ब्राह्मनागरोत्पत्तिवृत्तांतवर्णनम्
सूत उवाच
अथ ते नागराः सर्वे दृष्ट्वा तद्वित्तभाजनम् ॥
न केनापि ग्रहीतव्यं सर्वान्कामान्निरस्य च
॥१॥ततस्ते समयं कृत्वा समानीय च मध्यगम् ॥
तस्यास्येन ततः प्रोचुर्ब्रह्मस्थाने व्यवस्थि ताः
॥२॥अनेन लोभयुक्तेन तिरस्कृत्य द्विजोत्तमान् ॥
पुष्पवित्तमुपादाय प्रायश्चित्तं प्रकीर्तितम्
॥३॥तथा चैव तु षड्भागो गृहीतो विभवस्य च ॥
तस्मादेष समस्तानां बाह्यभूतो भविष्यति
॥४॥नागराणां द्विजेद्राणां यथान्यः प्राकृतस्तथा
॥५॥अद्यप्रभृति चानेन यः संबंधं करिष्यति ॥
सोऽपि बाह्यस्तु सर्वेषां नागराणां भविष्यति
॥६॥भोजनं वाथ पानीयं योऽस्य सद्मनि कर्हिचित् ॥
करिष्यति स चाऽप्येवं पतितः संभविष्यति
॥७॥एवमुक्त्वा ततस्तेन दत्तं तालत्रयं द्विजाः ॥
ब्रह्मस्थाने द्विजश्रेष्ठाः कृत्वा पुष्पसमं च तम्
॥८॥अथ ते ब्राह्मणाः सर्वे जग्मुः स्वंस्वं निवेशनम् ॥
चंडशर्मा स चोद्विग्नः पुष्पपार्श्वं तदा गतः
॥९॥एतेषामेव सर्वेषां संमतेन मया तव ॥
प्रायश्चित्तं तदा दत्तं तथा पि पतितः कृतः
॥१०॥तस्मादहं पतिष्यामि सुसमिद्धे हुताशने ॥
नैव जीवितुमिच्छामि स्वजनैः परिवर्जितः
॥११॥पुष्प उवाच
न विषादस्त्वया कार्यः कार्येऽस्मिद्विजसत्तम ॥
वित्तार्थं दूषितस्त्वंहि यतो ब्राह्मणसत्तमैः
॥१२॥नागरांस्तोषयिष्यामि तानहं विविधैर्धनैः ॥
याचयिष्यंति यन्मात्रं तव गात्रविशुद्धये
॥१३॥तावन्मात्रं प्रदास्यामि तेभ्यो हि तव कारणात् ॥
एवमुक्त्वा समागत्य ब्रह्मस्थानं त्वरान्वितः
॥१४॥चातुश्चरणमानीय मध्यगास्येन सोऽब्रवीत् ॥
चंडशर्मा द्विजो यश्च मदर्थे पतितः कृतः ॥
_ १५ ॥
युष्माभिर्वित्तलोभेन तद्वित्तं वो ददाम्यहम् ॥
समस्तं मद्गृहे यच्च क्रियतां वचनं द्विजैः
॥१६॥अथ ते कुपिताः प्रोचुः सर्व एव द्विजोत्तमाः ॥
सीत्कारान्विविधान्कृत्वा क्रोध संरक्तलोचनाः
॥१७॥धिग्धिक्पापसमाचार जिह्वा ते शतधा ततः ॥
किं न याति यदेवं त्वं प्रजल्पसि विगर्हितम्
॥१८॥पतितोऽयं कृतो ऽस्माभिर्नैव वित्तस्य कारणात् ॥
प्रायश्चित्तं यतो दत्तमेकेनापि दुरात्मना ॥
१९ स्मृतयो दूषितास्तेन पुराणानि विशेषतः ॥
स्थानं चैवास्म दीयं च कर्म चैतत्प्रकुर्वता
॥२०॥प्रायश्चित्तं प्रदातव्यं चतुर्भिरपरैः सह ॥
संमन्त्र्य मनुना प्रोक्तमेतदेव द्विजोत्तमाः
॥२१॥त्वदीयं पातकं चास्य शरीरेऽद्य व्यवस्थितम् ॥
एकाकिना यतो दत्तं तेनायं पतितः स्थितः
॥२२॥सूत उवाच
एवमुक्त्वा द्विजाः सर्वे जग्मुः स्वंस्वं निकेतनम् ॥
पुष्पोपि च समुद्विग्नो वैलक्ष्यं परमं गतः
॥२३॥जगामाथ निजावासं निःश्वसन्नुरगो यथा
॥२४॥ततः स चिन्तयामास यावन्नो साहसं कृतम् ॥
तावत्सिद्धिर्मनुष्याणां न कथंचित्प्रजायते
॥२५॥तस्मादहं करिष्यामि चण्डशर्मकृते महत् ॥
कृतघ्नता यथा न स्यात्प्रोक्तं चैव यतो बुधैः
॥२६॥ब्रह्मघ्ने च सुरापे च चौरे भग्नव्रते तथा ॥
निष्कृतिर्विहिता सद्भिः कृतघ्ने नास्ति निष्कृतिः
॥२७॥एवं निश्चित्य मनसा सूर्यवारेण सप्तमी ॥
यदाऽऽयाता द्विजश्रेष्ठास्तदा चाष्टोत्तरं शतम्
॥२८॥प्रदक्षिणाः कृतास्तेन पुष्पादित्यस्य धीमता ॥
तीक्ष्णं शस्त्रं समादाय पूर्वोक्तविधिना ततः ॥
छित्त्वाछित्त्वा निजांगानि जुहुयाज्जातवेदसि
॥२९॥ततः पूर्णाहुतिं यावत्कायशेषेण यच्छति ॥
तावत्प्रत्यक्षतां गत्वा स प्रोक्तो भास्वता स्वयम्
॥३०॥पुष्प मा साहसं कार्षीः परितुष्टोऽस्मि तेऽनघ ॥
भूय एव महाभाग ब्रूहि किं ते ददाम्यहम्
॥३१॥पुष्प उवाच
चण्डशर्मा द्विजेन्द्रोऽयं मदर्थे पतितः कृतः ॥
समस्तैर्नागरैर्देव तं तैर्नय समानताम्
॥३२॥शास्त्रं दृष्ट्वा प्रदत्तं मे प्रायश्चित्तं महात्मना ॥
तथापि दूषितः क्षुद्रैः समस्तैरसहिष्णुभिः
॥३३॥भगवानुवाच
एकस्यापि वचो नैव शक्यते कर्तुमन्यथा ॥
नागरस्य द्विजश्रेष्ठ समस्तानां च किं पुनः
॥३४॥परमेष द्विजः पूतश्चंडशर्मा भविष्यति ॥
ब्राह्मोऽयं नागरः ख्यातः समस्ते धरणीतले
॥३५॥एतस्य ये सुताश्चैव भविष्यंति धरातले ॥
विख्यातिं तेऽपि यास्यंति मान्याः पूज्या महीभृताम्
॥३६॥ये चापि बांधवा श्चास्य सुहृदश्च समागमम् ॥
करिष्यंति समं तेऽपि भविष्यंति सुशोभनाः
॥३७॥त्वं चापि मत्प्रसादेन संपूर्णांगो भविष्यसि
॥३८॥एवमुक्त्वा सहस्रांशुस्ततश्चादर्शनं गतः ॥
पुष्पोऽपि चाक्षतांगत्वं तत्क्षणात्समपद्यत
॥३९॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागररखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये ब्राह्मनागरोत्पत्तिवृत्तांतवर्णनंनाम त्रिषष्ट्युत्तरशततमोऽध्यायः ॥ १६३ ॥