भूमिमाहात्म्यवर्णनम्
सूत उवाच
पुरा कल्पे भगवता एतत्क्षेत्रमनुत्तमम् ॥
रुद्रेण ब्रह्मणे दत्तं तुष्टेन द्विजसत्तमाः
॥१॥यदा तु स्थापितं लिंगं हाटकेश्वरसंज्ञितम् ॥
देवैः प्रीतेन रुद्रेण प्रदत्तं ब्रह्मणे पुनः
॥२॥एतत्क्षेत्रं तदा दत्तं शंभुना षण्मुखस्य ह ॥
रक्षणार्थं हि विप्राणां कलिकालादिदोषतः
॥३॥ब्रह्मणा प्रार्थितेनेदं स्वयमादिममुत्तमम् ॥
पित्रादिष्टस्तु गांगेयस्तत्र वासमथाकरोत्
॥४॥कार्तिक्यां कृत्तिकायोगे यः कुर्यात्स्वामिदर्शनम् ॥
सप्तजन्म भवेद्विप्रो धनाढ्यो वेदपारगः
॥५॥महासेनस्य देवस्य प्रासादं सुमनोहरम् ॥
उच्चैः स्थितं सर्वलोके पातुकाममिवांबरम्
॥६॥तच्छ्रुत्वा विबुधाः सर्वे कौतुकादेत्य सत्वरम् ॥
वीक्षांचक्रुस्ततो गत्वा दृष्ट्वा मेध्यतमं पुरम्
॥७॥प्रासादस्योत्तरे देशे प्राच्ये देशे तथा द्विजाः ॥
यज्ञक्रियासमारंभांश्चकुर्विप्रैर्यथोदितान्
॥८॥इष्ट्वा च विबुधाः सर्वे दत्त्वा तेभ्यश्च दक्षिणाम् ॥
जग्मुस्त्रिविष्टपं हृष्टा लब्ध्वा तत्स्थानजं फलम्
॥९॥ततस्तु देवयजनंनाम तस्य बभूव ह ॥
यदन्यत्र शतं कृत्वा क्रतूनां फलमाप्नुयात् ॥
तदत्रैकेन लभते क्रतुना दक्षिणावता
॥१०॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये यज्ञ भूमिमाहात्म्यवर्णनंनाम पञ्चसप्ततितमोऽध्यायः ॥ ७५ ॥