शिवगंगामाहात्म्यवर्णनम्
सूत उवाच
एवं संस्थाप्य गांगेयः पुण्यं देवचतुष्टयम् ॥
ततः संस्थापयामास गंगां त्रिपथगामिनीम्
॥१॥कूपिकायां महाभाग शिवलिंगस्य पूर्वतः ॥
ततः प्रोवाच तान्हृष्टः संपूज्य द्विजसत्तमान्
॥२॥अस्यां यः पुरुषः स्नानं कृत्वा मां वीक्षयिष्यति ॥
सर्वपापविनिर्मुक्तः शिवलोकं प्रयास्यति
॥३॥करिष्यति तथा यस्तु शपथं चात्र मानवः ॥
असत्यं यास्यति क्षिप्रं स यमस्य गृहं प्रति
॥४॥एवमुक्त्वा महाभागो भीष्मः कुरुपितामहः ॥
जगाम स्वपुरं तस्माद्धर्षेण महता वृतः
॥५॥सूत उवाच
तत्रासीच्छूद्रसंभूतः पौंड्रकोनाम नामतः ॥
बालभावे समं मित्रैः स क्रीडति दिवानिशम्
॥६॥हास्यभावाच्च मित्रस्य पुस्तकं तेन चोरितम् ॥
मित्रैः पृष्टः पौण्ड्रकः स प्राह नैव मया हृतम्
॥७॥पुस्तकं चैव युष्माकं चिन्तनीयं सदैव तत् ॥
भवद्भिर्यत्नमास्थाय दृश्यतां क्वापि पुस्तकम्
॥८॥कृताश्च शपथास्तत्र स्नात्वा भागीरथीजले ॥
अदुष्टचेतसा तेन दत्तं तत्पुस्तकं हृतम्
॥९॥पुनश्च रुचिरं हास्यं कृत्वा तेन समं बहु ॥
अथासावभवत्कुष्ठी तत्क्षणादेव गर्हितः
॥१०॥स त्यक्तो बांधवैः सर्वैः कलत्रैरपि वल्लभैः ॥
ततो वैराग्यमापन्नो भृगुपातं पपात सः
॥११॥जातश्च तत्प्रभावेन कुष्ठेन परिवर्जितः ॥
शास्त्रचौर्यकृताद्दोषान्मूकरूपः स हास्यकृत्
॥१२॥न कार्यः शपथस्तस्मात्तस्याग्रेऽपि लघुर्द्विजाः ॥
अपि हास्योपचारेण आत्मनः सुखमिच्छता
॥१३॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये शिवगंगामाहात्म्यवर्णनंनाम अष्टपञ्चाशत्तमोऽध्यायः ॥ ५८ ॥