देवासुरसंग्रामवर्णनम्
ऋषय ऊचुः
यदेतद्भवता प्रोक्तं तं मुनिं प्रति सूतज ॥
त्वया पुरा सुरार्थाय प्रपीतः पयसांनिधिः
॥१॥तत्त्वं सूतज नो ब्रूहि विस्तरेण महामते ॥
यथा तेन पुरा पीतो मुनिना पयसांनिधिः
॥२॥सूत उवाच
कालेया इति विख्याताः पुरा दानवसत्तमाः ॥
संभूताः सर्वदेवानां वीर्योत्साहप्रणाशकाः
॥३॥ततस्तैः पीडितं दृष्ट्वा विष्णुना प्रभविष्णुना ॥
त्रैलोक्यं शक्तियोगेन प्रोक्तो देवो महेश्वरः
॥४॥एतदीशान दैतेयैस्त्रैलोक्यं परिपीडितम् ॥
कालिकेयैर्महावीर्येस्तस्मात्कार्यो महाहवः ॥
अद्यैव तैः समं देव समासाद्य धरातलम्
॥५॥ततो विष्णुश्च रुद्रश्च सहस्राक्षः सुरैः सह ॥
शितशस्त्रधराः सर्वे संप्राप्ता धरणीतलम्
॥६॥अथ ते दानवाः सर्वे श्रुत्वा देवान्स- मागतान् ॥
युद्धार्थं सहसा जग्मुः संमुखाः कोपसंयुताः
॥७॥ततोऽभवन्महायुद्धं देवानां दानवैः सह ॥
त्रैलोक्यं कंपितं येन समस्तं भय विह्वलम्
॥८॥अथ कालप्रभोनाम दानवो बलगर्वितः ॥
स शक्रं पुरतो दृष्ट्वा वज्रोच्छ्रितकरं स्थितम् ॥
प्रोवाच प्रहसन्वाक्यं मेघगम्भीरनिःस्वनः
॥९॥मुंच वज्र सहस्राक्ष पश्यामि तव पौरुषम् ॥
चिरात्प्राप्तोऽसि मे दृष्टिं दिष्ट्या त्वं त्रिदिवेश्वरः
॥१०॥ततश्चिक्षेप संक्रुद्धस्तस्य वज्रं शतक्रतुः ॥
सोऽपि तल्लीलया धृत्वा जगृहे सव्यपाणिना
॥११॥ततः शक्रं समुद्दिश्य गदां गुर्वीं मुमोच सः ॥
सर्वायसमयीं रौद्रां यमजिह्वामिवापराम्
॥१२॥तया हतः सहस्राक्षो विसंज्ञो रुधिरप्लुतः ॥
ध्वजयष्टिं समाश्रित्य संनिविष्टो रथोपरि
॥१३॥अथ तं मातलिर्दृष्ट्वा विसंज्ञं वलघातिनम् ॥
प्राङ्मुखं च रथं चक्रे संस्मरन्सारथेर्नयम्
॥१४॥ततः पराङ्मुखीभूते रथे शक्रस्य संगरे ॥
दुद्रुवुर्भयसंत्रस्ताः सर्वे देवाः समंततः
॥१५॥आदित्या वसवो रुद्रा विश्वेदेवा मरुद्गणाः ॥
व्रीडां विहाय विध्वस्ताः पृष्ठदेशे शितैः शरैः
॥१६॥अथ भग्नं बलं दृष्ट्वा दानवैर्मधुसूदनः ॥
आरुह्य गरुडं तूर्णं कालप्रभमुपाद्रवत्
॥१७॥ततस्ते दानवाः सर्वे परिवार्य शितैः शरैः ॥
सम्यगाच्छादयामासुर्गर्जमाना मुहुर्मुहुः
॥८॥स तैराच्छादितो विष्णुः शुशुभे च समंततः ॥
सम्यक्पुलकितांगश्च रक्ताचल इवापरः
॥१९॥ततः शार्ङ्गविनिर्मुक्तैः शरैः कंकपतत्रिभिः ॥
छेदयित्वेषुजालानि दैतेयान्निजघान सः
॥२०॥ततो दैत्यगणाः सर्वे हन्यमाना सुरारिणा ॥
त्रातारं नाभ्यगच्छंत मृगाः सिंहार्दिता इव
॥२१॥एतस्मिन्नंतरे दैत्यः कालखंज इति स्मृतः ॥
स कोपवशमापन्नो वासुदेवमुपाद्रवत्
॥२२॥स हत्वा पञ्चभिर्बाणैर्वासुदेवं शिला शितैः ॥
जघान गरुडं क्रुद्धो दशभिर्नतपर्वभिः
॥२३॥ततः सुदर्शनं चक्रं तस्य दैत्यस्य माधवः ।
] प्रमुमोच वधार्थाय ज्वालामालासमावृतम्
॥२४॥सोऽपि तच्चक्रमालोक्य वासुदेवकराच्च्युतम् ॥
आगच्छंतं प्रसार्यास्यं ग्रस्तुं तत्संमुखो ययौ
॥२५॥अग्रसच्च महादैत्यस्तिष्ठतिष्ठेति चाब्रवीत् ॥
वासुदेवं समुद्दिश्य ततश्चिक्षेप सायकान्
॥२६॥ततश्चक्री स दैत्येन ग्रस्तचक्रेण ताडितः ॥
सुपर्णेन समायुक्तो जगाम विषमां व्यथाम्
॥२७॥एतस्मिन्नंतरे क्रुद्धो भगवांस्त्रिपुरांतकः ॥
दृष्ट्वा हरिं तथाभूतं शक्रं चापि पराङ्मुखम्
॥२८॥ततः शूलप्रहारेण तं निहत्य दनोः सुतम् ॥
शरैः पिनाकनिर्मुक्तैर्जघानोच्चैस्तथा परान्
॥२९॥कालप्रभं प्रकालं च कालास्यं कालविग्रहम् ॥
जघान भगवाञ्छंभुस्तथान्यानपि नायकान्
॥३०॥ततः प्रधानास्ते सर्वे दानवा अपिदारुणाः ॥
पलायनपरा जाता निरुत्साहा द्विषज्जये
॥३१॥ततः शक्रश्च विष्णुश्च लब्धसंज्ञौ धृतायुधौ ॥
श्लाघयंतौ महादेवं संस्थितौ रणमूर्धनि
॥३२॥एतस्मिन्नंतरे भग्नान्समुद्वीक्ष्य दनोः सुतान् ॥
जघ्नुः शरशतैः शस्त्रैः सर्वे देवाः सवासवाः
॥३३॥अथ ते हतभूयिष्ठा दानवा बलवत्तराः ॥
हन्यमानाः शितैर्बाणैस्त्रिदशैर्जितकाशिभिः
॥३४॥अगम्यं मनसा तेषां प्रविष्टा वरुणालयम् ॥
शस्त्रैश्च क्षतसर्वांगा हतनाथाः सुदुःखिताः
॥३५॥इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमा हात्म्येऽगस्त्याश्रममाहात्म्येऽगस्त्यकृतसमुद्रप्राशनवृत्तान्ते देवासुरसंग्रामवर्णनंनाम चतुस्त्रिंशोऽध्यायः ॥ ३४ ॥