मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — नागरखण्डः, अध्याय ४३

3
नागरखण्डः · 43

विश्वामित्रमेनकासंवादवर्णनम्

मेनकोवाच

अन्यास्ता नायिका विप्र यासां धर्मस्त्वयोदितः ॥

स्वेच्छाचारविहारिण्यो वयं वेश्या दिवौकसाम्

॥१॥

स त्वं वद महाभाग कस्माद्देशात्समागतः ॥

मम चित्तहरो वापि तीर्थे धर्मिष्ठसंश्रये

॥२॥

त्वां दृष्ट्वाहं महाभाग कामदेव समाकृतिम् ॥

पुलकांचितसर्वांगी कामबाणप्रपीडिता

॥३॥

तस्माद्भजस्व मां रक्तां नो चेद्यास्यामि संक्षयम् ॥

कामबाणप्रदग्धा वै पुरोऽपि तव तापस ॥

ततः स्त्रीवधपापेन लिप्यसे त्वं न संशयः

॥४॥

तापस उवाच

वयं व्रतधराः सुभ्रु ब्रह्मचर्यपरायणाः ॥

मूर्खाः कामविधौ भद्रे निरताः शिवशासने

॥५॥

सर्वेषां व्रतिनां मूलं ब्रह्मचर्यमुदाहृतम् ॥

विशेषाच्छिवभक्तानामेवं भूयो विधास्यसि

॥६॥

अपि वर्षशतं साग्रं यत्तपः कुरुते व्रती ॥

सकृत्स्त्रीसंगमान्नाशं याति पाशुपतस्य च

॥७॥

मां च पाशुपतं लुब्धा कस्मात्त्वं भीरु भाषसे ॥

ईदृक्पापतमं कर्म गर्हितं शिवशासने

॥८॥

यः स्त्रीं भजति पापात्मा वृथा पाशुपतव्रती ॥

सोऽतीतान्दश चाधाय पुरुषान्नरके पचेत्

॥९॥

आस्तां तावत्समा संगं संस्पर्शं च वरानने ॥

संभाषमपि पापाय स्त्रीभिः पाशुपतस्य च

॥१०॥

तस्माद् द्रुततरं गच्छ स्थानादस्माद्वरांगने ॥

यत्रावाप्स्यसि चाभीष्टं तत्र त्वं गन्तुमर्हसि

॥११॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये विश्वामित्रकुण्डोत्पत्तिवृत्तान्ते विश्वामित्रमेनकासंवादवर्णनंनाम त्रिचत्वारिंशोऽध्यायः ॥ ४३ ॥