गंगोदकस्नानफलमाहात्म्यवर्णनम्
ऋषय ऊचुः
सूत सूत महाभाग श्रोतुमिच्छामहे वयम् ॥
चातुर्मास्यव्रतानां हि त्वत्तो माहात्म्यविस्तरम्
॥१॥तदस्माकं महाभाग कृपां कृत्वाऽधुना वद ॥
त्वद्वचोऽमृतपानेन भूयः श्रद्धाभिवर्धते
॥२॥सूत उवाच
शृणुध्वं मुनयः सर्वे चातुर्मास्यव्रतोद्भवम् ॥
माहात्म्यं विस्तरेणैव कथयिष्यामि वोऽग्रतः
॥३॥पुरा ब्रह्ममुखाच्छ्रुत्वा नानाव्रतविधानकम् ॥
नारदः परिपप्रच्छ भूयो ब्रह्माणमादरात्
॥४॥नारद उवाच
देवदेव महाभाग व्रतानि सुबहून्यपि ॥
श्रुतानि त्वन्मुखाद्ब्रह्मन्न तृप्तिमधिगच्छति
॥५॥अधुना श्रोतुमिच्छामि चातुर्मास्यव्रतं शुभम् ॥
ब्रह्मोवाच ॥
शृणु देवमुने मत्तश्चातुर्मास्यव्रतं शुभम् ॥
यच्छ्रुत्वा भारते खंडे नृणां मुक्तिर्न दुर्लभा
॥७॥मुक्तिप्रदोऽयं भगवान्संसारोत्तारकारणम् ॥
यस्य स्मरणमात्रेण सर्वपापैः प्रमुच्यते
॥८॥मानुष्ये दुर्लभं लोके तत्राऽपि च कुलीनता ॥
तत्रापि सदयत्वं च तत्र सत्संगमः शुभः
॥९॥सत्संगमो न यत्रास्ति विष्णुभक्तिर्व्रतानि च ॥
चातुर्मास्ये विशेषेण विष्णुव्रतकरः शुभः
॥१०॥चातुर्मास्येऽव्रती यस्तु तस्य पुण्यं निरर्थकम् ॥
सर्वतीर्थानि दानानि पुण्यान्यायतनानि च
॥११॥विष्णुमाश्रित्य तिष्ठंति चातुर्मास्ये समागते ॥
सुपुष्टेनापि देहेन जीवितं तस्य शोभनम्
॥१२॥चातुर्मास्ये समायाते हरिं यः प्रणमेद्बुधः ॥
कृतार्थास्तस्य विबुधा यावज्जीवं वरप्रदाः
॥१३॥संप्राप्य मानुषं जन्म चातुर्मास्यपराङ्मुखः ॥
तस्य पापशतान्याहुर्देहस्थानि न संशयः
॥१४॥मानुष्यं दुर्लभं लोके हरिभक्तिश्च दुर्लभा ॥
चातुर्मास्ये विशेषेण सुप्ते देवे जनार्दने
॥१५॥चातुर्मास्ये नरः स्नानं प्रातरेव समाचरेत् ॥
सर्वक्रतुफलं प्राप्य देववद्दिवि मोदते
॥१६॥चातुर्मास्ये तु यः स्नानं कुर्यात्सिद्धिमवाप्नुयात् ॥
तथा निर्झरणे स्नाति तडागे कूपिकासु च
॥१७॥तस्य पापसहस्राणि विलयं यांति तत्क्षणात् ॥
पुष्करे च प्रयागे वा यत्र क्वापि महाजले ॥
चातुर्मास्येषु यः स्नाति पुण्यसंख्या न विद्यते
॥१८॥रेवायां भास्करक्षेत्रे प्राच्यां सागरसंगमे ॥
एकाहमपि यः स्नातश्चातुर्मास्ये न दोषभाक्
॥१९॥दिनत्रयं च यः स्नाति नर्मदायां समाहितः ॥
सुप्ते देवे जगन्नाथे पापं याति सहस्रधा
॥२०॥पक्षमेकं तु यः स्नाति गोदावर्यां दिनोदये ॥
स भित्त्वा कर्मजं देहं याति विष्णोः सलोकताम्
॥२१॥तिलोदकेन यः स्नाति तथा चैवामलोदकैः ॥
बिल्वपत्रोदकैश्चैव चातुर्मास्ये न दोषभाक्
॥२२॥गंगां स्मरति यो नित्यमुदपात्रसमीपतः ॥
तद्गांगेयं जलं जातं तेन स्नानं समाचरेत्
॥२३॥गंगाऽपि देवदेवस्य चरणांगुष्ठवाहिनी ॥
पापघ्नी सा सदा प्रोक्ता चातुर्मास्ये विशेषतः
॥२४॥यतः पापसहस्राणि विष्णुर्दहति संस्मृतः ॥
तस्मात्पादोदकं शीर्षे चातुर्मास्ये धृतं शिवम्
॥२५॥चातुर्मास्ये जलगतो देवो नारायणो भवेत् ॥
सर्वतीर्थाधिकं स्नानं विष्णुतेजोंशसंगतम्
॥२६॥स्नानं दशविधं कार्यं विष्णुनाम महाफलम् ॥
सुप्ते देवे विशेषेण नरो देवत्वमाप्नुयात्
॥२७॥विना स्नानं तु यत्कर्म पुण्यकार्यमयं शुभम् ॥
क्रियते निष्फलं ब्रह्मंस्तत्प्रगृह्णंति राक्षसाः
॥२८॥स्नानेन सत्यमाप्नोति स्नानं धर्मः सनातनः ॥
धर्मान्मोक्षफलं प्राप्य पुनर्नैवावसीदति
॥२९॥ये चाध्यात्मविदः पुण्या ये च वेदांगपारगाः ॥
सर्वदानप्रदा ये च तेषां स्नानेन शुद्धता
॥३॥कृतस्नानस्य च हरिर्देहमाश्रित्य तिष्ठति ॥
सर्वक्रियाकलापेषु संपूर्ण फलदो भवेत्
॥३१॥सर्वपापविनाशाय देवता तोषणाय च ॥
चातुर्मास्ये जलस्नानं सर्वपापक्षयावहम्
॥३२॥निशायां चैव न स्नायात्संध्यायां ग्रहणं विना ॥
उष्णोदकेन न स्नानं रात्रौ शुद्धिर्न जायते
॥३३॥भानुसंदर्शनाच्छुद्धिर्विहिता सर्वकर्मसु ॥
चातुर्मास्ये विशेषेण जलशुद्धिस्तु भाविनी
॥३४॥अशक्त्या तु शरीरस्य भस्मस्नानेन शुध्यति ॥
मंत्रस्नानेन विप्रेंद्र विष्णुपादोदकेन वा
॥३५८॥नारायणाग्रतः स्नानं क्षेत्र तीर्थनदीषु च ॥
यः करोति विशुद्धात्मा चातुर्मास्ये विशेषतः
॥३६॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये शेषशाय्युपाख्याने चातुर्मास्यमाहात्म्ये ब्रह्मनारदसंवादे गंगोदकस्नानफलमाहात्म्यवर्णनंनाम त्रयस्त्रिंशदुत्तरद्विशततमोऽध्यायः ॥ २३३ ॥