मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — नागरखण्डः, अध्याय ७३

3
नागरखण्डः · 73

धृतराष्ट्रादिकृतप्रासादस्थापनोद्यमवर्णनम्

सूत उवाच

एवं ते कौरवाः सर्वे पांडोः पुत्राश्च शालिनः ॥

तस्मात्स्थानात्ततो जग्मुर्यत्र द्वारवती पुरी

॥१॥

तत्र गत्वा विवाहं तु चक्रुः संहृष्टमानसाः ॥

दुर्योधनस्य भूपस्य भानुमत्या समं तदा

॥२॥

नानावादित्रघोषेण वेदध्वनियुतेन च ॥

गीतैर्मनोहरैः पाठैर्बन्दिनां च सहस्रशः

॥३॥

एवं महोत्सवो जज्ञे तत्र यावद्दिनाष्टकम् ॥

यादवानां कुरूणां च मिलितानां परस्परम्

॥४॥

कृतार्थास्तत्र संजाताः सूतमागध बन्दिनः ॥

चारणा ब्राह्मणेंद्राश्च तथान्येऽपि च तार्किकाः

॥५॥

ततस्तु नवमे प्राप्ते दिवसे कुरुपांडवाः ॥

भीष्माद्याः पुंडरीकाक्षमिदमूचुः ससौहृ दम्

॥६॥

न वयं पुंडरीकाक्ष तव रामस्य चाश्रयम् ॥

कथंचित्त्यक्तुमिच्छामः स्नेहपाशनियंत्रिताः

॥७॥

तथापि च प्रगन्तव्यं स्वपुरं प्रति माध व ॥

बलभद्रसमायुक्तस्तस्मान्नः कुरु मोक्षणम्

॥८॥

विष्णुरुवाच

न तावद्वत्सरो जातो न मासः पक्ष एव च ॥

स्थितानामत्र युष्माकं तत्किमौत्सुक्यमागतम्

॥९॥

तस्मादत्रैव तिष्ठामः सहिताः कुरुपांडवाः ॥

यूयं वयं विनोदेन मृगयाक्षोद्भवेन च

॥१०॥

शस्त्रशिक्षाक्रियाभिश्च दमनेन च दन्तिनाम् ॥

तथाभिवांछितैरन्यैः स्नेहोऽस्ति यदि वो मयि

॥११॥

भीष्म उवाच

उपपन्नमिदं विष्णो यत्त्वया व्याहृतं वचः ॥

परं शृणुष्व मे वाक्यं यदर्थं ह्युत्सुका वयम्

॥१२॥

आनर्तविषयेऽस्माभिरागच्छद्भिस्तवांतिकम् ॥

दृष्टमत्यद्भुतं क्षेत्रं हाटकेश्वरजं महत् ॥

तत्र लिंगानि दृष्टानि भूपतीनां महात्मनाम्

॥१३॥

सूर्यचन्द्रान्वयोत्थानामन्येषां च महात्मनाम्

॥१४॥

देवानां दानवानां च मुनीनां च विशेषतः ॥

साकाराणि सुतेजांसि नानाप्रासादभोजि च

॥१५॥

ततश्च कुरुमुख्यानां पांडवानां च माधव ॥

लिंगसंस्थापनार्थाय तत्र जाता मतिर्दृढा

॥१६॥

ते वयं तत्र गत्वाशु यथाशक्त्या यथेच्छया ॥

लिंगानि स्थापयिष्यामः स्वानिस्वानि पृथक्पृथक्

॥१७॥

एतस्मात्कारणात्तूर्णं चलिता वयमच्युत ॥

न वयं तव संगस्य तृप्यामोऽब्दशतैरपि

॥१८॥

तस्मादाज्ञापयस्वाद्य कृत्वा चित्तं दृढं विभो ॥

भूयोऽप्यत्रागमिष्यामस्तव दर्शनलालसाः

॥१९॥

श्रीभगवानुवाच

अहं जानामि तत्क्षेत्रं सुपुण्यं पापनाशनम् ॥

तापसैः कीर्तितं नित्यं ममान्यैस्तीर्थयात्रिकैः

॥२०॥

तस्मात्तत्र समेष्यामो युष्माभिः सहिता वयम् ॥

लिंग संस्थापनार्थाय क्षेत्रदर्शनवांछया

॥२१॥

सूत उवाच

तच्छुत्वा कौरवाः सर्वे परं हर्षमुपागताः ॥

तथा पांडुसुताश्चैव ये चान्ये तत्र पार्थिवाः ॥

ते तु संप्रस्थिताः सर्वे मिलिताः कुरुपांडवाः ॥

गजवाजिविमर्देन कम्पयन्तो वसुन्धराम्

॥२३॥

अथ तत्क्षेत्रमासाद्य दूरे कृत्वा निवेशनम् ॥

कौरवा यादवा मुख्याश्चमत्कारपुरं गताः

॥२४॥

तत्र सर्वान्समाहूय ब्राह्मणान्विनयान्विताः ॥

प्रोचुर्दत्त्वा विचित्राणि भूषणाच्छादनानि च

॥२५॥

वयं सर्वेऽत्र वांछामो लिगसंस्थापनक्रियाम् ॥

कर्तुं प्रासादमुख्यानां पृथक्त्वेन स्वशक्तितः

॥२६॥

तस्मात्कृत्वा प्रसादं नो दयां च द्विजसत्तमाः ॥

आज्ञापयत शीघ्रं हि येन कर्म प्रवर्तते

॥२७॥

भविष्यथ तथा यूयं होतारः सर्वकर्मसु ॥

न चान्यो ब्राह्मणो बाह्यो यद्यपि स्याद्बृहस्पतिः

॥२८॥

यतोऽस्माभिः श्रुता वार्ता कीर्त्यमाना पुरातनी ॥

विष्णुना तस्य राजर्षेः प्रेतश्राद्धसमुद्भवा

॥२९॥

यथा तेन कृतं श्राद्धं पितुः प्रेतस्य यत्नतः ॥

ब्राह्मणानां पुरोऽन्येषां यथोक्तानामपि द्विजाः

॥३०॥

यथोक्तविधिना तीर्थे नागानां पंचमीदिने ॥

श्रावणे मासि नो मुक्तः पिता तस्य तथापि सः

॥३१॥

प्रेतत्वात्सर्पदोषेण संजाता द्विजसत्तमाः ॥

देवशर्मपुरो यावत्तत्कृतं श्राद्धमादरात् ॥

तावत्पिता विनिर्मुक्तः प्रेतत्वाद्दारुणाद्द्विजाः

॥३२॥

यदत्र क्रियते किंचित्कर्म धर्म्यं द्विजोत्तमाः ॥

तद्बाह्यं च भवेद्व्यर्थमेतद्विद्मः स्फुटं वयम्

॥३३॥

प्रार्थयामो विशेषेण तेन दैन्यं समागताः ॥

प्रसादः क्रियतां तस्मादाज्ञां यच्छत मा चिरम्

॥३४॥

सूत उवाच

तेषां तद्वचनं श्रुत्वा ब्राह्मणास्ते परस्परम् ॥

मन्त्रं चक्रुस्तदर्थं हि किं कृतं सुकृतं भवेत्

॥३५॥

एके प्रोचुर्न दास्यामः प्रासादार्थं वसुन्धराम् ॥

एतेषामपि चैकस्य तस्माद्गच्छंतु सत्वरम्

॥३६॥

पंचक्रोशप्रमाणेन क्षेत्रमेतद्व्यवस्थितम् ॥

पूर्वेषामपि देवानां प्रासादैस्तत्समावृतम्

॥३७॥

अन्ये प्रोचुर्धनोमत्ता यूयं च सुखमाश्रिताः ॥

दारिद्यार्तिं न जानीथ ब्रूथ तेन भृशं वचः

॥३८॥

तस्माद्वयं प्रदास्याम एतेषां हि वसु न्धराम् ॥

अर्थसिद्धिर्भवेद्येन भूषा स्थानस्य जायते

॥३९॥

तथान्ये मध्यमाः प्रोचुर्यत्र साक्षाज्जनार्दनः ॥

स्वयं प्रार्थयते भूमिं तत्कस्मान्न प्रदीयते

॥४०॥

तस्माद्यत्र समायाताः कुरुपांडवयादवाः ॥

प्राधान्येन प्रकुर्वंतु प्रासादांस्तेन चापरे

॥४१॥

याचते यत्र गांगेयः स्वयमेव तथा परः ॥

धृतराष्ट्रः सपुत्रश्च पांडवाश्च महाबलाः ॥

लिंगसंस्थापनार्थाय निषेधस्तत्र नार्हति

॥४२॥

तेषां तद्वचनं श्रुत्वा प्रतिपन्नं द्विजोत्तमैः ॥

निर्धनैः सधनैश्चापि सस्पृहैर्निःस्पृहैरपि

॥४३॥

ततः समेत्य ते सर्वे ब्राह्मणाः कुरुसत्तमान् ॥

यादवान्पांडवान्प्रोचुः कृत्वा वै मन्त्रनिश्चयम्

॥४४॥

ब्राह्मणा ऊचुः

एतत्स्वल्पतरं क्षेत्रं सर्वेषामपि भूभुजाम् ॥

प्रासादैः सर्वतो व्याप्तं तत्किं ब्रूमोऽधुना वयम्

॥४५॥

तद्भवंतः प्रकुर्वंतु प्राधान्येन यदृच्छया ॥

क्षेत्रेऽत्रैवाभिमुख्येन प्रासादान्सुमनोहरान् ॥

यथाज्येष्ठं यथाश्रेष्ठं पृथक्त्वेन व्यवस्थिताः

॥४६॥

अथ हर्षसमायुक्ता धृतराष्ट्रमुखाः क्रमात् ॥

प्राधान्येन यथाश्रेष्ठं चक्रुः प्रासादपद्धतिम्

॥४७॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये धृतराष्ट्रादिकृतप्रासादस्थापनोद्यमवर्णनंनाम त्रिसप्ततितमोऽध्यायः ॥ ७३ ॥