष्ठंतं सर्वदेहिनाम् ॥

स एव जीवशिरसि वर्त्तते सूर्यबिंबवत्

॥५२॥

सदोदितः सूक्ष्मरूपो मूर्त्तो मूर्त्या प्रणीयते ॥

अभ्यासेन सदा देवि प्राप्यते परमात्मकः

॥५३॥

शरीरे सकला देवा योगिनो निवसंति हि ॥

कर्णे तु दक्षिणे नद्यो निवसंति तथाऽपराः

॥५४॥

हृदये चेश्वरः शंभुर्नाभौ ब्रह्मा सनातनः ॥

पृथ्वी पादतलाग्रे जलं सर्वगतं तथा

॥५५॥

तेजो वायुस्तथाऽऽकाशं विद्यते भालमध्यतः ॥

हस्ते च पंच तीर्थानि दक्षिणे नात्र संशयः

॥५६॥

सूर्यो यद्दक्षिणं नेत्रं चन्द्रो वाममुदाहृतम् ॥

भौमश्चैव बुधश्चैव नासिके द्वे उदाहृते

॥५७॥

गुरुश्च दक्षिणे कर्णे वामकर्णे तथा भृगुः ॥

मुखे शनैश्चरः प्रोक्तो गुदे राहुः प्रकीर्तितः

॥५८॥

केतुरिंद्रियगः प्रोक्तो ग्रहाः सर्वे शरीरगाः ॥

योगिनो देहमासाद्य भुवनानि चतुर्दश

॥५९॥

प्रवर्त्तंते सदा देवि तस्माद्योगं सदाभ्यसेत् ॥

चातुर्मास्ये विशेषेण योगी पापं निकृन्तति

॥६०॥

मुहूर्त्तमपि यो योगी मस्तके धारयेन्मनः ॥

कर्णै पिधाय पापेभ्यो मुच्यतेऽसौ न संशयः

॥६१॥

अंतरं नैव पश्यामि विष्णोर्योगपरस्य वा ॥

एकोऽपि योगी यद्गेहे ग्रासमात्रं भुनक्ति च

॥६२॥

कुलानि त्रीणि सोऽवश्यं तारयेदात्मना सह ॥

यदि विप्रो भवेद्योगी सोऽवश्यं दर्शनादपि

॥६३॥

सर्वेषां प्राणिनां देवि पापराशि निषूदकः ॥

सक्रियो ब्रह्मनिरतः सच्छूद्रो योगभाग्यदि

॥६४॥

भवेत्सद्गुरुभक्तो वा सोऽप्यमूर्त्तफलं लभेत् ॥

यो योगी नियताहारः परब्रह्म समाधिमान्

॥६५॥

चातुर्मास्ये विशेषेण हरौ स लयभाग्भवेत् ॥

यथा सिद्धकरस्पर्शाल्लोहं भवति कांचनम्

॥६६॥

तथा मूर्त्तं हरिप्रीत्या मनुष्यो लयमाव्रजेत् ॥

यथा मार्गजलं गंगापतितं त्रिदशैरपि

॥६७॥

सेवितं सर्वफलदं तथा योगी विमुक्तिदः ॥

यथा गोमयमात्रेण वह्निर्दीप्यति सर्वदा

॥६८॥

देवतानां मुखं तद्धि कीर्त्यते याज्ञिकैः सदा ॥

एवं योगी सदाऽभ्यासाज्जायते मोक्षभाजनम्

॥६९॥

योगोऽयं सेव्यते देवि ज्ञानासिद्धिप्रदः सदा ॥

सनकादिभिराचार्यैर्मुमुक्षुभिरधीश्वरैः

॥७०॥

प्रथमं ज्ञानसंपत्तिर्जायते योगिनां सदा ॥

तेषां गृहीतमात्रस्तु योगी भवति पार्वति

॥७१॥

ततस्तु सिद्धयस्तस्य त्वणिमाद्याः पुरोगताः ॥

भवन्ति तत्रापि मनो न दद्याद्योगिनां वरः

॥७२॥

सर्वदानक्रतुभवं पुण्यं भवति योगतः ॥

योगात्सकलकामाप्तिर्न योगाद्भुवि प्राप्यते

॥७३॥

योगान्न हृदयग्रंथिर्न योगान्ममता रिपुः ॥

न योगसिद्धस्य मनो हर्त्तुं केनापि शक्यते

॥७४॥

स एव विमलो योगी यच्चित्तं शिरसि स्थितम् ॥

स्थिरीभूतव्यथं नित्यं दशमद्वारसंपुटे

॥७५॥

कणौं पिधाय मर्त्यस्य नादरूपं विचिन्वतः ॥

तदेव प्रणवस्याग्रं तदेव ब्रह्म शाश्वतम्

॥७६॥

तदेवानंतरूपाख्यं तदेवामृतमुत्तमम् ॥

घ्राणवायौ प्रघोषोऽयं जठराग्नेर्महत्पदम्

॥७७॥

पंचभूतं निवासं यज्ज्ञानरूपमिदं पदम् ॥

पदं प्राप्य विमुक्तिः स्याज्जन्मसंसारबंधनात्

॥७८॥

यदाप्तिर्दुलभा लोके योगसिद्धिप्रदायिका

॥७९॥

एवं ब्रह्ममयं विभाति सकलं विश्वं चरं स्थावरं विज्ञानाख्यमिदं पदं स भगवान्विष्णुः स्वयं व्यापकः ॥

ज्ञात्वा तं शिरसि स्थितं बहुवरं योगेश्वराणां परं प्राणी मुंचति सर्पवज्जगतिजां निर्मोकमायाकृतिम्

॥८०॥

इति श्रीस्कांदे महापुराण एकाशीति साहरस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये शेषशाय्युपाख्याने ब्रह्मनारदसंवादे चातुर्मास्यमाहात्म्ये ज्ञानयोगकथनं नाम द्विषष्ट्युत्तरद्विशततमोऽध्यायः ॥ २६२ ॥