मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — नागरखण्डः, अध्याय ४

3
नागरखण्डः · 4

विश्वामित्रकृतत्रिशंकुयाजनोपक्रमवर्णनम्

सूत उवाच

त्रिशंकुरिति संचिन्त्य विश्वामित्रं महामुनिम्।

मनसा सुचिरं कालं ततश्चक्रे विनिश्चयम्

॥१॥

विश्वामित्रं परित्यज्य नान्योस्ति भुवनत्रये।

यः कुर्यान्मे परित्राणं दुःखादस्मात्सुदारुणात्

॥२॥

कुरुक्षेत्रं समुद्दिश्य प्रतस्थे स ततः परम्।

सुश्रांतः क्षुत्पिपासार्तो मार्गपृच्छापरायणः

॥३॥

ततः कालेन संप्राप्य कुरुक्षेत्रं स पार्थिवः।

यत्नेनान्वेषयामास विश्वामित्राश्रमं ततः

॥४॥

एवं चान्वेषमाणेन तेन भूमिभृता तदा।

सुदूरादेव संदृष्टं नीलद्रुमकदम्बकम्

॥५॥

उपरिष्टाद्बकैर्हंसैर्भ्रममाणैः समंततः।

आटिभिर्मद्गुभिश्चैव समन्ताज्जलपक्षिभिः

॥६॥

स मत्वा सलिलं तत्र पिपासार्तो महीपतिः।

प्रतस्थे सत्वरो हृष्टो जलवातहृतक्लमः

॥७॥

अथापश्यन्मनोहारि सौम्यसत्त्वनिषेवितम्।

आश्रमं नदितीरस्थं मनःशोकविनाशनम्

॥८॥

पुष्पितैः फलितैर्वृक्षैः समंतात्परिवारितम्।

विविधैर्मधुरारावैर्नादितं विहगोत्तमैः

॥९॥

क्रीडंति नकुलाः सर्पैरूलूका यत्र वायसैः।

मूषकैर्वृषदंशाश्च द्वीपिनो विविधैर्मृगैः

॥१०॥

अथापश्यन्नदीतीरे स तपस्विगणावृतम्।

स्वाध्यायनिरतं दांतं विश्वामित्रं तपोनिधिनम्

॥११॥

तेजसा तपसातीव दीप्यमानमिवानलम्।

चीरवल्कलसंवीतं शालवृक्षं समाश्रितम्

॥१२॥

अथ गत्वा स राजेन्द्रो दूरस्थोऽपि प्रणम्य तम्।

अष्टांगेन प्रणामेन स्वनाम परिकीर्तयन्

॥१३॥

तथान्यानपि तच्छिष्यान्कृताञ्जलिपुटः स्थितः।

यथाक्रमं यथाज्येष्ठं श्रद्धया परया युतः

॥१४॥

धूलिधूसरितांगं तं ते तु दृष्ट्वा महीपतिम्।

चंडाल इति मन्वानाश्चिह्नैर्गात्रसमुद्भवैः

॥१५॥

भर्त्सयामासुरेवाथ वचनैः परुषाक्षरैः।

धिक्छब्दैश्च तथैवान्ये याहियाहीति चासकृत्

॥१६॥

कस्त्वं पापेह संप्राप्तो मुनीनामाश्रमोत्तमे।

वेदध्वनिसमाकीर्णे साधूनामपि दुर्लभे

॥१७॥

तस्माद्गच्छ द्रुतं यावन्न कश्चित्तापसस्तव।

दत्त्वा शापं करोत्याशु प्राणानामपि संक्षयम्

॥१८॥

त्रिशंकुरुवाच

त्रिशंकुर्नाम भूपोऽहं सूर्यवंशसमुद्भवः।

शप्तो वसिष्ठपुत्रैश्च चंडालत्वे नियोजितः

॥१९॥

सोऽहं शरणमापन्नः शापमुक्त्यै द्विजोत्तमाः।

विश्वामित्रं जगन्मित्रं नान्या मेऽस्ति गतिः परा

॥२०॥

विश्वामित्र उवाच

वसिष्ठस्य भवान्याज्यस्तत्पुत्राणां विशेषतः।

तत्कस्मादीदृशे पापे तैस्त्वमद्य नियोजितः

॥२१॥

कोऽपराधस्त्वया तेषां कृतः पार्थिवसत्तम।

प्राणद्रोहः कृतः किं वा दारधर्षणसंभवः

॥२२॥

त्रिशंकुरुवाच

अनेनैव शरीरेण स्वर्गाय गमनं प्रति।

मया संप्रार्थितो यज्ञो वसिष्ठान्मुनिसत्तमात्

॥२३॥

तेनोक्तं न स यज्ञोऽस्ति येन स्वर्गे प्रगम्यते।

अनेनैव शरीरेण मुक्त्वा देहांतरं नृप

॥२४॥

तच्छ्रुत्वा स मया प्रोक्तो यदि मां न नयिष्यति।

स्वर्गं चानेन कायेन सद्यो यज्ञप्रभावतः

॥२५॥

तदन्यं गुरुमेवाद्य कर्ताहं नास्ति संशयः।

एतज्ज्ञात्वा मुनिः प्राह यत्क्षेमं तत्समाचर

॥२६॥

ततोऽहं तेन संत्यक्तस्तत्पुत्रान्प्राप्य निष्ठुरान्।

प्रोक्तवानथ तत्सर्वं यद्वसिष्ठस्य कीर्तितम्

॥२७॥

ततस्तैः शोकसंतप्तैः शप्तोस्मि मुनिसत्तम।

नीतश्चेमां दशां पापां चंडालत्वे नियोजितः

॥२८॥

सोऽहं त्वां मनसा ध्यात्वा सुदूरादिहरागतः(?)।

आशां गरीयसीं कृत्वा कुरुक्षेत्रे मुनीश्वर

॥२९॥

नासाध्यं विद्यते किंचित्त्रिषु लोकेषु ते मुने।

तस्मात्कुरु प्रतीकारं दुःखितस्य ममाधुना

॥३०॥

सूत उवाच

तस्य तद्वचनं श्रुत्वा विश्वामित्रो मुनीश्वरः।

वसिष्ठस्पर्धयोवाच मुनिमध्ये व्यवस्थितः

॥३१॥

अहं त्वां याजयिष्यामि तेन यज्ञेन पार्थिव।

गच्छसि त्रिदिवं येन इष्टमात्रेण तत्क्षणात्

॥३२॥

त्वमेवं विहितो भूप वासिष्ठैरंत्यजस्तु तैः।

मया भूयोऽपि भूपालः कर्तव्यो नात्र संशयः

॥३३॥

तस्मादागच्छ भूपाल तीर्थयात्रां मया सह।

कुरु तीर्थप्रभावेण येन त्वं स्याः शुचिः पुनः

॥३४॥

तथा यज्ञक्रियार्हश्च चंडालत्वविवर्जितः।

नास्ति तत्पातकं यच्च तीर्थस्नानान्न नश्यति

॥३५॥

सूत उवाच

एवं स निश्चयं कृत्वा गाधिपुत्रो मुनीश्वरः।

त्रिशंकुं पृष्ठतः कृत्वा तीर्थयात्रामथाव्रजत्

॥३६॥

कुरुक्षेत्रं सरस्वत्यां प्रभासे कुरुजांगले।

पृथूदके गयाशीर्षे नैमिषे पुष्करत्रये

॥३७॥

वाराणस्यां प्रयागे च केदारे श्रवणे नदे।

चित्रकूटे च गोकर्णे शालिग्रामेऽचलेश्वरे

॥३८॥

शुक्लतीर्थे सुराज्याख्ये दृषद्वति नदे शुभे।

अथान्येषु सुपुण्येषु तीर्थेष्वायतनेषु च

॥३९॥

एवं तस्य नरेंद्रस्य सार्धं तेन महात्मना।

अतिक्रांतो महान्कालो भ्रममाणस्य भूतले

॥४०॥

मुच्यते न च पापेन चंडालत्वेन स द्विजाः।

एवंविधेषु तीर्थेषु स्नातोपि च पृथक्पृथक्

॥४१॥

ततः क्रमात्समायातः सोऽर्बुदं पर्वतं प्रति।

तत्रारुह्य समालोक्य पापघ्नमचलेश्वरम्

॥४२॥

यावदायतनात्तस्मान्निर्गच्छति मुनीश्वरः।

तावत्तेनेक्षितो नाममार्कंडो मुनिसत्तमः

॥४३॥

सोऽपि दृष्ट्वा जगन्मित्रं विश्वामित्रं मुनीश्वरम्।

प्रोवाचाथ कुतः प्राप्तः सांप्रतं त्वं मुनीश्वर

॥४४॥

कोऽयं तवानुगो रौद्रो दृश्यते चांत्यजाकृतिः।

एतत्सर्वं समाचक्ष्व पृच्छतो मम सन्मुने

॥४५॥

विश्वामित्र उवाच

एष पार्थिवशार्दूलस्त्रिशंकुरिति विश्रुतः।

वसिष्ठस्य सुतैर्नीतश्चंडालत्वं प्रकोपतः

॥४६॥

मया चास्य प्रतिज्ञातं सप्तद्वीपवतीं महीम्।

प्रभ्रमिष्याम्यहं यावन्मेध्यत्वं त्वमुपेष्यसि

॥४७॥

भ्रांतोऽहं भूतले यानि तीर्थान्यायतनानि च।

नचैष मेध्यतां प्राप्तः परिश्रांतोस्मि सांप्रतम्

॥४८॥

तस्मात्सर्वां महीं त्यक्त्वा लज्जया परया युतः।

द्वीपान्महार्णवांस्त्यक्त्वा संप्रयास्याम्यतः परम्

॥४९॥

मा वसिष्ठस्य पुत्राणामुपहासपदं गतः।

प्रतिज्ञारहितो विप्र सत्यमेद्ब्रवीम्यहम्

॥५०॥

श्रीमार्कंडेय उवाच

यद्येवं मुनिशार्दूल कुरुष्व वचनं मम।

सप्तद्वीपवतीं पृथ्वीं मा त्यक्त्वा कुत्रचिद्व्रज

॥५१॥

एतस्मात्पर्वतात्क्षेत्रं हाटकेश्वरसंज्ञितम्।

अस्ति नैर्ऋतदिग्भागे देशे चानर्तसंज्ञके

॥५२॥

तत्राद्यं स्थापितं लिंगं हाटकेन सुरोत्तमैः।

यत्तत्संकीर्त्यते लोके पाताले हाटकेश्वरम्

॥५३॥

पातालजाह्नवीतोयं यत्रैवास्ति द्विजोत्तम।

उद्धृते शंभुना लिंगे विनिष्क्रांतं रसातलात्

॥५४॥

तत्र प्रविश्य यत्नेन पातालं वसुधाधिपः।

करोतु जाह्नवीतोये स्नानं श्रद्धासमन्वितः

॥५५॥

पश्चात्पश्यतु तल्लिंगं हाटकेश्वरसंज्ञितम्।

भविष्यति ततः शुद्धश्चंडालत्वविवर्जितः

॥५६॥

त्वमपि प्राप्स्यसि श्रेयः परं हृदयसंस्थितम्।

ततोन्यदपि यत्किंचित्तत्रैव तपसि स्थितः

॥५७॥

सूत उवाच

तस्य तद्वचनं श्रुत्वा विश्वामित्रो मुनीश्वरः।

त्रिशंकुना समायुक्तो गतस्तत्र द्रुतं ततः

॥५८॥

पाताले देवमार्गेण प्रविश्य नृपसत्तमम्।

त्रिशंकुं स्नापयामास विधिदृष्टेन कर्मणा

॥५९॥

स्नातमात्रोथ राजा स हाटकेश्वदर्शनात्।

चंडालत्वेन निर्मुक्तो बभूवार्कसमद्युतिः

॥६०॥

ततस्तं स मुनिः प्राह प्रणतं गतकल्मषम्।

दिष्ट्या मुक्तोसि राजेंद्र चंडालत्वेन सांप्रतम्

॥६१॥

दिष्ट्या प्राप्तः परं तेजो दिष्ट्या प्राप्तः परं तपः।

तस्माद्यजस्व सत्रेण विधिवद्दक्षिणावता

॥६२॥

येन संप्राप्स्यसे सिद्धिं नित्यं या हृदये स्थिता।

त्वत्कृते प्रार्थयिष्यामि स्वयं गत्वा पितामहम्

॥६३॥

मखांशं सर्वदेवाद्यो येन गृह्णाति ते मखे।

तस्मादत्रैव संभारान्सर्वान्यज्ञसमुद्भवान्।

आनय ब्रह्मलोकाच्च यावदागमनं मम

॥६४॥

बाढमित्येव सोऽप्याह स मुनिः संशितव्रतः।

पितामहमुपागम्य प्रणिपत्याब्रवीद्वचः

॥६५॥

याजयिष्याम्यहं भूपं त्रिशंकुं प्रपितामह।

मानुषेण शरीरेण येन गच्छति ते पदम्

॥६६॥

तस्मादागच्छ तत्र त्वं यज्ञवाटं पितामह।

सर्वैः सुरगणैः सार्धं शिवविष्णुपुरःसरैः

॥६७॥

प्रगृहाण स्वहस्तेन यज्ञभागं यथोचितम्।

सशरीरो दिवं याति येनासौ त्वत्प्रसादतः

॥६८॥

ब्रह्मोवाच

न यज्ञकर्मणा स्वर्गःस्वेन कायेन लभ्यते।

मुक्त्वा देहांतरं ब्रह्मंस्तस्मान्मैवं वदस्व माम्

॥६९॥

वयमग्निमुखाः सर्वे हविर्गृह्णामहे मखे।

वेदोक्तविधिना सम्यग्यजमानहिताय वै

॥७०॥

तस्माद्वह्निमुखे भूयः स जुहोति हविर्द्विज।

ततः संप्राप्स्यति स्वर्गं त्वत्प्रसादादसंशयम्

॥७१॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्रयां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये त्रिशंकूपाख्याने विश्वामित्रकृतत्रिशंकुयाजनोपक्रमवर्णनंनाम चतुर्थोऽध्यायः ॥ ४ ॥