मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — नागरखण्डः, अध्याय १६४

3
नागरखण्डः · 164

एतस्मिन्नंतरे पुष्पः प्रहृष्टेनान्तरात्मना

सूत उवाच

एतस्मिन्नंतरे पुष्पः प्रहृष्टेनान्तरात्मना ॥

चंडशर्मगृहं गत्वा दिष्ट्यादिष्ट्येति चाब्रवीत्

॥१॥

विवर्णवदनं दृष्ट्वा वाष्पपूर्णेक्षणं तदा ॥

बान्धवैः सहितं सर्वैर्दारैर्भृत्यैस्तथा सुतैः

॥२॥

पुष्प उवाच

तवार्थे च मया सूर्यः कायत्यागेन तोषितः ॥

पतितत्त्वं न ते काये तत्प्रसादाद्भविष्यति

॥३॥

तव पुत्राश्च पौत्राश्च ये भविष्यंति वंशजाः ॥

नागराणां च ते सर्वे भविष्यंति गुणाधिकाः

॥४॥

तस्मादुत्तिष्ठ गच्छामो नदीं पुण्यां सरस्वतीम् ॥

तस्यास्तटे निवासाय कृत्वा चैवाश्रमं द्विज

॥५॥

त्वया सह वसिष्यामि अहमेव न संशयः ॥

अस्ति मे विपुलं वित्तं ये चान्ये तेऽनुयायिनः

॥६॥

तान्सर्वान्पोषयिष्यामि त्यज्यतां मानसो ज्वरः ॥

तच्छ्रुत्वा चण्डशर्मा तु पुत्रैर्बंधुभिरन्वितः

॥७॥

सरस्वतीं समुद्दिश्य निष्क्रांतो नगरात्ततः ॥

स्थानं प्रदक्षिणीकृत्य नमस्कृत्य सुदुःखितः

॥८॥

बाष्पपूर्णेक्षणो दीन उत्तराभिमुखो ययौ ॥

पुष्पेण सहितश्चैव मुहुर्मुहुः प्रबोधितः

॥९॥

ततः सरस्वतीं प्राप्य पुण्यां शीतजलां नदीम् ॥

सेवितां मुनिसंघैस्तां लोलकल्लोलमालिनीम्

॥१०॥

तस्या दक्षिणकूले स निवासमकरोत्तदा ॥

पुष्पस्य मतिमास्थाय बन्धुभिः सकलैर्वृतः

॥११॥

तस्यासीन्नगरस्थस्य प्रतिज्ञा चण्डशर्मणः ॥

सप्तविंशति भिर्लिंगैर्दृष्टैभोक्ष्याम्यहं सदा

॥१२॥

तां च संस्मरतस्तस्य प्रतिज्ञां पूर्वसंचिताम् ॥

हृदयं दह्यते तस्य दिवानक्तं द्विजोत्तमाः

॥१३॥

स च स्नात्वा सरस्वत्यां शुचिर्भूत्वा समाहितः ॥

षडक्षरस्य मन्त्रस्य जपं चक्रे पृथक्पृथक्

॥१४॥

नाम चोच्चार्य लिंगस्य नमस्कारान्तमादधे ॥

कर्दमेन द्विजश्रेष्ठाः पंचांगुलशतेन च

॥१५॥

संस्थाप्य पूजयेद्भक्त्या पुष्पधूपानुलेपनैः ॥

प्राणरुद्राञ्जपन्पश्चाच्छ्रद्धया परया युतः

॥१६॥

दुःस्थितं सुस्थितं वापि शिवलिंगं न चालयेत् ॥

इति मत्वा द्विजेन्द्रोऽसौ नैव तानि विसर्जयेत्

॥१७॥

उपर्युपरि तेषां च कर्दमेन द्विजोत्तमाः ॥

चक्रे लिंगानि नित्यं स सप्तविंशतिसंख्यया

॥१९॥

ततः कालेन महता जातः कर्दमपर्वतः

॥१९॥

अथ तुष्टो महादेवस्तस्य भक्त्यतिरेकतः ॥

निर्भिद्य धरणीपृष्ठं तस्य लिंगमदर्शयत्

॥२०॥

अब्रवीत्सादरं तं च मेघगम्भीरया गिरा ॥

चण्डशर्मन्प्रतुष्टोस्मि तव भक्त्याऽनया द्विज

॥२१॥

तस्माल्लिंगमिदं नित्यं पूजयस्व प्रभक्तितः ॥

सप्तविंशतिलिंगानां यतः फलमवाप्स्यसि

॥२२॥

अन्योपि च नरो भक्त्या यश्चैनं पूजयिष्यति ॥

सप्तविंशतिलिंगानां सोऽपि श्रेयोऽभिलप्स्यति

॥२३॥

एवमुक्त्वा स भगवांस्ततश्चादर्शनं गतः ॥

चंडशर्मापि तं हृष्टः पूजयामास तत्त्वतः

॥२४॥

प्रासादं कारयामास तस्य लिंगस्य शोभनम् ॥

नाम चक्रे ततस्तस्य विचार्य च मुहुर्मुहुः

॥२५॥

नगरस्थित लिंगानां यस्मात्संस्मरणात्स्थितः ॥

नागरेश्वरसंज्ञस्तु तस्मादेष भविष्यति

॥२६॥

सूत उवाच

एवं संस्थाप्य तल्लिंगं चंडशर्मा द्विजोत्तमाः ॥

आराधयामास तदा पुष्पधूपानुलेपनैः

॥२७॥

सप्तविंशतिलिंगानां प्राप्नोति च तथा फलम् ॥

पूजितानां द्विजश्रेष्ठा नगरे यानि तानि च

॥२८॥

ततः कालेन महता नागरेश्वरतुष्टितः ॥

शिवलोकं गतः साक्षाद्यानमध्ये निवेशितः

॥२९॥

पुष्पोपि स्थापयामास पुष्पादित्यमथापरम् ॥

पुण्ये सरस्वतीतीरे ततः पूजापरोऽभवत्

॥३०॥

तस्यापि दर्शनं गत्वा प्रीत्या वचनमब्रवीत् ॥

पुष्प तुष्टोस्मि भद्रं ते वरं प्रार्थय सुव्रत

॥३१॥

अदेयमपि दास्यामि तस्मात्प्रार्थय मा चिरम्

॥३२॥

पुष्प उवाच

यदि तुष्टोऽसि मे देव यदि देयो वरो मम ॥

तद्देहि याचमानस्य मम यद्धृदि संस्थितम्

॥३३॥

चमत्कारपुरे देव तव या मूर्तयः स्थिताः ॥

द्वादशैव प्रमाणेन पूज्याः सर्वदिवौकसाम्

॥३४॥

तासां पूजाफलं कृत्स्नं संप्राप्नोतु नरो भुवि ॥

यः पूजयति मूर्तिं ते यैषा संस्थापिता मया

॥३५॥

नागरादित्य इत्येषा ख्याता भवतु भूतले ॥

येयं सरस्वतीतीरे प्रासादे स्थापिता मया

॥३६॥

सूत उवाच

स तथेति प्रतिज्ञाय गतश्चादर्शनं रविः ॥

दीपवद्ब्राह्मणश्रेष्ठास्तदद्भुतमिवा भवत्

॥३७॥

ततः कालेन महता पुष्पोपि द्विजसत्तमाः ॥

सूर्यलोकमनुप्राप्तो विमानेन सुवर्चसा

॥३८॥

शाकम्भरीति विख्याता भार्याऽऽसीच्चंडशर्मणः ॥

तया संस्थापिता दुर्गा सरस्वत्याः शुभे तटे

॥३९॥

आराधिताऽथ सद्भक्त्या दिवानक्तं द्विजोत्तमाः ॥

ततस्तुष्टा वरं तस्याः सा ददौ द्विजसत्तमाः

॥४॥

पुत्रि तुष्टास्मि भद्रं ते शाकंभरि प्रगृह्यताम् ॥

वरं यत्ते सदाभीष्टं मत्प्रसादादसंशयम्

॥४१॥

शाकम्भर्युवाच

चतुःषष्टिगणा देवि मातृणां ये व्यवस्थिताः ॥

चमत्कारपुरे ख्याता हास्यात्तुष्टिं व्रजंति याः

॥४२॥

या रात्रौ बलिदानेन जाते वृद्धौ ततः परम् ॥

तत्सर्वं जायतां पुण्यं यस्ते मूर्तिं प्रपूजयेत्

॥४३॥

अत्रागत्य नदीतीरे यैषा संस्थापिता मया

॥४४॥

श्रीदेव्युवाच

आश्विनस्य सिते पक्षे महानवमिसंज्ञिते ॥

यो ममाग्रे समागत्य पूजयिष्यति भक्तितः

॥४५॥

तस्य कृत्स्नं फलं सद्यो भविष्यति न संशयः ॥

नागरस्य विशेषेण सत्यमेतन्मयोदितम्

॥४६॥

एवमुक्त्वा तु सा देवी ततश्चादर्शनं गता ॥

तस्या नाम्ना च सा देवी प्रोक्ता शाकम्भरी भुवि

॥४७॥

वृद्धेरनंतरं तस्या यः पूजां कुरुते नरः ॥

तस्य वृद्धेर्न विघ्नः स्यात्कदाचिद्द्विजसत्तमाः

॥४८॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे श्रीहाटकेश्वरक्षेत्रमाहात्म्ये नागरेश्वरनागरादित्यशाकम्भर्युत्पत्तिवर्णनंनाम चतुःषष्ट्युत्तरशततमोsध्यायः ॥ १६४ ॥