मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — नागरखण्डः, अध्याय ३१

3
नागरखण्डः · 31

तथान्यदपि तत्रास्ति नागतीर्थमनुत्तमम्

सूत उवाच

तथान्यदपि तत्रास्ति नागतीर्थमनुत्तमम् ॥

यत्र स्नातस्य सर्पाणां न भयं जायते क्वचित्

॥१॥

तत्र श्रावणपञ्चम्यां यो नरः स्नानमाचरेत् ॥

कृष्णायां न भयं तस्य कुलेऽपि स्यादहेः क्वचित्

॥२॥

तत्र पूर्वं तपस्तप्तं मातुः शापप्रपीडितैः ॥

शेष प्रभृतिनागैस्तु मुक्तिहेतोर्हुताशनात्

॥३॥

कम्बलाश्वतरौ नागौ तथा ख्यातौ धरातले ॥

तत्र तप्त्वा तपस्तीव्रं संसिद्धिं परमां गतौ

॥४॥

अनंतो वासुकिश्चैव तक्षकश्च महावलः ॥

कर्कोटश्चैव नागेन्द्रो मणिकण्ठस्तथापरः

॥५॥

ऐरावतस्तथा शंखः पुण्डरीको महाविषः ॥

शेषपूर्वाः स्मृता नागा एतेऽत्र नव नायकाः

॥६॥

एतेषां पुत्रपौत्राश्च तेषामपि विभूतिभिः ॥

असंख्याभिरिदं व्याप्तं समस्तं धरणीतलम्

॥७॥

अथ ते कुटिला दुष्टा भक्षयंति सदा जनान् ॥

बहुत्वादपि संस्पर्शादपराधं विनापि च

॥८॥

ततः प्रजा इमाः सर्वा ब्रह्माणं शरणं गताः ॥

पीडिताः स्म सुरश्रेष्ठ सर्पेभ्यो रक्ष सत्वरम्

॥९॥

यावन्न शून्यतां याति सकलं वसुधातलम् ॥

व्याप्तं सर्वैस्ततः सर्पैर्विषाढ्यैरतिभीषणैः

॥१०॥

अथ तानब्रवीद्ब्रह्मा शेषाद्यान्नवनायकान् ॥

स्वसंततेः प्ररक्षध्वं भक्ष्यमाणा इमाः प्रजाः

॥११॥

ते तथेति प्रतिज्ञाय जग्मुः सर्वे भुजंगमाः

॥२॥

अथ तेषां बहुत्वाच्च नैव रक्षा प्रजायते ॥

वारिता अपि ते यस्मात्प्रकुर्वंति प्रजाक्षयम्

॥१३॥

ततः कोपपरीतात्मा तानाहूय कुलाधिपान् ॥

तानुवाच स्वयं ब्रह्मा सर्वदेवसमागमे

॥१४॥

भक्षयंति यतः सर्पा अपराधं विना प्रजाः ॥

वारिता अपि ते तस्मात्तान्निगृह्णामि सांप्रतम्

॥१५॥

भविष्यति महीपालो भूतले जनमेजयः ॥

चित्रभानुर्मखे तस्य सर्पान्संभक्षयिष्यति

॥६॥

मातुः शापाद्विशेषेण मंत्राकृष्टा द्विजोत्तमैः ॥

स्वयमेव पतिष्यंति सुसमिद्धे हुताशने

॥७॥

तच्छ्रुत्वा वेपमानास्ते सर्पाणां नवनायकाः ॥

प्रोचुः प्रांजलयः सद्यः प्रणिपत्य पितामहम्

॥१८॥

भगवन्कुटिला ज्ञातिरस्माकं भवता कृता ॥

तत्कस्मात्कुरुषे कोपं जातिधर्मानुवर्तिनाम्

॥९॥

ब्रह्मोवाच

यदि नाम मया सृष्टा यूयं दिष्ट्या विषोल्बणाः ०।

अपराधं विना कस्माद्भक्षयध्व इमाः प्रजाः

॥२०॥

नागा ऊचुः

मर्यादां कुरु देवेश अस्माकं मानवैः सह ॥

अथवा संप्रयच्छस्व स्थानं मानुषवर्जितम्

॥२१॥

पारिक्षितमखे तस्मिन्सर्पाणां चित्रभानुना ॥

समंताद्दह्यमानानां रक्षोपायं प्रचिंतय

॥२२॥

यथा न संततिच्छेदो जायते प्रपितामह ॥

अस्माकं सर्वलोकेषु तथा त्वं कर्तुमर्हसि

॥२३॥

ब्रह्मोवाच

जरत्कारुरिति ख्यातो भविष्यति क्वचिद्द्विजः ॥

स संतानकृते भार्यां भूमावन्वेषयिष्यति

॥२४॥

भाविनी च भवद्वंशे जरत्कन्या सुशोभना ॥

सा देया चादरात्तस्मै पुत्रार्थं वरवर्णिनी

॥२५॥

ताभ्यां यो भविता पुत्रः स शेषान्रक्षयिष्यति ॥

सर्पाञ्छुद्धसमाचारान्मर्यादासु व्यवस्थितान्

॥२६॥

सुतलं नितलं चैव तथैव वितलं च यत् ॥

तस्याधस्ताच्चतुर्थे च वसतिर्वो धरातले

॥२७॥

मया दत्तेऽतिरम्ये च सर्वभोगसमन्विते ॥

तस्माद्व्रजत तत्रैव परित्यज्य महीतलम्

॥२८॥

तत्र भुंजथ सद्भोगा न्गत्वाऽऽशु मम शासनात् ॥

पुत्रपौत्रसमोपेतांस्त्रिदशैरपि दुर्लभान्

॥२९॥

नागा ऊचुः

भोगानपि प्रभुंजाना न वयं तत्र पद्मज ॥

शक्नुमो वस्तुमुर्व्यां नस्तस्मात्स्थानं प्रदर्शय ॥

मर्यादया वर्तयामो यत्रस्था मानवैः समम्

॥३०॥

ब्रह्मोवाच

एषा तिथिर्मया दत्ता युष्माकं धरणीतले ॥

पंचमी शेषकालस्तु नेयस्तत्रं रसातले

॥३१॥

तत्रागतैर्न हंतव्या मानवा दोषवर्जिताः ॥

मंत्रसंरक्षितांगाश्च तथौषधिकृतादराः

॥३२॥

चमत्कारपुरे क्षेत्रे मया दत्ता स्थितिः सदा ॥

पृथिव्यां कुलमुख्यानां नागानां नागसत्तमाः

॥३३॥

सूत उवाच

एवमुक्ताश्च ते नागा ब्रह्मणा सत्वरं ययुः ॥

पातालं कुलमुख्याश्च तस्मिन्क्षेत्रे व्यवस्थिताः

॥३४॥

तत्र श्रावणपंचम्यां यस्तान्पूजयते नरः ॥

स प्राप्नोति नरोऽभीष्टं तेषामेव प्रसादतः

॥३५॥

तस्य वंशेऽपि सर्पाणां न भयं स्यान्न किल्बिषम् ॥

न रोगो नोपसर्गश्च न च भूतभयं क्वचित्

॥३६॥

अपुत्रस्तत्र यः श्राद्धं करोति सुतवांछया ॥

पुत्रं विशिष्टमासाद्य पितॄणामनृणो हि सः

॥३७॥

तथा वंध्या च या नारी पंचम्यां भास्करोदये ॥

श्रावणे कुरुते स्नानं कृष्णपक्षे विशेषतः ॥

सा सद्यो लभते पुत्रं स्ववंशोद्धरणक्षमम्

॥३८॥

सर्वरोगविनिर्मुक्तं सुरूपं विनयान्वितम् ॥

भ्रष्टराज्यो नरो यो वा तत्र स्नानं समाचरेत्

॥३९॥

ततः पूजयते नागाञ्छ्रावणे पंचमीदिने ॥

स हत्वाऽरिगणा न्सर्वान्भूयोराज्यमवाप्नुयात्

॥४०॥

येषां मृत्युर्मनुष्याणां जायते सर्पभक्षणात् ॥

न तेषां जायते मुक्तिः प्रेतभावात्कथंचन

॥४१॥

यावन्न क्रियते श्राद्धं तस्मिंस्तीर्थे द्विजोत्तमाः ॥

तस्मात्सर्वप्रयत्नेन मृतस्याहिप्रदंक्षणात् ॥

श्राद्धं कार्यं प्रयत्नेन तस्मिंस्तीर्थेऽहिसंभवे

॥४२॥

अत्र वः कीर्तयिष्यामि पुरावृत्तां कथां शुभाम् ॥

इन्द्रसेनस्य राजर्षेः सर्वपातकनाशिनीम्

॥४३॥

इन्द्रसेनो महीपालः पुरासीद्रिपुदर्पहा ॥

अश्वमेधसहस्रेण इष्टं तेन महात्मना

॥४४॥

ततः स दैवयोगेन प्रसुप्तः शयने शुभे ॥

दष्टः सर्पेण मुक्तश्च इन्द्रसेनो महीपतिः ॥

वियुक्तश्चैव सहसा जीवितव्येन तत्क्षणात्

॥४५॥

ततस्तस्य सुतोऽभीष्टस्तस्योद्देशेन कृत्स्नशः ॥

चकार प्रेतकार्याणि स्मृत्युक्तानि च भक्तितः

॥४६॥

गंगायामस्थिपातं च कृत्वा श्राद्धानि षोडश ॥

गयां गत्वा ततश्चक्रे श्राद्धं श्रद्धासमन्वितः

॥४७॥

अथ स्वप्नांतरे प्राप्तः पिता तस्य स भूपतिः ॥

प्रोवाच दुःखितः पुत्रं बाष्पव्याकुललोचनम्

॥४८॥

सर्पमृत्योः सकाशान्मे प्रेतत्वं पुत्र संस्थितम् ॥

तेन मे भवता दत्तं न किञ्चिदुपतिष्ठते

॥४९॥

चमत्कारपुरं क्षेत्रं तस्मात्त्वं गच्छ सत्वरम् ॥

तत्र तीर्थे कुरु श्राद्धं सर्पाणां मत्कृते सुत

॥५०॥

येन संजायते मोक्षः प्रेतत्वा द्दारुणान्मम ॥

स ततः प्रातरुत्थाय तत्स्मृत्वा नृपतेर्वचः

॥५१॥

प्रेतरूपस्य दुःखार्तस्तत्तीर्थं सत्वरं गतः ॥

चकार च ततः श्राद्धं श्रावणे पंच मीदिने

॥५२॥

स्नात्वा श्रद्धासमोपेतः संनिवेश्य पुरोधसम् ॥

ततः स दर्शनं प्राप्तो भूयोऽपि च यथा पुरा

॥५३॥

प्रे तरूपेण दुःखार्तो वाक्यमेतदुवाच ह ॥

न मयाऽऽसादितं किञ्चिद्यत्त्वया मत्कृते कृतम्

॥५४॥

फलं श्राद्धस्य चात्र त्वं कारणं शृणु पुत्रक ॥

श्राद्धार्हा ब्राह्मणाश्चात्र चमत्कारपुरोद्भवाः

॥५५॥

क्षेत्रेऽपि गर्हिताः श्राद्धे येऽन्यत्र व्यंगकादयः ॥

अत्र यत्क्रियते किञ्चिद्दानं वा व्रतमेव च

॥५६॥

तथान्यदपि विप्रार्हं कर्म यज्ञसमुद्भवम् ॥

तत्तेषां वचनात्सर्वं पूर्णं स्यादपि खंडितम् ॥

परोक्षे वापि संपूर्णं वृथा संजायते स्फुटम्

॥५७॥

तस्मादस्मात्पुराद्विप्रान्समानीय ततः परम् ॥

मम नाम्ना कुरु श्राद्धं येन मुक्तिः प्रजायते

॥५८॥

अथासौ प्रातरुत्थाय स्मरमाणः पितुर्वचः ॥

दुःखेन महताविष्टः प्रविवेश पुरोत्तमे

॥५९॥

ततश्चान्वेषयामास श्राद्धार्हान्ब्राह्मणान्नृपः ॥

यत्नतोऽपि न लेभे स धनाढ्या ब्राह्मणा यतः

॥६०॥

न तत्र दुःखितः कश्चिद्दरिद्रोऽपि न दुःखितः ॥

नाकर्मनिरतो वापि पाखण्डनिरतोऽथवा

॥६१॥

स्थानेस्थाने महानादा उत्सवाश्च गृहेगृहे ॥

वेदविद्याविनोदाश्च स्मृति वादास्तथैव च

॥६२॥

श्रूयंते याज्ञिकानां च यज्ञकर्मसमुद्भवाः ॥

न दुर्भिक्षं न च व्याधिर्नाकालमरणं नृणाम्. ॥

न मृत्युः कस्यचित्तत्र पुरे ब्राह्मण सेविते

॥६३॥

यथर्तुवर्षी पर्जन्यः सस्यानि गुणवन्ति च ॥

भूरिक्षीरस्रवा गावः क्षीराण्याजाविकानि च

॥६४॥

यंयं प्रार्थयते विप्रं स श्राद्धार्थं महीपतिः ॥

स स तं भर्त्सयामास दुरुक्तैः कोपसंयुतः

॥६५॥

धिग्धिक्पापसमाचार क्षत्रियापसदात्मक ॥

किं कश्चिद्ब्राह्मणोऽश्नाति प्रेतश्राद्धे विशेषतः

॥६६॥

तस्माद्गच्छ द्रुतं यावन्न कश्चिच्छपते द्विजः ॥

निहन्ति वा प्रकोपेन स्वर्गमार्गनिरोधकम्

॥६७॥

सूत उवाच

ततः स दुःखितो राजा निश्चक्राम भयार्दितः ॥

चमत्कारपुरात्तस्माद्वैलक्ष्यं परमं गतः

॥६८॥

चिन्तयामास राजेंद्र स्मृत्वावस्थां पितुश्च ताम् ॥

किं करोमि क्व गच्छामि कथं मे स्यात्पितुर्गतिः

॥६९॥

ततः स सचिवान्सर्वान्प्रेषयित्वा गृहं प्रति ॥

एकाकी भिक्षुरूपेण स्थितस्तत्रैव सत्पुरे

॥७०॥

स ज्ञात्वा नगरे तत्र ब्राह्मणं शंसितव्रतम् ॥

सर्वेषां ब्राह्मणेंद्राणां मध्ये दाक्षिण्यभाजनम्

॥७१॥

देवशर्माभिधानं तु शरणागतवत्सलम् ॥

आहिताग्निं चतुर्वेदं स्मृतिमार्गानुयायिनम्

॥७२॥

ततस्तु प्रातरुत्थाय कृत्वांत्यजमयं वपुः ॥

शोधयामास कृच्छ्रेण मलोत्सर्गनिकेतनम्

॥७३॥

अथ यः कुरुते कर्म तत्र विष्ठाप्रशोधनम् ॥

सोऽभ्येत्य तमुवाचेदं कोपसंरक्तलोचनः

॥७४॥

कुतस्त्वमिह संप्राप्तो मद्वृत्तेरुपघातकृत् ॥

तस्माद्गच्छ द्रुतं नो चेन्नयिष्ये यमसादनम्

॥७५॥

तस्यैवं वदतोऽप्याशु बलात्स पृथिवीपतिः ॥

शोधयामास तत्स्थानं देवशर्मसमुद्भवम्

॥७६॥

ततः संवत्सरस्यांते चंडालेन द्विजोत्तमाः ॥

स प्रोक्त उचिते काले प्रणिपत्य च दूरतः

॥७७॥

स्वामिंस्तव कुलेप्येवं गूथाशोधनकर्मकृत् ॥

तदस्माकं न चान्यस्य तत्किमन्यः प्रवेशितः

॥७८॥

अथ श्रुत्वा च तद्वाक्यं स प्राह द्विजसत्तमः ॥

न मया कश्चिदन्योऽत्र निर्दिष्टो गोप्यकर्मणि ॥

अधिकारस्त्वयात्मीयस्तथा कार्यो यथा पुरा

॥७९॥

तदान्यदिवसे प्राप्ते सोंऽत्यजः कोपसंयुतः ॥

शस्त्रमादाय संप्राप्तो वधार्थं तस्य भूपतेः

॥८०॥

शस्त्रोद्यतकरं दृष्ट्वा प्रहारेकृतनिश्चयम् ॥

ततस्तं लीलया भूयो मुष्टिना मूर्ध्न्यताडयत्

॥८१॥

ततस्तस्य विनिष्क्रांते लोचने तत्क्षणाद्द्विजाः ॥

सुस्राव रुधिरं पश्चात्पपात गतजीवितः

॥८२॥

तं श्रुत्वा निहतं तेन चंडालं निजकिंकरम् ॥

देवशर्मातिकोपेन तद्वधार्थमुपागतः

॥८३॥

ततः पुत्रैश्च पौत्रैश्च सहितोऽन्यैश्च बन्धुभिः ॥

लोष्टैस्तं ताडयामास भर्त्समानो मुहुर्मुहुः

॥८४॥

सोऽपि संताड्यमानस्तु प्रहारैर्जर्जरीकृतः ॥

वेदोच्चारं ततश्चक्रे दर्शयित्वोपवीतकम्

॥८५॥

अथ ते विस्मिताः सर्वे देवशर्मपुरःसराः ॥

ब्राह्मणास्तं समुद्वीक्ष्य वेदोच्चारपरायणम्

॥८६॥

पृष्टश्च किमिदं कर्म तवांत्यजजनोचितम् ॥

एषा वेदात्मिका वाणी स्पष्टाक्षरकलस्वना ॥

तत्किं शापपरिभ्रष्टस्त्वं कश्चिद्ब्राह्मणोत्तमः

॥८७॥

येनैवं कुरुषे कर्म गर्हितं चांत्यजैरपि ॥

ततः स प्रहसन्नाह क्षत्रियोऽहं महीपतिः ॥

विष्णुसेन इति ख्यातो हैहयान्वयसंभवः

॥८८॥

सोहमाराधनार्थाय त्वस्मिन्स्थान उपागतः ॥

अद्य संवत्सरो जातः कर्मण्यस्मिन्रतस्य च

॥८९॥

सूत उवाच

तस्य तद्वचनं श्रुत्वा स विप्रः कृपयान्वितः ॥

कृतांजलिपुटो भूत्वा तमुवाच महीपतिम्

॥९०॥

किं तत्कृत्यं समुद्दिश्य त्वयैतत्कर्म गर्हितम् ॥

कृतं कीर्तय येनाशु तवाभीष्टं करोम्यहम्

॥९॥

नास्ति मे किञ्चिदप्राप्तं तथाऽसाध्यं महीपते ॥

तस्मात्तव करिष्यामि कृत्यं यद्यपि दुर्लभम्

॥९२॥

राजोवाच

पिता ममाहिना दष्टः प्रेतत्वं समुपागतः ॥

सोऽत्र नागह्रदे श्राद्धे कृते मुक्तिमवाप्नुयात्

॥९३॥

तस्मात्तत्तारणार्थाय विप्रकृत्यं समाचर ॥

एतदर्थं मयैतत्ते कृतं कर्म विगर्हितम्

॥९४॥

देवशर्मोवाच

एवं कुरु नृपश्रेष्ठ श्राद्धेऽहं ते पितुः स्वयम् ॥

ब्राह्मणः संभविष्यामि तस्माच्छ्राद्धं समाचर

॥९५॥

सूत उवाच

अथ ते सुहृदस्तस्य पुत्राः पौत्राश्च बांधवाः ॥

प्रोचुर्नैतत्प्रयुक्तं ते श्राद्धं भोक्तुं विगर्हितम्

॥९६॥

तस्माद्यदि भवानस्य श्राद्धे भोक्ता ततः स्वयम् ॥

सर्वे भवन्तं त्यक्षामस्तथान्येऽपि द्विजोत्तमाः

॥९७॥

देवशर्मोवाच

कामं त्यजत मां सर्वे यूयमन्येऽपि ये द्विजाः ॥

मयैवास्य प्रतिज्ञातं भोक्तुं श्राद्धे महीपतेः

॥९८॥

एवमुक्त्वा स विप्रेंद्रस्तेनैव सहितस्तदा ॥

नागह्रदं समासाद्य श्राद्धे वै भुक्तवानथ

॥९९॥

भुक्तमात्रे ततस्तस्मिन्वागुवाचाशरीरिणी ॥

नादयंती जगत्सर्वं हर्षयंती महीपतिम्

॥१००॥

प्रेतभावाद्विनिर्मुक्तः पुत्राहं त्वत्प्रभावतः ॥

स्वस्ति तेऽस्तु गमिष्यामि सांप्रतं त्रिदिवालयम्

॥१०१॥

तत्कृत्वा नृपतिर्हृष्टस्तं प्रणम्य द्विजोत्तमम् ॥

प्रोवाच कुरु मे वाक्यं यद्ब्रवीमि द्विजोत्तम

॥१०२॥

अस्ति माहिष्मतीनाम नगरी नर्मदातटे ॥

सा चास्माकं राजधानी पितृपर्यागता विभो

॥१०३॥

अहं यच्छामि ते ब्रह्मन्समस्तविषयान्विताम् ॥

मया भृत्येन तत्रस्थः कुरु राज्यमकंटकम्

॥१०४॥

देवशर्मोवाच

न चैतद्युज्यते वक्तुं न विप्रो राज्यमर्हति ॥

तस्माद्गच्छ निजं राज्यं परिपालय पार्थिव

॥५॥

सूत उवाच

एवं विसर्जितस्तेन जगाम स महापतिः ॥

स्वं देशं हर्षसंयुक्तः कृतकृत्यो द्विजोत्तमाः

॥१०६॥

सोऽपि सर्वैः परित्यक्तो ब्राह्मणैः पुरवासिभिः ॥

देवशर्मा समुद्दिश्य दोषं श्राद्धसमुद्भवम्

॥१०७॥

ततो नागह्रदे तस्मिन्स कृत्वा निजमन्दिरम् ॥

निवासमकरोत्तत्र स्वाध्यायनिरतः शुचिः

॥१०८॥

तत्रस्थस्य निरस्तस्य ये पुत्राः स्युर्द्विजोत्तमाः ॥

तेषां संततयो ऽद्यापि ते प्रोक्ता बाह्यवासिनः

॥१०९॥

एतद्वः सर्वमाख्यातं नागतीर्थसमुद्भवम् ॥

माहात्म्यं ब्राह्मणश्रेष्ठाः सर्वपातकनाशनम्

॥११०॥

यश्चैतत्पठते भक्त्या संप्राप्ते पंचमीदिने ॥

शृणुयाद्वा न वंशेऽपि तस्य स्यात्सार्पजं भयम्

॥१११॥

तथा विमुच्यते पापाद्भक्षजातान्न संशयः ॥

कृतादज्ञानतो विप्राः सत्यमेतन्मयोदितम्

॥११२॥

तस्मात्सर्वप्रयत्नेन नागतीर्थमनुत्तमम् ॥

माहात्म्यं पठनीयं वा श्रोतव्यं वा समाहितैः

॥११३॥

श्राद्धकाले तु संप्राप्ते यश्चैतत्पठते द्विजः ॥

स प्राप्नोति फलं कृत्स्नं गयाश्राद्धसमुद्भवम्

॥११४॥

तथा ये कीर्तिता दोषाः श्राद्धे द्रव्यसमुद्भवाः ॥

व्रतवैक्लव्यजाश्चापि तथा ब्राह्मणसंभवाः

॥११५॥

ते सर्वे नाशमायांति कीर्त्यमाने समाहितैः ॥

नागह्रदस्य माहात्म्ये श्राद्धकाल उपस्थिते

॥११६॥

तथा विनिहता गोभिर्ब्राह्मणैः श्वापदैरपि ॥

एतस्मिन्पठिते श्राद्धे गच्छंति परमां गतिम्

॥११७॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां सहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये नागह्रदमाहात्म्यवर्णनंनामैकत्रिंशोऽध्यायः ॥ ३१ ॥