मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — नागरखण्डः, अध्याय ५०

3
नागरखण्डः · 50

गोव्याघ्रसंवादवर्णनम्

एवं तस्य नरेन्द्रस्य व्याघ्ररूपस्य कानने ॥

जगाम सुमहान्कालो निघ्नतो विविधान्द्विज

॥१॥

कस्यचित्त्वथ कालस्य तस्मिन्देशे द्विजोत्तमाः ॥

आ यातं गोकुलं रम्यं गोपगोपीसमाकुलम्

॥२॥

तत्रास्ति नन्दिनीनाम धेनुः पीनपयोधरा ॥

विस्तीर्णजघनाभोगा हंसवर्णा घटस्रवा

॥३॥

अथ सा निजयूथस्य सदाग्रे तृणवांछया ॥

भ्रममाणा निकुञ्जांते लिंगं देवस्य शूलिनः

॥४॥

अपश्यत्तेजसा युक्तं स्वयमेव व्यवस्थितम् ॥

द्वादशार्कप्रतीकाशं चित्ताह्लादकरं परम्

॥५॥

ततस्तस्योपरि स्थित्वा सुस्राव सुमहत्पयः ॥

श्रद्धया परया युक्ता तस्य स्नानकृते द्विजाः

॥६॥

एवं तां स्नपनं तस्य सदा लिंगस्य कुर्वतीम् ॥

न जानाति जनः कश्चिद्वने वृक्षसमाकुले

॥७॥

अन्यस्मिन्दिवसे तत्र स्थाने व्याघ्रः समागतः ॥

तीक्ष्णदंष्ट्रो महाकायः सर्वजन्तुभयावहः

॥८॥

अथ सा तत्र आयाता पतिता दृष्टिगोचरे ॥

नन्दिनी द्वीपिनस्तस्य दैवयोगाद्द्विजोत्तमाः

॥९॥

ततः सा गोकुले बद्धं स्मृत्वा स्वं लघुवत्सकम् ॥

अतृणादं पयोवृत्तिं करुणं पर्यदेवयत्

॥१०॥

अद्यैकाहं च संप्राप्ता कानने जनवर्जिते ॥

पुत्रं बालं परित्यज्य गोपैर्गोष्ठे नियंत्रितम्

॥११॥

येन सत्येन भक्त्याद्य स्नपनायाहमागता ॥

शिवस्य तेन सत्येन भूयान्मे सुतसंगमः

॥१२॥

एवं सा करुणं यावन्नन्दिनी विलपत्यलम् ॥

तावद्व्याघ्रः स्मितं कृत्वा प्रोवाच परुषाक्षरम्

॥१३॥

व्याघ्र उवाच

प्रलापान्किं मुधा धेनो करोषि वशगा मम ॥

तस्मादिष्टतमं देवं स्मर स्वर्गकृते शुभे

॥१४॥

धेनुरुवाच

नाहमात्मकृते व्याघ्र विलपामि सुदुः खिता ॥

शिवार्चनकृते मृत्युर्मम जातः शुभावहः

॥१५॥

वत्सो मे गोकुले बद्धः स्मरमाणो ममागमम् ॥

सन्तिष्ठते पयोवृत्तिः कथं स्यात्स मया विना

॥१६॥

एतस्मात्कारणाद्व्याघ्र विलपामि सुदुःखिता ॥

न चात्मजीवनार्थाय सत्येनात्मानमालभे

॥१७॥

तस्मान्मुंच महाव्याघ्र मां सद्यः सुतवत्सलाम् ॥

सखीजनस्य तं दत्त्वा समागच्छामि तेंतिकम्

॥१८॥

व्याघ्र उवाच

कथं मृत्युमुखं प्राप्य निष्क्रम्य च कथञ्चन ॥

भूयस्तत्रैव निर्यासि तस्मात्त्वां भक्षयाम्यहम्

॥१९॥

नन्दिन्युवाच

शपथैरागमिष्यामि यैः पुनर्व्याघ्र तेंऽतिकम् ॥

तानाकर्णय मे वक्त्रात्ततो युक्तं समाचर

॥२०॥

यत्पापं ब्रह्महत्यायां मातापित्रोश्च वंचने ॥

तेन पापेन लिप्येहं नागच्छामि पुनर्यदि

॥२१॥

विवस्त्रं स्नानसक्तानां दिवामैथुनगामिनाम् ॥

यत्पापं तेन लिप्येऽहं नागच्छामि पुनर्यदि

॥२२॥

रजस्वलानुसक्तानां यत्पापं नग्नशायिनाम् ॥

तेन पापेन लिप्येऽहं नागच्छामि पुनर्यदि

॥२३॥

विश्वासघातकानां च कृतघ्नानां च यद्भवेत् ॥

तेन पापेन लिप्येऽहं नागच्छामि पुनर्यदि

॥२४॥

गोकन्याब्राह्मणानां च दूषकानां च यद्भवेत् ॥

तेन पापेन लिप्येऽहं नागच्छामि पुनर्यदि

॥२५॥

वृथापाकप्रकर्तृणां वृथामांसाशिनां च यत् ॥

तेन पापेन लिप्येऽहं नागच्छामि पुनर्यदि

॥२६॥

व्रतभंगप्रकर्तृणामनृतौ गामिनां च यत् ॥

तेन पापेन लिप्येऽहं नागच्छामि पुनर्यदि

॥२७॥

पैशुन्यसूचकानां च यत्पापं शस्त्रकर्मणाम् ॥

तेन पापेन लिप्येऽहं नागच्छामि पुनर्यदि

॥२८॥

इति श्रीस्कान्दे महापुराण एकाशीति साहरस्र्यां संहितायां षष्ठे नागरखण्डे श्रीहाटकेश्वरक्षेत्रमाहात्म्ये कलशेश्वरमाहात्म्ये गोव्याघ्रसंवादवर्णनंनाम पञ्चाशत्तमोऽध्यायः ॥ ५० ॥