मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — नागरखण्डः, अध्याय ४७

3
नागरखण्डः · 47

महाकालेश्वरमाहात्म्यवर्णनम्

ऋषय ऊचुः

महाकालस्य माहात्म्यं विस्तरेण महामते ॥

अस्माकं सूतज ब्रूहि सर्वं वेत्ति यतो भवान्

॥१॥

सूत उवाच

आसीत्पूर्वं महीपाल इक्ष्वाकुकुलनन्दनः ॥

रुद्रसेन इति ख्यातः सर्वशत्रुनिषूदनः

॥२॥

समुद्र इव गांभीर्ये सौम्यत्वे शशिसंनिभः ॥

वीर्ये यथा सहस्राक्षो रूपे कन्दर्पसन्निभः

॥३॥

तस्य कांतीति विख्याता पुरी सर्वगुणान्विता ॥

राजधान्यभवच्छ्रेष्ठा प्रोच्चप्राकारतोरणा

॥४॥

तथैवासीत्प्रिया तस्य भार्या परमसंमता ॥

ख्याता पद्मवतीनाम रूपौदार्य गुणान्विता

॥५॥

स तया सहितो राजा वैशाख्या दिवसे सदा ॥

समभ्येति निजस्थानात्सैन्येनाल्पेन संवृतः

॥६॥

चमत्कारपुरे क्षेत्रे पीठे तत्र द्विजोत्तमाः ॥

महाकालस्य देवस्य पुरतो रात्रिजागरम् ॥

करोति श्रद्धया युक्तः सभार्यः स महीपतिः

॥७॥

उपवासपरो भूत्वा ध्यायमानो महेश्वरम् ॥

गीतवाद्येन हृद्येन नृत्येन द्विजसत्तमाः ॥

धर्माख्यानेन विप्राणां वेदाध्ययनविस्तरैः

॥८॥

ततः प्रातः समुत्थाय स्नात्वा धौतांबरः शुचिः ॥

ददौ दानानि विप्रेभ्यस्तपस्विभ्यो विशेषतः

॥९॥

दीनांधकृपणेभ्यश्च तथान्येभ्यः सहस्रशः ॥

वर्षेवर्षे सदैवं स समभ्येत्य महीपतिः ॥

वैशाख्यां जागरं तस्य देवस्य पुरतोऽकरोत्

॥१०॥

यथायथा स भूपालः कुरुते रात्रिजागरम् ॥

महाकालाग्रतस्तस्य तथा वृद्धिः प्रजायते

॥११॥

शत्रवो विलयं यांति लक्ष्मीर्वृद्धिं प्रगच्छति ॥

एकदा स समायातस्तत्र यावन्महीपतिः

॥१२॥

तत्रैव दिवसे तावन्महाकालस्य चाग्रतः ॥

अपश्यद्ब्राह्मणश्रेष्ठान्नानादिग्भ्यः समागतान्

॥१३॥

वेदाध्ययनसंपन्नान्व्रतनिष्ठापरायणान् ॥

एके तत्र कथाश्चक्रुः सुपुण्या ब्राह्मणोत्तमाः

॥१४॥

राजर्षीणां पुराणानां देवर्षीणां तथा परे ॥

तीर्थानां च तथा चान्ये ब्रह्मर्षीणां तथा परे ॥

यज्ञानां सागराणां च द्वीपानां च मनोहराः

॥१५॥

अथ तान्पृथिवीपालः स प्रणम्य यथाक्रमम् ॥

उपविष्टः सभामध्ये तैः सर्वैश्चाभिनंदितः

॥१६॥

कस्मिंश्चिदथ संप्राप्ते कथांते ते मुनीश्वराः ॥

पप्रच्छुर्भूमिपालं तु कौतूहलसमन्विताः

॥१७॥

वैशाखीदिवसे राजंस्त्वं सदाभ्येत्य दूरतः ॥

वर्षेवर्षेऽस्य देवस्य पुरतो रात्रिजागरम्

॥१८॥

प्रकरोषि प्रयत्नेन त्यक्त्वान्याः सकलाः क्रियाः ॥

स्नानदानादिका याश्च निर्दिष्टाः शास्त्रचिंतकैः

॥१९॥

न ते यदि रहस्यं स्यात्तदाऽशेषं प्रकीर्तय ॥

नूनं त्वं वेत्सि तत्सर्वं यत्फलं रात्रिजागरे

॥२०॥

राजोवाच

रहस्यं परमं चैव यत्पृष्टोऽहं द्विजोत्तमाः ॥

युष्माभिः कीर्तयिष्यामि तथाप्यखिलमेव हि ॥

२१० अहमासं वणिग्जात्या पुरा वै वैदिशे पुरे ॥

निर्धनो बंधुभिर्मुक्तः परिभूतः पदेपदे

॥२२॥

कस्यचित्त्वथ कालस्य भगवान्पाकशासनः ॥

वैदिशे नाकरोद्वृष्टिं सप्त वर्षाणि पंच च

॥२३॥

ततो वृष्टिनिरोधेन सर्वे लोकाः क्षुधार्द्दिताः ॥

अन्नाभावान्मृताः केचित्केचिद्देशांतरे गताः

॥२४॥

ततोऽहं स्वां समादाय पत्नीं क्षुत्क्षामगात्रिकाम् ॥

अश्रुपूर्णमुखीं दीनां प्रस्खलन्तीं पदेपदे

॥२५॥

सौराष्ट्रं मनसि ध्यात्वा प्रस्थितस्तदनन्तरम् ॥

सुभिक्षं लोकतः श्रुत्वा जीवनाय द्विजोत्तमाः

॥२६॥

क्रमेण गच्छमानोऽथ भिक्षान्नकृतभोजनः ॥

आनर्तविषयं प्राप्तश्चमत्कारपुरांतिके

॥२७॥

तत्र रम्यं मया दृष्टं पद्मिनीखण्डमंडितम् ॥

सरः स्वच्छोदकापूर्णं जलपक्षिभिरावृतम्

॥२८॥

ततोऽहं तत्समासाद्य स्नातः शीतेन वारिणा ॥

क्षुधार्तश्च तृषार्तश्च श्रमार्तश्च विशेषतः

॥२९॥

अथाहं भार्यया प्रोक्तो गृहाणेश जलाशयात् ॥

जलजानि क्रयार्थाय येन स्यादद्य भोजनम्

॥३०॥

एतत्संदृश्यते दूरात्पुरंदरपुरोपमम् ॥

पुरश्रेष्ठं समासाद्य विक्रयं कर्तुमर्हसि

॥३॥

ततो मया गृहीतानि पद्मानि द्विजसत्तमाः ॥

विक्रयार्थं प्रभूतानि वाच्छमानेन भोजनम्

॥३२॥

चमत्कारपुरं प्राप्य ततोऽहं द्विजसत्तमाः ॥

भ्रांतस्त्रिकेषु सर्वेषु चत्वरेषु गृहेषु च

॥३३॥

न कश्चित्प्रतिगृह्णाति तानि पद्मानि मानवः ॥

मम भाग्यवशाल्लोको जातः क्रयपराङ्मुखः

॥३४॥

अथ क्षुत्क्षामकण्ठस्य श्रांतस्य मम भास्करः ॥

अस्ताचलमनुप्राप्तः संध्याकालस्ततोऽभवत्

॥३५॥

ततो वैराग्यमापन्नः सुप्तोऽहं भग्नमंदिरे ॥

तानि पद्मानि भूपृष्ठे निधाय सह भार्यया

॥३६॥

अथार्धरात्रे संप्राप्ते श्रुतो गीतध्वनिर्मया ॥

ततश्च चिंतितं चित्ते जागरोऽयमसंशयम्

॥३७॥

तस्माद्गच्छामि चेत्कश्चित्पद्मान्येतानि मे नरः ॥

मूल्येन प्रतिगृह्णाति भोजनं जायते ततः

॥३८॥

एवं विनिश्चयं कृत्वा पद्मान्यादाय सत्वरम् ॥

सभार्यः प्रस्थितस्तत्र यत्र गीतस्य निःस्वनः

॥३९॥

ततश्चायतने तस्मिन्प्राप्तोऽहं मुनिपुंगवाः ॥

अपश्यं देवदेवेशं महाकालं प्रपूजितम् ॥

अग्रस्थितैर्द्विजश्रेष्ठैर्जपगीतपरायणैः

॥४०॥

एके नृत्यं प्रकुर्वंति गीतमन्ये जपं परे ॥

अन्ये होमं द्विजश्रेष्ठा धर्माख्यानमथापरे

॥४१॥

ततः कश्चिन्मया पृष्टः क्रियते जागरोऽत्र किम् ॥

क एते जागरासक्ता लोकाः कीर्तय मे द्रुतम्

॥४२॥

तेनोक्तमेष देवस्य महाकालस्य जागरः ॥

क्रियते ब्राह्मणैर्भक्त्या उपवासपरायणैः

॥४३॥

अद्य पुण्यतिथिर्नाम वैशाखी पुण्यदा परा ॥

यस्यामस्य पुरो भक्त्या नरः कुर्यात्प्रजागरम् ॥

महाकालस्य देवस्य सौख्यं प्राप्नोत्यसंशयम्

॥४४॥

संति पद्मानि मे यच्छ मूल्यमादाय भद्रक ॥

भोजनार्थमहं दद्मि कलधौतपलत्रयम्

॥४५॥

ततोऽवधारितं चित्ते मया ब्राह्मणसत्तमाः ॥

पूजयामि महाकालं पद्मैरेतैः सुरेश्वरम्

॥४६॥

न मया सुकृतं किंचिदन्यदेहांतरे कृतम् ॥

नियतं तेन संभूत इत्थंभूतोऽस्मि दुर्गतः

॥४७॥

परं क्षुत्क्षामकंठेयं भार्या मे प्रियवादिनी ॥

अन्नाभावान्न संदेहः प्रातर्यास्यति संक्षयम्

॥४८॥

एवं चिंतयमानस्य मम सा दयिता ततः ॥

प्रोवाच मधुरं वाक्यं विनयावनता स्थिता

॥४९॥

मा नाथ कुरु पद्मानां विक्रयं धनलोभतः ॥

कुरुष्व च हितं वाक्यं यत्ते वक्ष्यामि सांप्रतम्

॥५०॥

उपवासो बलाज्जातः सस्याभावादसंशयम् ॥

अस्माकं जागरं चापि भविष्यति बुभुक्षया

॥५१॥

तत्रोभाभ्यां कृतं स्नानं दिवा सरसि शोभने ॥

घर्मार्त्ताभ्यां श्रमार्त्ताभ्यां कृतदेवार्चनं तथा

॥५२॥

तस्माद्देवं महाकालं पूजयामोऽधुना वयम् ॥

पद्मैरेतैः परं श्रेय आवयोर्येन जायते

॥५३॥

राजोवाच

उभाभ्यामथ हृष्टाभ्यां पूजितोऽयं महेश्वरः ॥

तैः पद्मैः सत्त्वमास्थाय कृत्वा पूजां द्विजोत्तमाः

॥५४॥

क्षुत्पीडया समायाता नैव निद्रा कथंचन ॥

स्वल्पापि मंदिरे चात्र स्थितयोर्हरसन्निधौ

॥५५॥

ततः प्रभातसमये प्रोद्गते रविमंडले ॥

मृतोऽहं क्षुधयाविष्टः स्थानेऽत्रैव द्विजोत्तमाः

॥५६॥

अथ सा दयिता मह्यं तदादाय कलेवरम् ॥

हर्षेण महताविष्टा प्रविष्टा हव्यवाहनम्

॥५७॥

तत्प्रभावादहं जातः कांतीनाथो महीपतिः ॥

दशार्णाधिपतेः कन्या सापि जातिस्मरा सती

॥५८॥

ततः स्वयंवरं प्राप्ता मां विज्ञाय निजं पतिम् ॥

मयापि सैव विज्ञाय पूर्वपत्नी समाहृता

॥५९॥

एतस्मात्कारणादस्य महाकालस्य जागरम् ॥

वर्षेवर्षे च वैशाख्यां करोमि द्विजसत्तमाः

॥६०॥

अनया प्रियया सार्धं पुष्पधूपानुलेपनैः ॥

पूजयित्वा महाकालं सत्यमेतन्मयोदितम्

॥६१॥

कृतो विप्रा मया त्वेष स तदा रात्रिजागरः ॥

यथाप्येतत्फलं जातं देवस्यास्य प्रभावतः

॥६२॥

अधुना श्रद्धया युक्तो यथोक्तविधिना ततः ॥

यत्करोमि न जानामि किं मे संयच्छते फलम्

॥६३॥

एतद्वः सर्वमाख्यातं मया सत्यं द्विजोत्तमाः ॥

येन सत्येन तेनैष महाकालः प्रसीदतु

॥६४॥

सूत उवाच

एतच्छ्रुत्वा द्विजश्रेष्ठा विस्मयोत्फुल्ललोचनाः ॥

प्रचक्रुर्जपतेस्तस्य साधुवादाननेकशः

॥६५॥

ब्राह्मणा ऊचुः

सत्यमुक्तं महीपाल त्वयैतदखिलं वचः ॥

महाकालप्रसादेन न किंचिद्दुर्लभं भुवि

॥६६॥

तस्माद्विशेषतः सर्वे वर्षेवर्षे वयं नृप ॥

करिष्यामोऽस्य देवस्य श्रद्धया रात्रिजागरम्

॥६७॥

ततः स पार्थिवस्ते च सर्व एव द्विजातयः ॥

प्रचक्रुर्जागरं तस्य महाकालस्य संनिधौ

॥६८॥

विशेषाद्धर्षसंयुक्ता विविधैर्गीतवादनैः ॥

धर्माख्यानैश्च नृत्यैश्च वेदोच्चारैः पृथग्विधैः ॥

तदारभ्य नृपाः सर्वे प्रचक्रुर्विस्मयान्विताः

॥६९॥

ततः प्रभाते विमले समुत्थाय स भूपतिः ॥

पूजयित्वा महाकालं तांश्च सर्वान्द्विजोत्तमान् ॥

अनुज्ञाप्य ययौ हृष्टः ससैन्यः स्वपुरं प्रति

॥७०॥

ततः कालेन संप्राप्य देहान्तं स महीपतिः ॥

संप्राप्तः परमं स्थानं जरामरणवर्जितम्

॥७१॥

एतद्वः सर्वमाख्यातं महाकालसमुद्भवम् ॥

माहात्म्यं ब्राह्मण श्रेष्ठाः सर्वपातकनाशनम्

॥७२॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे श्रीहाटकेश्वरक्षेत्रमाहात्म्ये महाकालेश्वरमाहात्म्यवर्णनंनाम सप्तचत्वारिंशत्तमोऽध्यायः ॥ ४७ ॥