मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — नागरखण्डः, अध्याय २६

3
नागरखण्डः · 26

गोकर्णतीर्थमाहात्म्यवर्णनम्

सूत उवाच

यत्पूर्वापरसीमान्तं तन्मया संप्रकीर्तितम् ॥

दक्षिणोत्तरसंभूतं तद्वो वक्ष्यामि सांप्रतम्

॥१॥

अस्ति भूभितले ख्याता मधुराख्या महापुरी ॥

नानाविप्रसमाकीर्णा यमुनातटसंश्रया

॥२॥

तस्यामासीद्द्विजश्रेष्ठो गोकर्ण इति विश्रुतः ॥

वेदाध्ययनसंपन्नः सर्वशास्त्रविचक्षणः

॥३॥

अथापरोऽस्ति तन्नामा तत्र विप्रो वयोऽन्वितः ॥

सोऽपि च ब्राह्मणः श्रेष्ठः सर्वविद्यासु पारगः

॥४॥

कस्यचित्त्वथकालस्य यमः प्राह स्वकिंकरम् ॥

ऊर्ध्वकेशं सुरक्ताक्षं कृष्णदन्तं भयानकम्

॥५॥

अद्य गच्छ द्रुतं दूत मथुराख्यां महापुरीम् ॥

आनयस्व द्विजश्रेष्ठं तस्यां गोकर्णसंज्ञकम्

॥६॥

तस्यायुषः क्षयो जातो मध्याह्नेऽद्यतने दिने ॥

त्याज्योऽन्योऽस्ति च तत्रैव चिरायुस्तादृशो द्विजः ॥

सूत उवाच ॥

अथ दूतो द्रुतं गत्वा तां पुरीं यमशासनात् ॥

विभ्रमादानयामास गोकर्णं च चिरायुषम्

॥८॥

ततः कोपपरीतात्मा यमः प्रोवाच किंकरम् ॥

दीर्घायुरेष आनीतो धिक्पाप किमिदं कृतम्

॥९॥

तस्मात्प्रापय तत्रैव यावदस्य च बन्धुभिः ॥

नो गात्रं दह्यते शोकात्सुसमिद्धेन वह्निना

॥१०॥

ब्राह्मण उवाच

नाहं तत्र गमिष्यामि दिष्ट्या प्राप्तोस्मि तेंऽतिकम् ॥

वांछमानः सदा मृत्युं दारिद्र्येण कदर्थितः

॥११॥

यम उवाच

निमिषेणापि नो मर्त्यमानयामि महीतलात् ॥

आयुःशेषेण विप्रेन्द्र पूर्णेनाथ त्यजामि न

॥१२॥

तत एव हि मे नाम धर्मराज इति स्मृतम् ॥

समत्वात्सर्वजंतूनां पक्षपातविवर्जनात्

॥१३॥

तस्माद्गच्छ गृहं विप्र यावद्गात्रं न दह्यते ॥

बंधुभिस्तव शोकार्तैर्नाधुना तत्र ते स्थितिः

॥१४॥

प्रार्थयस्व मनोऽभीष्टं वरं ब्राह्मणसत्तम ॥

न वृथा दर्शनं मे स्यात्कथंचिदपि देहिनाम्

॥१५॥

ब्राह्मण उवाच

अवश्यं यदि गंतव्यं मया देव गृहं पुनः ॥

तन्ममाचक्ष्व पृच्छामि वरश्चैष भवेन्मम

॥१६॥

एते ये नरका रौद्राः सेविताः पापकर्मभिः ॥

दृश्यंते वद कः केन कर्मणा सेव्यते जनैः

॥१७॥

यम उवाच

असंख्या नरका विप्र यथा प्राणिगणाः क्षितौ ॥

कृत्स्नशः कथितुं शक्या नैववर्षशतैरपि

॥१८॥

कीर्तयिष्यामि तेषां ते प्राधान्येन द्विजोत्तम ॥

एकविंशतिसंख्या ये पापिलोककृते कृताः

॥१९॥

आद्योऽयं रौरवो नाम नरको द्विजसत्तम ॥

प्रतप्ततैलकुंभेषु पच्यंते यत्र जंतवः

॥२०॥

हा मातस्तात पुत्रेति प्रकुर्वंति सुदारुणम् ॥

परपाकरताः क्षुद्राः परद्रव्या पहारकाः

॥२१॥

द्वितीय एष विप्रेंद्र महारौरवसंज्ञितः ॥

कृतघ्नैः सेव्यते नित्यं तथा च गुरुतल्पगैः

॥२२॥

रोरूयमाणैर्दाहार्तैः पच्यमानै र्हविर्भुजा ॥

खंडशः क्रियमाणैश्च तीक्ष्णशस्त्रैरनेकधा

॥२३॥

तृतीयोंऽधतमोनाम नरकः सुभयावहः ॥

अत्र ये पुरुषा यांति तांश्च वक्ष्यामि सुद्विज

॥२४॥

दुष्टेन चक्षुषा दृष्टाः परदारा नराधमैः ॥

सुलोहास्याः खगास्तेषां हरंत्यत्र विलोचने

॥२९॥

चतुर्थोऽयं प्रतप्ताख्यो नरकः संप्रकीर्तितः ॥

अत्र ते यातनां भुक्त्वा तथा शुद्धा भवंति च

॥२६॥

यैः कृता सततं निंदा गुरुदेवतपस्वि नाम् ॥

तेषामुत्पाट्यते जिह्वा जाताजाताऽत्र भूरिशः

॥२७॥

एषोऽन्यः पंचमो नाम सुप्रसिद्धो विदारकः ॥

मित्रद्रोहरताश्चात्र च्छिद्यंते करपत्रकैः

॥२८॥

प्रतप्तवालुकापूर्णो ध्मायते यश्च वह्निना ॥

निकुम्भ इति विख्यातः षष्ठो लोकभयावहः

॥२९॥

प्राणांतिकं पुरा दत्तं यैर्दुःखं प्राणिनां नरैः ॥

अपराधं विना तेऽत्र पच्यंते वालुकोत्करैः

॥३०॥

बीभत्सुरिति विख्यातः सप्तमो नरकाधमः ॥

मूत्रामेध्य समाकीर्णः समंतादतिगर्हितः

॥३१॥

राजगामि च पैशुन्यं यैः कृतं सुदुरात्मभिः ॥

अमेध्यपूर्णवक्त्रास्ते धार्यंतेऽत्र नराधमाः

॥३२॥

कुत्सितोनाम विख्यातो द्विजायं चाष्टमोऽधमः ॥

श्लेष्ममूत्राभिसंपूर्णैस्तथा गन्धैश्च कुत्सितैः

॥३३॥

गुरुदेवातिथिभ्यश्च स्वभृत्येभ्यो विशेषतः ॥

अदत्त्वा भोजनं यैस्तु कृतं तेऽत्र व्यवस्थिताः

॥३४॥

एष दुर्गमनामा च नवमो द्विजसत्तम ॥

तीक्ष्णकंटकसंकीर्णः सर्पवृश्चिकसंकुलः

॥३५॥

एकसार्थप्रयाताय क्षुत्क्षामायावसीदते ॥

अदत्त्वा भोजनं यैश्च कृतं तेऽत्र व्यवस्थिताः

॥३६॥

दशमोऽयं सुविख्यातो नरको नामदुः सहः ॥

तप्तलोहमयैः स्तंभैः समंतात्परिवारितः

॥३७॥

ये पापाः परदारेषु रक्ता मिष्टामिषेषु वा ॥

तप्तलोहमयान्स्तंभांस्तेऽत्रालिंगंति मानवाः

॥३८॥

एकादशोऽपरश्चायमाकर्षाख्यः प्रकीर्तितः ॥

नरको विप्रशार्दूल तप्तसंदंशसंकुलः

॥३९॥

स्त्रीविप्रगुरुदेवानां वित्तं चाश्नंति ये नराः ॥

संदंशैरपि कृष्यंते तत्र तप्तैः समंततः

॥४०॥

संदंशो द्वादशश्चायं तथाऽभक्ष्यप्रभक्षकाः ॥

लोहदंतमुखैर्गृधैर्भक्ष्यंतेऽत्र नराधमाः

॥४१॥

एष त्रयोदशोनाम सुविख्यातो नियंत्रकः ॥

समंतात्कृमिभिर्व्याप्तस्तथा च दृढबन्धनैः

॥४२॥

न्यासापहारकाः पापास्तत्र बद्धाश्च बंधनैः ॥

कृमिवृश्चिक कीटाद्यैर्भक्ष्यते द्विजसत्तम

॥४३॥

तथा चतुर्दशोनाम नरकोऽधोमुखः स्थितः ॥

नरकाणां समस्तानामेष रौद्रतमाकृतिः

॥४४॥

अत्र चाधोमुखा बद्धा वृक्षशाखावलंबिताः ॥

पच्यंते वह्निनाऽधस्ताद्ब्रह्मघ्ना ये च मानवाः

॥४५॥

यूकामत्कुणदंशाद्यैः संकीर्णोऽयं द्विजोत्तम ॥

नरको भीषणो नाम ख्यातः पञ्चदशो महान्

॥४६॥

कूटसाक्ष्यरतानां च तथैवानृतवादिनाम् ॥

अत्राश्रयो मया दत्तस्तथान्येषां कुकर्मिणाम्

॥४७॥

एष षोडश उद्दिष्टो नरको नाम क्षुद्रदः ॥

युधार्तैर्मानवैर्व्याप्तः समंताद्द्विजसत्तम

॥४९॥

मृष्टमांसानि यैः पापैर्भक्षितानि द्विजन्मभिः ॥

क्षुधार्तास्ते निजं कायं भक्षयंत्यत्र संस्थिताः

॥४९॥

तथा सप्तदशश्चायं क्षाराख्यो नरकः स्मृतः ॥

सुक्षारेण समाकीर्णः सर्वप्राणिभयावहः

॥५०॥

व्रतभंगकरा ये च ये च पाषण्डिनो नराः ॥

तेऽत्रागत्य शितैः शस्त्रैः पिष्यंते पापकृत्तमाः

॥५१॥

एष चाष्टादशो नाम कथितश्च निदाघकः ॥

ज्वलितांगारसंकीर्णो दुःसेव्यः सर्वदेहिनाम्

॥५२॥

दूषयंति च ये शास्त्रं काव्यं विप्रं च कन्यकाम् ॥

अंगारांतः स्थितातेऽत्र ध्रियंते मानवा द्विज

॥५३॥

एकोनविंशतिश्चायं प्रख्यातः कूटशाल्मलिः ॥

सुतीक्ष्णकंटकाकीर्णः समंताद्द्विजसत्तम ।

ा ५४ ॥

नास्तिका भिन्नमर्यादा ये च विप्रस्य घातकाः ॥

ते सर्वेऽत्र नरा नित्यमारुहंति पतंति च

॥९५॥

एष विंशतिमो नाम नरको द्विजसत्तम ॥

असिपत्रवनाख्यश्च कष्टसेव्यो दुरात्मभिः

॥५६॥

अत्र यांति नरा विप्र पररंध्रनिरीक्षकाः ॥

कूटकर्मरता ये च शास्त्रविक्रयकारकाः

॥५७॥

एकविंशतिमा चैषा नाम्ना वैतरणी नदी ॥

सर्वैरेव नरैर्गम्या धर्मपापानुयायिभिः

॥५८॥

मृत्युकाले समुत्पन्ने धेनुं यच्छंति ये नराः ॥

तस्या लांगूलमाश्रित्य तारयंति सुखेन च

॥५९॥

अदत्त्वा गां च ये मर्त्या म्रियंते द्विजसत्तम ॥

तीर्त्वा हस्तादिभिर्दुर्गा त इमां संतरंति च

॥६०॥

एतत्ते सर्वमाख्यातं यत्पृष्टोऽस्मि द्विजोत्तम ॥

विस्तरेण तव प्रीत्या स्वरूपं नरकोद्भवम्

॥६१॥

तस्माद्गच्छ गृहं शीघ्रं यावद्गात्रं न दह्यते ॥

बन्धुभिस्तव शोकार्तैर्गृहीत्वा वांछितं धनम्

॥६२॥

ब्राह्मण उवाच

यदि देव मया सम्यग्गंतव्यं निजमंदिरम् ॥

तद्ब्रूहि कर्मणा येन नरकं याति नो नरः

॥६३॥

यम उवाच

तीर्थयात्रापरो नित्यं देवतातिथिपूजकः ॥

ब्रह्मण्यश्च शरण्यश्च न याति नरकं नरः

॥६४॥

परोपकारसंयुक्तो नित्यं जपपरायणः ॥

स्वाध्यायनिरतश्चैव न याति नरकं द्विज

॥६५॥

वापीकूपतडागानि देवतायतनानि च ॥

यः करोति नरो नित्यं नरकं न स पश्यति

॥६६॥

हेमंते वह्निदो यः स्यात्तथा ग्रीष्मे जलप्रदः ॥

वर्षास्वाश्रयदो यश्च नरकं न स पश्यति

॥६७॥

व्रतोपवाससंयुक्तः शांतात्मा विजितेंद्रियः ॥

ब्रह्मचारी सदा ध्यानी नरकं याति नो नरः

॥६८॥

अन्नप्रदो नरो यः स्याद्विशेषेण तिलप्रदः ॥

अहिंसानिरतश्चैव नरकं न स पश्यति

॥६९॥

वेदाध्ययनसंपन्नः शास्त्रासक्तः सुमृष्टवाक् ॥

धर्माख्यानपरो नित्यं नरकं न स पश्यति

॥७०॥

ब्राह्मण उवाच

एतन्मूर्खोऽपि जानाति शुभकर्मकरः पुमान् ॥

न याति नरकं स्वर्गे तथा पापक्रियारतः

॥७१॥

तस्मादशुभकर्मापि कर्मणा येन पातकम् ॥

स्वल्पेनापि निहन्त्याशु याति स्वर्गं नरस्ततः

॥७२॥

तन्मेब्रूहि सुरश्रेष्ठ व्रतं नियममेव वा ॥

तीर्थं वा जपहोमं वा सर्वलोकसुखावहम्

॥७३॥

यम उवाच

अत्र ते सुमहद्गुह्यं कीर्तयिष्ये द्विजोत्तध ॥

गोपनीयं प्रयत्नेन वचनान्मम सर्वदा

॥७४॥

महापातकयुक्तोऽपि पुरुषो येन कर्मणा ॥

अनुष्ठितेन नो याति नरकं क्लेशकारकम्

॥७५॥

आनर्तविषये रम्यं सर्वतीर्थमयं शुभम् ॥

हाटकेश्वरजं क्षेत्रं महापातकनाशनम्

॥७६॥

तत्रैकमपि मासार्धं यो भक्त्या पूजयेद्धरम् ॥

स सर्वपापयुक्तोऽपि शिवलोके महीयते

॥७७॥

तस्मात्तत्र द्रुतं गत्वा त्वमाराधय शंकरम् ॥

येन गच्छसि निर्वाणं दशभिः पुरुषैः सह

॥७८॥

सूत उवाच

उपदेशं समाकर्ण्य स यदा प्रस्थितो गृहम् ॥

धर्मराजस्य संहष्टो मधुरां नगरीं प्रति

॥७९॥

तावद्द्वितीयं गो कर्णं दूत आदाय संगतः ॥

दर्शयामास धृत्वाग्रे धर्मराजस्य सत्वरम्

॥८०॥

ततः प्रोवाच तं दूतं धर्मराजः प्रहर्षितः ॥

गोकर्णं पुरतो दृष्ट्वा द्वितीयं प्रस्थितं गृहम्

॥८१॥

यस्मात्कालात्ययं कृत्वाऽऽनीतोऽयं ब्राह्मणस्त्वया ॥

तस्मादेनमपि क्षिप्रं द्वितीयेन समं त्यज

॥८२॥

ततस्तौ तत्क्षणान्मुक्तौ गोकर्णौ ब्राह्मणौ समम् ॥

स्वंस्वं कलेवरं प्राप्य सहसाथ समन्वितौ

॥८३॥

ततः स कथयामास गोकर्णः प्रथमो द्विजः ॥

यमोपदेशसंजुष्टो द्वितीयाय सविस्तरम्

॥८४॥

ततो गृहं परित्यज्य गोकर्णौ द्वावपि स्थितौ ॥

देवतायतनैर्व्याप्तं क्षेत्रं दृष्ट्वाऽखिलं ततः

॥८५॥

लिंगे संस्थापिते ताभ्यां सीमांते दक्षिणोत्तरे ॥

हाटकेश्वरजं क्षेत्रं संप्राप्य तपसि द्रुतम्

॥८६॥

ततः शिवं समाराध्य तपः कृत्वा यथोचितम् ॥

सशरीरौ दिवं प्राप्तौ तत्प्रभावाद्विजोत्तमाः

॥८७॥

ताभ्यां मार्गचतुर्दश्यां कृष्णायां जागरः कृतः ॥

यः करोति नरो भक्त्या स गच्छति शिवालयम्

॥८८॥

अपुत्रो लभते पुत्रान्धनार्थी धनमाप्नुयात् ॥

निष्कामस्तु पुनर्मोक्षं नरो याति न संशयः

॥८९॥

सूत उवाच

एतद्वः सर्वमाख्यातं सीमांतं द्विजसत्तमाः ॥

क्षेत्रस्यास्य प्रमाणं च विस्तरेण चतुर्दिशम्

॥९०॥

अत्रांतरे नरा ये च निवसंति द्विजोत्तमाः ॥

कृषिकर्मोद्यताश्चापि यांति ते परमां गतिम् ॥

किं पुनर्नियतात्मानः शांता दांता जितेंद्रियाः

॥९१॥

अपि कीटपतंगा ये पशवः पक्षिणो मृगाः ॥

तस्मिन्क्षेत्रे मृता यांति स्वर्गलोकं न संशयः

॥९२॥

किं पुनर्ये नरास्तत्र कृत्वा प्रायोपवेशनम् ॥

संन्यस्ताः श्रद्धयोपेता हृदयस्थे जनार्दने

॥९३॥

तस्मात्सर्व प्रयत्नेन तत्क्षेत्रं सेव्यमेव हि ॥

विशेषेण कलौ प्राप्ते युगे पापसमावृते

॥९४॥

पुनंति स्नानदानाभ्यां सर्वतीर्थान्यसंशयम् ॥

हाटकेश्वरजं क्षेत्रं पुनर्वासात्पुनाति च

॥९५॥

वापीकूपतडागेषु यत्रयत्र जलं द्विजाः ॥

तत्रतत्र नरः स्नातः सर्वपापैः प्रमुच्यते

॥९६॥

किं य्रज्ञैः किं वृथा दानैः क व्रतैः किं जपैरपि ॥

वरं तत्र कृतो वासः क्षेत्रे स्वर्गमभीप्सुभिः

॥९७॥

एतत्पवित्रमायुष्यं मांगल्यं पापनाशनम् ॥

हाटकेश्वरजक्षेत्रमाहात्म्यं शृण्वतां सदा

॥९८॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये गोकर्णतीर्थमाहात्म्य वर्णनंनाम षड्विंशोऽध्यायः ॥ २६ ॥