मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — नागरखण्डः, अध्याय २४२

3
नागरखण्डः · 242

चातुर्मास्यमाहात्म्येऽष्टादशप्रकृतिकथनम्

ऋषय ऊचुः

नारद उवाच

अष्टादश प्रकृतयः का वदस्व पितामह ॥

वृत्तिस्तासां च को धर्मः सर्वं विस्तरतो मम

॥१॥

ब्रह्मोवाच

मज्जन्माभूद्भगवतो नाभिपंकजकोशतः ॥

स्वकालपरिमाणेन प्रबुद्धस्य जगत्पतेः

॥२॥

ततो बहुतिथे काले केशवेन पुरा स्मृतः ॥

स्रष्टुकामेन विविधाः प्रजा मनसि राजसीः

॥३॥

अहं कमलजस्तत्र जातः पुत्रश्चतुर्मुखः ॥

उदरं नाभिनालेन प्रविश्याथ व्यलोकयम्

॥४॥

तत्र ब्रह्मांडकोटीनां दर्शनं मेऽभवत्पुनः ॥

विस्मयाच्चिंतयानस्य सृष्ट्यर्थमभिधावता

॥५॥

निर्गम्य पुनरेवाहं पद्मनालेन यावता ॥

बहिरागां विस्मृतं तत्सर्वं सृष्ट्यर्थकारणम्

॥६॥

पुनरेव ततो गत्वा प्रजाः सृष्ट्वा चतुर्विधाः ॥

नाभिनालेन निर्गत्य विस्मृतेनांतरात्मना

॥७॥

तदाहं जडवज्जातो वागुवाचाशरीरिणी ॥

तपस्तप महाबुद्धे जडत्वं नोचितं तव

॥८॥

दशवर्षसहस्राणि ततोऽहं तप आस्थितः ॥

पुनराकाशजा वाणी मामुवाचाविनश्वरा

॥९॥

वेदरूपाश्रिता पूर्वमाविर्भूता तपोबलात् ॥

ततो भगवताऽऽदिष्टः सृज त्वं बहुधा प्रजाः

॥१०॥

राजसं गुणमाश्रित्य भूतसर्गमकल्मषम् ॥

मनसा मानसी सृष्टिः प्रथमं चिंतिता मया

॥११॥

ततो वै ब्राह्मणा जाता मरीच्यादिमुनीश्वराः ॥

तेषां कनीयांस्त्वं जातो ज्ञानवेदांतपारगः

॥१२॥

कर्मनिष्ठाश्च ते नित्यं सृष्ट्यर्थं सततोद्यताः ॥

निर्व्यापारो विष्णुभक्त एकांतब्रह्मसेवकः

॥१३॥

निर्ममो निरहंकारो मम त्वं मानसः सुतः ॥

क्रमान्मया तु तेषां वै वेदरक्षार्थमेव च

॥१४॥

प्रथमा मानसी सृष्टिर्द्विजात्यादिर्विनिर्मिता ॥

ततोहमांगिकीं सृष्टिं सृष्टवांस्तत्र नारद

॥१५॥

मुखाच्च ब्राह्मणा जाता बाहुभ्यः क्षत्रिया मम ॥

वैश्या ऊरुसमुद्भूताः पद्भ्यां शूद्रा बभूविरे

॥१६॥

अनुलोमविलोमाभ्य ांक्रमाच्च क्रमयोगतः ॥

शूद्रादधोऽधो जाताश्च सर्वे पादतलोद्भवाः

॥१७॥

ताः सर्वास्तु प्रकृतयो मम देहांशसंभवाः ॥

नारद त्वं विजानीहि तासां नामानि वच्मि ते

॥१९॥

ब्राह्मणः क्षत्रियो वैश्यस्त्रय एव द्विजातयः ॥

वेदास्तपोऽध्ययनं च यजनं दानमेव च

॥१९॥

वृत्तिरध्यापनाच्चैव तथा स्वल्पप्रतिग्रहात् ॥

विप्रः समर्थस्तपसा यद्यपि स्यात्प्रतिग्रहे

॥२०॥

तथापि नैव गृह्णीयात्तपोरक्षा यतः सदा ॥

वेदपाठो विष्णुपूजा ब्रह्मध्यानमलोभता

॥२१॥

अक्रोधता निर्मलत्वं क्षमासारत्वमार्यता ॥

क्रियातत्परता दानक्रिया सत्यादिभिर्गुणैः

॥२२॥

भूषितो यो भवेन्नित्यं स विप्र इति कथ्यते ॥

क्षत्रियेण तपः कार्यं यजनं दानमेव च

॥२३॥

वेदपाठो विप्रभक्तिरेषां शस्त्रेण जीवनम् ॥

स्त्रीबालगोब्राह्मणार्थे भूम्यर्थे स्वामिसंकटे

॥२४॥

संप्रतिशरणं चैव पीडितानां च शब्दिते ॥

आर्तत्राणपरा ये च क्षत्रिया ब्रह्मणा कृताः

॥२५॥

धनवृद्धिकरो वैश्यः पशुपालः कृषीवलः ॥

रसादीनां च विक्रेता देवब्राह्मणपूजकः

॥२६॥

अर्थवृद्धिकरो व्याजा यज्ञकर्मादिकारकः ॥

दानमध्ययनं चेति वैश्यवृत्तिरुदाहृता

॥२७॥

एतान्येव ह्यमंत्राणि शूद्रः कारयते सदा ॥

नित्यं षड्दैवतं श्राद्धं हन्तकारोऽग्नि तर्पणम्

॥२८॥

देवद्विजातिभक्तिश्च नमस्कारेण सिद्ध्यति ॥

शूद्रोऽपि प्रातरुत्थाय कृत्वा पादाभिवंदनम्

॥२९॥

विष्णुभक्तिमयाञ्श्लोकान्पठन्विष्णुत्वमाप्नुयात् ॥

वार्षिकव्रतकृन्नित्यं तिथिवाराधिदैवतः

॥३०॥

अन्नदः सर्वजीवानां गृहस्थः शूद्र ईरितः ॥

अमंत्राण्यपि कर्माणि कुर्वन्नेव हि मुच्यते

॥३१॥

चातुर्मास्यव्रतकरः शूद्रोऽपि हरितां व्रजेत् ॥

शिल्पी च नर्तकश्चैव काष्ठकारः प्रजापतिः

॥३२॥

वर्धकिश्चित्रकश्चैव सूत्रको रजकस्तथा ॥

गच्छकस्तन्तुकारश्च चक्रिकश्चर्मकारकः

॥३३॥

सूनिको ध्वनिकश्चैव कौल्हिको मत्स्यघातकः ॥

औनामिकस्तु चंडालः प्रकृत्याष्टादशैव ते

॥३४॥

शिल्पिकः स्वर्णकारकश्च दारुकः कांस्यकारकः ॥

काडुकः कुम्भकारश्च प्रकृत्या उत्तमाश्च षट्

॥३५॥

खरवाह्युष्ट्रवाही हयवाही तथैव च ॥

गोपाल इष्टिकाकारो अधमाधमपञ्चकम्

॥३६॥

रजकश्चर्मकारश्च नटो बुरुड एव च ॥

कैवर्त्तमेदभिल्लाश्च सप्तैते अन्त्यजाः स्मृताः

॥३७॥

यो यस्य हीनो वर्णेन स चाष्टादशमो नरः ॥

सर्वासां प्रकृतीनां च उत्तमा मध्यमाः समाः

॥३८॥

भेदास्त्रयः समाख्याता विज्ञेयाः स्मृतिनिर्णयात् ॥

शिल्पिनः सप्त विज्ञेया उत्तमाः समुदाहृताः

॥३९॥

स्वर्णकृत्कंबुकश्चैव तन्दुलीपुष्पलावकः ॥

तांबूली नापितश्चैव मणिकारश्च सप्तधा

॥४०॥

न स्नानं देवताहोमस्तपोनियम एव च ॥

न स्वाध्यायवषट्कारौ न च शुद्धिर्विवाहिता

॥४१॥

एतासां प्रकृतीनां च गुरुपूजा सदोदिता ॥

विप्राणां प्राकृतो नित्यं दानमेव परो विधिः

॥४२॥

सर्वेषामेव वर्णानामाश्रमाणां महामुने ॥

सर्वासां प्रकृतीनां च विष्णुभक्तिः सदा शुभा

॥४३॥

इति ते कथितं सर्वं यथाप्रकृतिसंभवम् ॥

कथां शृणु महापुण्यां शूद्रः शुद्धिमगाद्यथा

॥४४॥

इदं पुराणं परमं पवित्रं विशुद्धधीर्यस्तु शृणोति वा पठेत् ॥

विधूय पापानि पुरार्जितानि स याति विष्णोर्भवनं क्रियापरः

॥४५॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये शेषशाय्युपाख्याने ब्रह्मनारदसंवादे चातुर्मास्यमाहात्म्येऽष्टादशप्रकृतिकथनंनाम द्विचत्वारिंशदुत्तरद्विशततमोऽध्यायः ॥ २४२ ॥