सुपर्णाख्यमाहात्म्यवर्णनम्
सूत उवाच
तत्राश्चर्यमभूत्पूर्वं यत्तद्ब्राह्मणसत्तमाः ॥
अहं वः कीर्तयिष्यामि पुराणे यदुदाहृतम्
॥१॥वेणुर्नाम महीपालः पुरासीत्सूर्यवंशजः ॥
सदैव पापसंयुक्तो दुर्मेधाः कामपीडितः
॥२॥शासनानि प्रदत्तानि ब्राह्मणानां महात्मनाम् ॥
अन्यैः पार्थिवशार्दूलैस्तेन तानि हृतान्यलम्
॥३॥विध्वंसिताः स्त्रियो नैका विधवाश्च विशेषतः ४ कुमार्यो रूपवत्यश्च तथा निज कुलोद्भवाः
॥४॥देवताराधनं पूजां कर्तुं नैव ददाति सः ॥
न च यज्ञं न होमं च स्वाध्यायं न च पापकृत्
॥५॥प्रोवाचाथ जनान्सर्वान्मां पूजयत सर्वदा ॥
न मामभ्यधिकोऽन्योऽस्ति देवो वा ब्राह्मणोऽपि वा
॥६॥मया तुष्टेन सर्वेषां संपत्स्यति हृदि स्थितम् ॥
इह लोकेष्वसंदिग्धं शुभं वा यदि वाऽशुभम्
॥७॥तेन शस्त्रविहीनानां विश्वस्तानां वधः कृतः ॥
संत्यक्ताः शरणं प्राप्ताः पुरुषा भयविह्वलाः
॥९॥नष्टो महाहवं दृष्ट्वा शत्रुसंघानुपस्थितान् ॥
क्षात्रं धर्मं परित्यज्य प्राणरक्षार्थमेव हि
॥९॥अचौराः प्रगृहीताश्च चौराः संरक्षिताः सदा ॥
साधवः क्लेशिता नित्यं तेषां संहरता धनम्
॥१०॥न कृतं च व्रतं तेन श्रद्धापूतेन चेतसा ॥
न दत्तं ब्राह्मणेभ्यश्च न च यष्टं कदाचन
॥११॥एवं तस्य नरेन्द्रस्य पापासक्तस्य नित्यशः ॥
कुष्ठव्याधिरभूदुग्रो वंशोच्छेदश्च सद्द्विजाः
॥१२॥ततस्तं व्याधिना ग्रस्तं पुत्रपौत्रविवर्जितम् ॥
दायादाः सहसोपेता राज्यं जह्रुस्ततः परम्
॥१३॥तं च निर्वासयामासुस्तस्माद्देशात्पदातिकम् ॥
एकाकिनं परित्यक्तं सर्वैरपि सुहृद्गणैः
॥१४॥सोऽपि सर्वैः परित्यक्तस्तेन पापेन कर्मणा ॥
कलत्रैरपि चात्मीयैः स्मृत्वा पूर्वविचेष्टितम्
॥१५॥एकाकी भ्रममाणोऽथ सोऽपि कष्टवशं गतः ॥
क्षुत्तृष्णासुपरिश्रांतः क्षेत्रेऽत्रैव समागतः
॥१६॥ततः प्रासादमासाद्य सुपर्णाख्यसमुद्भवम् ॥
यावत्प्राप्तः परित्यक्तस्ताव त्प्राणैरुपोषितः
॥१७॥ततो दिव्यवपुर्भूत्वाविमानवरमाश्रितः ॥
जगाम शिवलोकं स दुर्लभं धार्मिकैरपि
॥१८॥सेव्यमानोप्सरोभिश्च स्तूयमानश्च किन्नरैः ॥
गीयमानश्च गन्धर्वैः शिवपार्श्वे व्यवस्थितः
॥१९॥अथ तं संनिधौ दृष्ट्वा गौरी पप्रच्छ सादरम् ॥
कोऽयं देव समायातः सुकृती तव मन्दिरे ॥
अनेन किं कृतं कर्म यत्प्राप्तोऽत्र विभूतिधृक्
॥२०॥श्रीभगवानुवाच
एष पापसमाचारः सदाऽऽसीत्पृथिवीपतिः ॥
वेणुसंज्ञो धरापृष्ठे कुष्ठव्याधिसमाकुलः
॥२१॥स संत्यक्तो निजैर्दारैः शत्रुवर्गेण धर्षितः ॥
भ्रममाणः समायातः सुपर्णाख्यस्य मन्दिरे
॥२२॥उपवासपरिश्रांतः सांनिध्यं मम यत्र च ॥
सर्वप्राणैः परित्यक्तस्तस्मिन्नायतने शुभे
॥२३॥तत्प्रभावादिह प्राप्तः सत्यमेतन्मयोदितम् ॥
अन्योऽप्यनशनं कृत्वा प्राणान्यस्तत्र संत्यजेत्
॥२४॥स सर्वाभ्यधिकां भूतिं प्राप्नुयाद्वरवर्णिनि ॥
यानेतान्वीक्षसे देवि गणान्मे पार्श्वसंस्थितान्
॥२५॥एतैस्तत्र कृतं सर्वैर्देवि प्रायोपवेशनम् ॥
अपि कीटपतंगा ये पशवः पक्षिणो मृगाः ॥
प्रासादे तत्र निर्मुक्ताः प्राणैर्यांति ममांतिकम्
॥२६॥सूत उवाच
तच्छ्रुत्वा पार्वती वाक्यं प्रोक्तं देवेन शम्भुना ॥
विस्मयाविष्टहृदया साधु साध्विति साऽब्रवीत्
॥२७॥ततःप्रभृति लोकेऽत्र पुरुषा मुक्तिमिच्छवः ॥
दूरतोऽपि समभ्येत्य स्वान्प्राणांस्तत्र तत्यजुः
॥२८॥प्रायोपवेशनं कृत्वा श्रद्धया परया युताः ॥
गच्छन्ति च परां सिद्धिमपि पापपरायणाः
॥२९॥एतद्वः सर्वमाख्यातं सर्वपातकनाशनम् ॥
सुपर्णाख्यस्य माहात्म्यं यन्मया स्वपितुः श्रुतम्
॥३०॥इति श्रीस्कन्दे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे श्रीहाटकेश्वरक्षेत्रमाहात्म्ये सुपर्णाख्यमाहात्म्यवर्णनंनाम त्र्यशीतितमोऽध्यायः ॥ ८३ ॥