मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — नागरखण्डः, अध्याय १३०

3
नागरखण्डः · 130

पंचपिण्डागौर्युत्पत्तिवर्णनम्

ऋषय ऊचुः

याज्ञवल्क्यसुतः सूत यस्त्वया परिकीर्तितः ॥

कतमा तस्य माताभूत्सर्वं नो ब्रूहि विस्तरात्

॥१॥

सूत उवाच

तस्य भार्याद्वयं श्रेष्ठमासीत्सर्वगुणान्वितम् ॥

एका गुणवती तस्य मैत्रेयीति प्रकीर्तिता

॥२॥

ज्येष्ठा चान्याथ कल्याणी ख्याता कात्यायनीति च ॥

यस्याः कात्यायनः पुत्रो वेदार्थानां प्रजल्पकः

॥३॥

ताभ्यां कुण्डद्वयं तत्र संतिष्ठति सुशोभनम् ॥

यत्र स्नाता नरा यांति लोकांस्तांश्च महोदयान्

॥४॥

कात्यायन्याश्च तीर्थस्य शांडिल्यास्तीर्थमुत्तमम् ॥

पतिव्रतात्वयुक्तायास्तथान्यत्तत्र संस्थितम्

॥५॥

यत्र कात्यायनी प्राप्ता शांडिल्या प्रतिबोधिता ॥

वैराग्यं परमं प्राप्ता सपत्नीदुःखदुःखिता

॥६॥

तत्र या कुरुते स्नानं तृतीयायां समाहिता ॥

नारी मार्गसिते पक्षे सा सौभाग्यवती भवेत् ॥

अथ दौर्भाग्यसंपन्ना काणा वृद्धाऽथ वामना ॥

अभीष्टा जायते सा च तत्प्रभावाद्द्विजोत्तमाः

॥८॥

ऋषय ऊचुः

कीदृक्सपत्निजं दुःखं कात्यायन्या उपस्थितम् ॥

उपदेशः कथं लब्धः शांडिल्याः सूत कीदृशः

॥९॥

कात्यायन्या समाचक्ष्व कौतुकं नो व्यवस्थितम् ॥

सामान्यो भविता नैष उपदेशस्तयेरितः

॥१०॥

सूत उवाच

मैत्रेय्या सह संसक्तं याज्ञवल्क्यं विलोक्य सा ॥

कात्यायनी सुदुःखार्ता संजाता चेर्ष्यया ततः

॥११॥

सा न स्नाति न भुंक्ते च न हास्यं कुरुते क्वचित् ॥

केवलं बाष्पपूर्णाक्षी निःश्वासाढ्या बभूव ह

॥१२॥

ततः कदाचिदेवाथ फलार्थं निर्गता बहिः ॥

अपश्यच्छांडिलीनाम पतिपार्श्वे व्यवस्थिताम्

॥१३॥

कृतांजलिपुटां साध्वी विनयावनता स्थिताम् ॥

सोऽपि तस्या मुखासक्तः सानुरागः प्रसन्नदृक्

॥१४॥

गुणदोषोद्भवां वार्तामापृच्छ्याकथयत्तथा ॥

सा च तौ दंपती दृष्ट्वा संहृष्टावितरेतरम्

॥१५॥

चित्ते स्वे चिंतयामास सुधन्येयं तपस्विनी ॥

यस्याः पतिर्मुखासक्तो गुणदोषप्रजल्पकः ॥

सानुरागश्च सुस्निग्धो नान्यां नारीं बिभर्त्ति च

॥१६॥

एवं संचित्य सा साध्वी भूयोभूयो द्विजोत्तमाः ॥

जगाम स्वाश्रमं पश्चान्निंद्यमाना स्वकं वपुः

॥१७॥

ततः कदाचिदेकांते स्थितां तां शांडिलीं द्विजाः ॥

बहिर्गते भर्तरि च तस्याः कार्येण केनचित्

॥१८॥

कात्यायनी समागम्य ततः पप्रच्छ सादरम् ॥

वद कल्याणि मे कंचिदुपदेशं महोदयम्

॥१९॥

मुखप्रेक्षः सदा भर्त्ता येन स्त्रीणां प्रजायते ॥

नापमानं करोत्येव दुरुक्तवचनैः क्वचित्

॥२०॥

नान्यां संगच्छते नारीं चित्तेनापि कथंचन ॥

अहं भर्तुः कृतैर्दुःखैरतीव परिपीडिता ॥

सपत्नीजैर्विशेषेण तस्मान्मे त्वं प्रकीर्तय

॥२१॥

यथा ते वशगो भर्त्ता संजातः कामदः सदा ॥

मनसापि न संदध्यान्नारीमेष कथंचन

॥२२॥

शांडिल्युवाच

शृणु साध्वि प्रवक्ष्यामि तवाहं गुह्यमुत्तमम् ॥

यथा ममाभवद्वश्यो मुखप्रेक्षस्तथा पतिः

॥२३॥

मम तातः कुरुक्षेत्रे शांडिल्यो मुनिसत्तमः ॥

वानप्रस्थाश्रमेऽतिष्ठत्पूर्वे वयसि संस्थितः

॥२४॥

तत्रैकाहं समुत्पन्ना कन्या तस्य महात्मनः ॥

वृद्धिं गता क्रमेणाथ तस्मिन्नेव तपोवने

॥२५॥

करोमि तत्र शुश्रूषां होमकाले यथोचिताम् ॥

नीवारादीनि धान्यानि नित्यं चैवानयाम्यहम्

॥२६॥

कस्यचित्त्वथ कालस्य नारदो मुनिसत्तमः ॥

आश्रमे मम तातस्य सुश्रांतः समुपागतः

॥२७॥

तातादेशात्ततस्तत्र मया स विश्रमः कृतः ॥

पादशौचादिभिः कृत्यैः स्नानाद्यैश्च तथापरैः

॥२८॥

ततो भुक्तावसानेऽथ निविष्टः मुखसंस्थित ॥

मम मात्रा परिपृष्टो विनयाद्वरवर्णिनि

॥२९॥

एकेयं कन्यकास्माकं जाते वयसि संस्थिते ॥

संजाता मुनिशार्दूल प्राणेभ्योऽपि गरीयसी

॥३०॥

तदस्याः कीर्तय क्षिप्रं सुखोपायं सुखोदयम् ॥

व्रतं वा नियमं वा त्वं होमं वा मन्त्रमेव वा

॥३१॥

येन चीर्णेन भर्त्ता स्यात्सुसौम्यः सद्गुणान्वितः ॥

प्रियंवदो मुखप्रेक्षः परनारीपराङ्मुखः

॥३२॥

तस्यास्तद्वचनं श्रुत्वा स मुनिस्तदनंतरम् ॥

चिरं ध्यात्वा वचः प्राह प्रसन्नवदनस्ततः

॥३३॥

हाटकेश्वरजे क्षेत्रे पञ्चपिंडा व्यवस्थिता ॥

गौरी गौर्या स्वयं तत्र स्थापिता परमेश्वरी

॥३४॥

तामेषा वत्सरं यावच्छ्रद्धया परया युता ॥

सदा पूजयतु प्रीत्या तृतीयायां विशेषतः

॥३५॥

ततो वर्षांतमासाद्य संप्राप्स्यति यथोचितम् ॥

भर्त्तारं नात्र संदेहो यादृग्रूपं यथोचितम् ॥

३६ तत्र पूर्वं गता गौरी परित्यज्य महेश्वरम् ॥

गंगेर्ष्यया महाभागे ज्ञात्वा क्षेत्रं सुसिद्धिदम्

॥३७॥

ततः सा चिंतयामास कां देवीं पूजयाम्यहम् ॥

सौभाग्यार्थं यतोऽन्या मां पूजयंति सुरस्त्रियः

॥३८॥

तस्मादहं प्रभक्त्याढ्या स्वयमात्मानमेव च ॥

आत्मनैव कृतोत्साहा पूजयिष्यामि सिद्धये

॥३९॥

ततः प्राणाग्निहोत्रोत्थैर्मंत्रैराथर्वणैः शुभैः ॥

मृत्पिंडान्पंच संयोज्य ह्येकस्थाने समाहिता

॥४०॥

पृथ्वीमपश्च तेजश्च वायुमाकाशमेव च ।

तेषु संयोजयामास मृत्पिंडेषु निधाय सा

॥४१॥

महद्भूतानि चैतानि पञ्च देवी यतव्रता ॥

ततः संपूजयामास पुष्पधूपानुलेपनैः

॥४२॥

अथ तां तत्र विज्ञाय तपःस्थां गिरजां भवः ॥

तन्मंत्राकृष्टचित्तश्च सत्वरं समुपागतः

॥४३॥

प्रोवाच च प्रहृष्टात्मा कस्मात्त्वमिह चागता ॥

मां मुक्त्वा दोषनिर्मुक्तं मुखप्रेक्षं सदा रतम्

॥४४॥

तस्मादागच्छ कैलासं वृषारूढा मया सह ॥

अथवा कारणं ब्रूहि यदि दोषोऽस्ति मे क्वचित्

॥४५॥

देव्युवाच

त्वं मूर्ध्ना जाह्नवीं धत्से मूर्तां पदजलात्मिकाम् ॥

तस्मान्नाहं गमिष्यामि मंदिरं ते कथंचन

॥४६॥

यावन्न त्यजसि व्यक्तं मम सापत्न्यतां गताम् ॥

तथा नित्यं प्रणामं त्वं करोषि वृषभध्वज

॥४७॥

प्रत्यक्षमपि मे नित्यं संध्यायाश्च न लज्जसे ॥

तस्मादेतत्परित्यज्य कर्म लज्जाकरं परम्

॥४८॥

आकारयसि मां देव तत्स्याद्यदि मतं मम ॥

अन्यथाहं न यास्यामि तव हर्म्ये कथंचन ॥

एतच्छ्रुत्वा यदिष्टं ते कुरुष्व वृषभध्वज

॥४९॥

देव उवाच

नाहं सौख्येन तां गंगां धारयामि सुरेश्वरि

॥५०॥

भगीरथेन भूपेन प्रार्थितो ज्ञाति कारणात् ॥

दिव्यं वर्षसहस्रं तु तपस्तप्त्वा सुदारुणम्

॥५१॥

येन नो याति पातालं गंगा स्वर्गपरिच्युता ॥

तस्मात्त्वं देव मद्वाक्यात्स्वमूर्ध्ना वह जाह्नवीम्

॥५२॥

मया तस्य प्रतिज्ञातं धारयिष्याम्यसंशयम् ॥

आकाशाज्जाह्नवीवेगं पतंतं धरणीतले

॥५३॥

नो चेद्व्रजेत पातालं यदत्र विषयेस्थि?म् ॥

ततोऽहं संप्रवक्ष्यामि तदिहैकमनाः शृणु

॥५४॥

एषा गंगा वरारोहे मम मूर्ध्नो विनिर्गता ॥

हिमवंतं नगं भित्त्वा द्विधा जाता ततः परम्

॥५५॥

ततः सिंध्वभिधाना सा पश्चिमं सागरं गता ॥

शतानि नव संगृह्य नदीनां परमेश्वरि

॥५६॥

तथा गंगाभिधाना च सैव प्राक्सागरं गता ॥

तावतीश्च समादाय नदीः पर्वतनन्दिनि

॥५७॥

एवमष्टादशैतानि नदीनां पर्वतात्मजे ॥

शतानि सागरे यांति तेन नित्यं स तिष्ठति

॥५८॥

सततं शोष्यमाणोऽपि वाडवेन दिवानिशम् ॥

समुद्रसलिलं मेघाः समादाय ततः परम्

॥५९॥

मर्त्यलोके प्रवर्षंति ततः सस्यं प्रजायते ॥

सस्येन जीवते लोकः प्रभवन्ति मखास्तथा ॥

मखांशेन सुराः सर्वे तृप्तिं यांति ततः परम्

॥६०॥

एतस्मात्कारणान्मूर्ध्नि देवि गंगां दधाम्यहम् ॥

न स्नेहात्कामतो नैव जगद्येन प्रवर्तते

॥६१॥

अथवा सन्त्यजाम्येनां यदि मूर्ध्नः कथंचन ॥

तद्दूरं वेगतो भित्त्वा पृथ्वीं याति रसातलम्

॥६२॥

ततः शोषं व्रजेदाशु समुद्रः सरितां पतिः ॥

और्वेण पीयमानोऽत्र ततो वृष्टिर्न जायते ॥

वृष्ट्यभावाज्जगन्नाशः सत्यमेतन्मयोदितम्

॥६३॥

एवं गंगाकृते प्रोक्तं मया तव सुरेश्वरि ॥

शृणु सन्ध्याकृतेऽन्यच्च येन तां प्रणमाम्यहम्

॥६४॥

इति श्रीस्कान्देमहापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्व रक्षेत्रमाहात्म्ये पंचपिण्डागौर्युत्पत्तिवर्णनंनाम त्रिंशदुत्तरशततमोऽध्यायः ॥ १३० ॥