मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — नागरखण्डः, अध्याय १४६

3
नागरखण्डः · 146

हाटकेश्वरक्षेत्रमाहात्म्येऽमरेश्वरकुण्डमाहात्म्यवर्णनम्

ऋषय ऊचुः

आदित्यानां च सर्वेषां वसुरुद्रादिकाश्विनाम् ॥

प्रत्येकशः समाचक्ष्व नामानि त्वं महामते

॥१॥

सूत उवाच

वृषध्वजश्च शर्वश्च मृगव्याधस्तृतीयकः ॥

अजैकपादहिर्बुध्न्यः पिनाकी षष्ठ एव हि

॥२॥

दहनश्चेश्वरश्चैव कपाली नवमस्तथा ॥

वृषाकपिस्तु दशमो रुद्रस्त्र्यंबक एव च

॥३॥

धुरो ध्रुवश्च सोमश्च मखश्चैवानिलोऽनलः ॥

प्रत्यूषश्च प्रभासश्च वसवोऽष्टौ प्रकीर्तिताः

॥४॥

वरुणश्च तथा सूर्यो भानुः ख्यातश्च तापनः ॥

इंद्रश्चैवार्यमा चैव धाता चैव भगस्तथा

॥५॥

गभस्तिर्धर्मराजश्च स्वर्णरेता दिवाकरः ॥

मित्रश्च वासुदेवश्च द्वादशैते च भास्कराः

॥६॥

नासत्यश्चैव दस्रश्च ख्यातावेतौ तथाश्विनौ ॥

देववैद्यौ महाभागौ त्वाष्ट्रीगर्भसमुद्भवौ

॥७॥

त्रयस्त्रिंशत्समाख्याता एते ये सुरनायकाः ॥

क्षेत्रेऽत्रैवास्थिता नित्यं दानवानां वधाय च

॥८॥

यस्तान्संपूजयेद्भक्त्या पुरुषः संयतेंद्रियः ॥

यथोक्तदिवसे प्राप्ते नापमृत्युः प्रजायते

॥९॥

अष्टम्यां च चतुर्दश्यां रुद्राः पूज्या विचक्षणैः ॥

तस्मिन्क्षेत्रे विशेषेण वांछद्भिः परमं पदम्

॥१०॥

दशम्यां वसवः पूज्यास्तथाष्टम्यां विशेषतः ॥

स्वर्गं समीहमानैश्च विलासैर्विविधैस्तथा

॥११॥

सप्तम्यामथ षष्ठ्यां च पूजनीया दिवाकराः ॥

ये वांछन्ति नराः सत्त्वं परिपंथिविवर्जितम्

॥१२॥

देववैद्यौ तथा पूज्यौ द्वादश्यां व्याधिसंक्षयम् ॥

ये वांछन्ति सदा मर्त्या नीरुजा सम्भवंति ते

॥१३॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्येऽमरेश्वरकुण्डमाहात्म्यवर्णनं नाम षट्चत्वारिंशदधिकशततमोऽध्यायः ॥ १४६ ॥