गोमुखतीर्थमाहात्म्यवर्णनम्
सूत उवाच
अथान्यदपि तत्रास्ति गोमुखाख्यं सुशोभनम् ॥
यद्गोवक्त्रात्पुरा लब्धं सर्वपातकनाशनम्
॥१॥पुरासीदत्र गोपालः कश्चित्कुष्ठसमावृतः ॥
चमत्कारपुरं विप्र अतीव क्षामतां गतः
॥२॥कस्यचित्त्वथ कालस्य तेन मार्गेण गोकुलम् ॥
मध्याह्नसमये प्राप्तं चंद्रे चित्रासमन्वितः
॥३॥एकादश्यां तृषार्त्तं च भास्करे वृषसंस्थिते ॥
एकयापि ततो धेन्वा तृणस्तम्बमतीव हि ॥
नीलमालोकितं तत्र दूरादेत्य प्रहर्षिता
॥४॥दन्तैर्द्रुतं समुत्पाट्य यावदाकर्षति द्विजाः ॥
तावत्तज्जडमार्गेण तोयधारा विनिर्गता
॥५॥अथास्वाद्य तृणं तस्मात्तृषार्ता च शनैःशनैः ॥
पपौ तोयं सुविश्रब्धा सुस्वादु क्षीरसंनिभम्
॥६॥तस्या वेगेन तत्तोयं पिबन्त्यास्तत्रभूतले ॥
गर्ता जाता सुविस्तीर्णा सलिलेन समावृता
॥७॥ततोऽन्याः शतशो गावः पपुस्तोयं मुनिर्मलम् ॥
तृषार्त्तास्तद्द्विजश्रेष्ठाः पीयूषरससंनिभम्
॥८॥यथायथा गता गावस्तत्र तोयं पिबंति ताः ॥
सा गर्ता वक्त्रसंस्पर्शाद्वृद्धिं याति तथा तथा
॥९॥ततश्च गोकुले कृत्स्ने जाते तृष्णाविवर्जिते ॥
गोपालोऽपि तृषार्तस्तु तस्मिंस्तोये विवेश च
॥१०॥अंगं प्रक्षाल्य पीत्वापो यावन्निष्क्रामति द्रुतम् ॥
तावत्पश्यति गात्रं स्वं द्वादशार्कसमप्रभम्
॥११॥ततो विस्मयमापन्नो गत्वा स्वीयं निकेतनम् ॥
वृतांतं कथयामास लोकानां पुरतोऽखिलम्
॥१२॥तृणस्तम्बं यथा धेन्वा तत्रोत्पाट्य प्रशक्तितः ॥
यथा विनिर्गतं तोयं यथा तेनावगाहितम्
॥१३॥तद्दृष्ट्वा मानवाः सर्वे गत्वा दिव्यं जलं च तत् ॥
व्याधिग्रस्ता विशेषेण स्नानं चक्रुः समाहिताः
॥४॥भवंति च विनिर्मुक्ता रोगैः पापैश्च तत्क्षणात् ॥
अपापाश्च पुनर्यांति तत्क्षणात्त्रिदिवालयम्
॥१५॥ततःप्रभृति तत्ख्यातं तीर्थं गोमुखसंज्ञितम् ॥
गोमुखाद्भूतले जातं यतश्चैवं द्विजोत्तमाः
॥१६॥अथ भीतः सहस्राक्षस्तद्दृष्ट्वा स्वर्गदायकम् ॥
अक्लेशेन मनुष्याणां पूरयामास पांसुभिः
॥१७॥ऋषय ऊचुः
किं तत्कारणमादिष्टं येन तत्तादृशं जलम् ॥
तस्मात्स्थानाद्विनिष्क्रांतं सूतपुत्र वदस्व नः
॥१८॥सूत उवाच
अत्र पूर्वं तपस्तप्तमम्बरीषेण भूभुजा ॥
पुत्र शोकाभिभूतेन तोषितो गरुडध्वजः
॥१९॥तस्य पुत्रः सुविख्यातः सुवर्चा इति विश्रुतः ॥
एको बभूव वृद्धत्वे कथंचिद्द्विजसत्तमाः
॥२०॥पूर्वकर्मविपाकेन स बालोऽपि च तत्सुतः ॥
कुष्ठव्याधिसमाक्रांतः पितृमातृसुदुःखदः
॥२१॥अथ तत्कामिकं क्षेत्रं स गत्वा पृथिवीपतिः ॥
चकार रोगनाशाय स्वपुत्रार्थं महत्तपः
॥२२॥ततस्तुष्टिं गतस्तस्य स्वयमेव जनार्दनः ॥
प्रदाय दर्शनं वाक्यं ततः प्रोवाच सादरम्
॥२३॥परितुष्टोऽस्मि ते वत्स तस्माच्चित्तेऽभिवांछितम् ॥
प्रार्थयस्व प्रयच्छामि वरं पुत्र न संशयः
॥२४॥राजोवाच
ममायं संमतः पुत्रो ग्रस्तः कुष्ठेन केशव ॥
बालोऽपि तत्कुरुष्वास्य कुष्ठव्याधिपरिक्षयम्
॥२५॥श्रीभगवानुवाच
एष आसीत्पुरा राजा मेघवाहनसंज्ञितः ॥
ब्रह्मण्यश्च कृतज्ञश्च सर्वशास्त्रार्थपारगः
॥२६॥कस्यचित्त्वथ कालस्य ब्राह्मणोऽनेन घातितः ॥
अंतःपुरे निशाकाले प्रविष्टो जारकर्मकृत
॥२७॥अथ पश्यति यावत्स प्रभातेऽभ्युदिते रवौ ॥
यज्ञोपवीतसंयुक्तस्तावत्स द्विजरूपधृक्
॥२८॥अथ तं ब्राह्मणं मत्वा घृणाविष्टः सुदुःखितः ॥
गत्वा काशीपुरीं पश्चात्तपश्चक्रे समाहितः
॥२९॥राज्ये पुत्रं समाधाय वैराग्यं परमं गतः ॥
नियतो नियताहारो भिक्षान्नकृतभोजनः
॥३०॥ततः कालेन संप्राप्तो यमस्य सदनं प्रति ॥
विपाप्मापि च चिह्नेन युक्तोऽयं पृथिवीपतिः
॥३१॥ब्रह्मघातोद्भवेनैव बालभावेऽपि संस्थिते ॥
येऽत्र कुष्ठसमायुक्ता दृश्यंते मानवा भुवि ॥
तैर्नूनं ब्राह्मणाघातो विहितश्चान्यजन्मनि
॥३२॥हाटकेश्वरजे क्षेत्रे यो गत्वा श्राद्धमाचरेत् ॥
पितॄणां चैव सर्वेषामनृणः स प्रजायते ॥
न ब्राह्मणवधाद्बाह्यं कुष्ठव्याधिः प्रजायते ॥
एतत्सत्यं विजानीहि वदतो मम भूपते
॥३४॥अंबरीष उवाच
एतदर्थं सुराधीश मया त्वं पूजितः प्रभो ॥
प्रसन्ने त्वयि देवेश नासाध्यं विद्यते भुवि
॥३५॥एवमुक्तस्ततस्तेन भगवान्मधुसूदनः ॥
पातालजाह्नवीतोयं स सस्मार समाधिना
॥३६॥सा ध्याता सहसा तेन विष्णुना प्रभविष्णुना ॥
कृत्वा तु विवरं सूक्ष्मं विनिष्क्रांताऽथ तत्क्षणात्
॥३७॥ततः प्रोवाच वचनमंबरीषं चतुर्भुजः ॥
निमज्जतु सुतस्तेऽत्र सुपुण्ये जाह्नवीजले
॥३८॥येन कुष्ठविनिर्मुक्तस्तत्क्षणादेव जायते ॥
तथा ब्रह्मवधोद्भूतैः पातकैरुपपातकैः
॥३९॥एतस्मिन्नेव काले तु समानीय सुतं नृपः ॥
स्नापयामास तत्तोयैः प्रत्यक्षं शार्ङ्गधन्वनः
॥४०॥ततः स बालकः सद्यः स्नातमात्रो द्विजोत्तमाः ॥
कुष्ठव्याधिविनिर्मुक्तो जातो बालार्कसंनिभः
॥४१॥ततः प्रणम्य तं देवं हर्षेण महताऽन्वितः ॥
पित्रा समं जगामाथ स्वकीयं भवनं द्विजाः
॥४२॥तस्मिन्गते महीपाले सपुत्रे तत्क्षणाद्धरिः ॥
तद्रंध्रं पूरयामास यथा नो वेत्ति कश्चन
॥४३॥एतस्मात्कारणात्पूर्वं तत्तोयं सर्वपापहृत् ॥
यद्गोमुखेन भूयोऽपि भूतले प्रकटीकृतम्
॥४४॥अद्यापि तज्जलस्पर्शात्सुपवित्रो धरातले ॥
यः स्नानं सूर्यवारेण कुरुतेऽर्कोदयं प्रति ॥
तस्य नाशं द्रुतं यांति गलगंडादिका इह
॥४९॥व्याधयोपि महारौद्रा दद्रुपामा समुद्भवाः ॥
उपसर्गोद्भवाश्चैव विस्फोटकविचर्चिका
॥४६॥निष्कामस्तु पुनर्मर्त्यो यः स्नानं तत्र भक्तितः ॥
कुरुते याति लोकं स देवदेवस्य चक्रिणः
॥४७॥यस्मिन्दिने समानीता सा गंगा तत्र विष्णुना ॥
तस्मिन्दिने वृषे सूर्यः स्थितश्चित्रासु चंद्रमाः
॥४८॥तिथिश्चैकादशी चैव देवदेवस्य शार्ङ्गिणः ॥
गोवक्त्रेण तृणस्तंबं यस्मिंश्चैव तु वासरे ॥
समाकृष्टं च तत्रैव योग एवं व्यवस्थितः
॥४९॥तथान्येऽपि दिने तस्मिन्यदि तोयमवाप्य च ॥
स्नानं करोति सद्भक्त्या तत्फलं सोऽपि चाप्नुयात्
॥५०॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये गोमुखतीर्थमाहात्म्यवर्णनंनाम त्रिनवतितमोऽध्यायः ॥ ९३ ॥