काम्यानि तेऽधुना वच्मि श्राद्धानि पृथिवीपते
भर्तृयज्ञ उवाच
काम्यानि तेऽधुना वच्मि श्राद्धानि पृथिवीपते ॥
यैः कृतैः समवाप्नोति मर्त्यो हृदयसंस्थितम्
॥१॥यो नारीं वांछते क्ष्माप रूपाढ्यां शीलमण्डनाम् ॥
इह लोके परे चैव तस्यार्हं प्रथमं दिनम्
॥२॥श्राद्धीयप्रेतपक्षस्य मुख्यभूतं च यन्नृप ॥
य इच्छेत्कन्यकां श्रेष्ठां सुशीलां रूपसंयु ताम् ॥
द्वितीयादिवसे तेन श्राद्धं कार्यं महीपते
॥३॥यो वांछति नरोऽश्वांश्च वायुवेगसमाञ्जवे ॥
तृतीयादिवसे श्राद्धं तेन कार्यं विपश्चिता
॥४॥यो वांछति पशून्मुख्यान्कुप्याकुप्यधनानि च ॥
चतुर्थ्यां तेन कर्तव्यं श्राद्धं पितृप्रतुष्टये
॥५॥पुत्रान्वांछति योऽभीष्टान्सुशीलान्वंशमंडनान् ॥
पञ्चम्यां तेन कर्तव्यं सदा श्राद्धं नराधिप
॥६॥यः श्राद्धं वंशजैर्दत्तं परलोकगतो नृप ॥
वांछते तेन कर्तव्यं षष्ठ्यां श्राद्धं विपश्चिता
॥७॥कृषिसिद्धिं य इच्छेत ग्रैष्मिकीं शारदीमपि ॥
सप्तम्यां युज्यते तस्य श्राद्धं कर्तुं न संशयः
॥८॥य इच्छेत्पण्यसंसिद्धिं व्यवहारसमुद्भवाम् ॥
अष्टम्यां युज्यते श्राद्धं तस्य कर्तुं नराधिप
॥९॥नवम्यां श्राद्धकृन्नाना चतुष्पदगणाल्लँभेत् ॥
सौभाग्यं रोगनाशं च तथा वल्लभसंगमम्
॥१०॥दशमीदिवसे श्राद्धं यः करोति समाहितः ॥
तस्य स्याद्वांछिता सिद्धिः सर्वकृत्येषु सर्वदा
॥११॥एकादश्यां धनं धान्यं श्राद्धकर्ता लभेन्नरः ॥
तथा भूपप्रसादं च यच्चान्यन्मनसि स्थितम्
॥१२॥यः करोति च द्वादश्यां श्राद्धं श्रद्धासमन्वितः ॥
पुत्रांस्तु प्रवरांश्चैव स पशून्वांछिताल्लँभेत्
॥१३॥यो वांछति नरो मुक्तिं पितृभिः सह चात्मनः ॥
असंतानश्च यस्तस्य श्राद्धे प्रोक्ता त्रयोदशी
॥१४॥संतानकामो यः कुर्यात्तस्य वंशक्षयो भवेत् ॥
न संतानविवृद्धयै च तस्य प्रोक्ता त्रयोदशी
॥१५॥श्राद्धकर्मणि राजेंद्र श्रुतिरेषा पुरातनी ॥
अपि नः स कुले भूयाद्यो नो दद्यात्त्रयोदशीम्
॥१६॥पायसं मधुसर्पिर्भ्यां वर्षासु च मघासु च ॥
मघात्रयोदशीयोगे पायसेन यजेत्पितॄन्
॥१७॥पितरस्तस्य नेच्छंति तद्वर्षं श्राद्धसत्क्रियाम् ॥
पुण्यातिशयभीतेन पिंडदानं निराकृतम्
॥१८॥शक्रेण तद्दिने पुत्रमरणं दर्शितं भयम् ॥
येषां च शस्त्रमृत्युः स्यादपमृत्युरथापि वा
॥१९॥उपसर्गमृतानां च विषमृत्युमुपेयुषाम् ॥
वह्निना तु प्रदग्धानां जलमृत्यु मुपेयुषाम्
॥२०॥सर्पव्यालहतानां च शृंगैरुद्बन्धनैरपि ॥
एकोद्दिष्टं प्रकर्तव्यं चतुर्दश्यां नराधिप
॥२१॥तेषां तस्मिन्कृते तृप्तिस्ततस्तत्पक्षजा भवेत्
॥२२॥सर्वे कामाः पुरः प्रोक्ता युष्माकं ये मया नृप ॥
अमावास्यादिने श्राद्धात्तानाप्नोति न संश यः
॥२३॥एतत्ते सर्वमाख्यातं काम्यश्राद्धफलं नृप ॥
यच्छ्रुत्वा वांछितान्कामान्सर्वानाप्नोति मानवः
॥२४॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये श्राद्धकल्पे काम्यश्राद्धवर्णनंनामैकोनविंशोत्तरद्विशततमोऽ ध्यायः ॥ २१९ ॥