मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — नागरखण्डः, अध्याय २०९

3
नागरखण्डः · 209

शंखादित्यशंखतीर्थोत्पत्तिवृत्तांतवर्णनम्

आनर्त उवाच

सांप्रतं मुनिशार्दूल शंखतीर्थ समुद्भवम् ॥

माहात्म्यं वद मे कृत्स्नं श्रद्धा मे महती स्थिता

॥१॥

अहो तीर्थमहो तीर्थं हाटकेश्वरसंज्ञितम् [।

क्षेत्रं यच्च धरापृष्ठे सर्वाश्चर्यमयं शुभम्

॥२॥

नाहं तृप्तिं द्विजश्रेष्ठ प्रगच्छामि कथंचन ॥

शृण्वानस्तु सुमाहात्म्यं क्षेत्रस्यास्य समुद्भवम्

॥३॥

विश्वामित्र उवाच

अत्र ते कीर्तयिष्यामि पूर्ववृत्तं कथांतरम् ॥

शंखतीर्थस्य माहात्म्यं यथाजातं धरातले

॥४॥

आनर्ताधिपतिः पूर्वमासीदन्यो महीपतिः ॥

यथा त्वं सांप्रतं भूमौ सर्वलोकप्रपालकः

॥५॥

सोऽकस्मात्कुष्ठभाग्जातो विकलांगो बभूव ह ॥

अपुत्रः शत्रुभिर्व्याप्तस्त्रस्तश्च नृपसत्तमः

॥६॥

स सर्वैर्भूमिपालैश्च सर्वतः परिपीडितः ॥

राज्यभ्रंशसमोपेतः प्राप्तो रैवतकं गिरिम्

॥७॥

तत्रापि पीड्यते नित्यं सर्वतस्तु मलिम्लुचैः

॥८॥

हस्त्यश्वरथहीनस्तु कोशहीनो यदाऽभवत् ॥

स तदा चिंतयामास किं करोमि च सांप्रतम्

॥९॥

कलत्राण्यपि सर्वाणि ह्रियंते तस्करैर्बलात्

॥१०॥

स एवं चिंतयानस्तु गतो वै नारदं विभुम् ॥

द्रष्टुं पार्थिवशार्दूल वैष्णवे दिवसे स्थिते

॥११॥

तत्रापश्यत्स संप्राप्तं नारदं मुनिसत्तमम् ॥

तीर्थयात्राप्रसंगेन दामोदरदिदृक्षया

॥१२॥

तं प्रणम्याथ शिरसा कृतांजलिपुटः स्थितः ॥

प्रोवाच वचनं दीन उपविश्य तदग्रतः

॥१३॥

राजोवाच

शत्रुभिः परिभूतोऽहं समतान्मुनिसत्तम ॥

ततो राज्यपरिभ्रंशात्संप्राप्तोऽत्र महागिरौ

॥१४॥

विपिने तस्करैः पापैः प्रपीड्येऽहं समंततः ॥

यत्किंचिदश्वनागाद्यं मया सह समागतम्

॥१५॥

तत्सर्वं तस्करैर्नीतं कोशा दारास्तथा वसु ॥

तस्माद्वद मुनिश्रेष्ठ वैराग्यं मे महत्स्थितम्

॥१६॥

अन्यजन्मोद्भवं किंचिन्मम पापं सुदारुणम् ॥

येनेमां च दशां प्राप्तः सहसा मुनिसत्तम

॥१७॥

तस्य तद्वचनं श्रुत्वा चिरं ध्यात्वा मुनीश्वरः ॥

प्रोवाचाऽथ नृपं दीनं ज्ञात्वा दिव्येन चक्षुषा

॥१८॥

नारद उवाच

न त्वया कुत्सितं किंचित्पूर्व देहांतरे कृतम् ॥

मया ज्ञातं महाराज सर्वं दिव्येन चक्षुषा

॥१९॥

त्वमासीः पार्थिवः पूर्वं सिद्धपन्नगसंज्ञिते ॥

पत्तने सोमवंशीयः सर्व शत्रुनिबर्हणः

॥२०॥

त्वया चेष्टं महायज्ञैः सदा संपूर्णदक्षिणैः ॥

महादानानि दत्तानि पूजिता ब्राह्मणोत्तमाः

॥२१॥

तेन कर्म विपाकेन भूयः पार्थिवतां गतः

॥२२॥

आनर्त उवाच

इह जन्मनि नो कृत्यं संस्मरामि विभो कृतम् ॥

तत्किं राज्यपरि भ्रंशः सहसा मे समुत्थितः

॥२३॥

लक्ष्म्या हीनस्य लोकस्य लोकेऽस्मिन्व्यर्थतां व्रजेत् ॥

जीवितं मुनिशार्दूल विज्ञातं हि मयाऽधुना

॥२४॥

मृतो नरो गतश्रीको मृतं राष्ट्रमराजकम् ॥

मृतमश्रोत्रिये दानं मृतो यज्ञस्त्वदक्षिणः

॥२५॥

लक्ष्म्या हीनस्य मर्त्यस्य बांधवोऽपि विजायते ॥

प्रार्थयिष्यति मां नूनं दृष्ट्वा तं चान्यतो व्रजेत्

॥२६॥

यथा मां सांप्रतं दृष्ट्वा ये मयाऽपि प्रतर्पिताः ॥

तेऽपि दूरतरं यांति एष मां प्रार्थयि ष्यति

॥२७॥

धनहीनं नरं त्यक्त्वा कुलीनमपि चोत्तमम् ॥

गच्छति स्वजनोऽन्यत्र शुष्कं वृक्षमिवांडजाः

॥२८॥

तत्कार्यकारणार्थाय दरिद्रोऽ भ्येति चेद्गृहम् ॥

धनिनो भर्त्सयंत्येनं समागच्छंति नांतिकम्

॥२९॥

कृपणोऽपि धनाढ्यश्चेदागच्छति हि याचितुम् ॥

एष दास्यति मे किंचि दिति चित्ते नृणां भवेत्

॥३०॥

मम त्वं पूर्ववंशीयः पिता ते च पितुर्मम ॥

सदा स्नेहपरश्चासीत्त्वं च स्नेहविवर्जितः

॥३१॥

एवं ब्रुवंति लोकेऽत्र धनिनां पुरतः स्थिताः ॥

कुलीना अपि पापानां दृश्यंते धनलिप्सया ॥

दरिद्रस्य मनुष्यस्य क्षितौ राज्यं प्रकुर्वतः

॥३२॥

प्रशोषः केवलं भावी हृदयस्य महामुने ॥

द्वाविमौ कण्टकौ तीक्ष्णौ शरीरपरिशोषिणौ ॥

यश्चाधनः कामयते यश्च कुप्यत्यनीश्वरः

॥३३॥

श्मशानमपि सेवंते धनलुब्धा निशागमे ॥

जनेतारमपि त्यक्त्वा नित्यं यांति सुदूरतः

॥३४॥

सुमूर्खोपि भवेद्विद्वानकुलीनोऽपि सत्कुलः ॥

यस्य वित्तं भवे द्धर्म्ये विपरीतमतोऽन्यथा

॥३५॥

निर्विण्णोऽहं मुनिश्रेष्ठ जीवितस्य च सांप्रतम् ॥

तस्माद्ब्रूहि किमर्थं मे दारिद्र्यं समुपस्थितम्

॥३६॥

कुष्ठश्चापि ममोपेतः शत्रुभिश्च पराभवम् ॥

अन्यजन्मांतरं दृष्टं त्वया दिव्येन चक्षुषा

॥३७॥

कुकर्मणा न संस्पृष्टं स्वल्पेनापि ब्रवीषि माम् ॥

एतज्जन्मातरं दृष्टं स्मरामि मुनिसत्तम

॥३८॥

न मया कुकृतं किंचित्कदाचित्समनुष्ठितम् ॥

तत्किं राज्यपरिभ्रंशो जातोऽयं मम सन्मुने

॥३९॥

अत्र मे कौतुकं जातं तस्माद्देहि विनिर्णयम् ॥

भवेन्न वा भवेत्कर्म कृतं यच्च शुभाशुभम्

॥४०॥

विश्वामित्र उवाच

तस्य तद्वचनं श्रुत्वा चिरं ध्यात्वा तु नारदः ॥

कृपया परयाविष्टस्ततः प्रोवाच सादरम्

॥४१॥

शृणु राजन्प्रवक्ष्यामि यथा शुद्धिः प्रजायते ॥

तव राज्यस्य संप्राप्तिर्यथा भूयोऽपि जायते

॥४२॥

तव भूमौ महापुण्यमस्ति क्षेत्रं जगत्त्रये ॥

हाटकेश्वरसंज्ञं तु तीर्थं तत्रास्ति शोभनम् ॥

शंखतीर्थमिति ख्यातं सर्वपातकनाशनम्

॥४३॥

यस्तत्र कुरुते स्नानं श्रद्धया परया युतः ॥

अष्टम्यां शुक्लपक्षस्य संप्राप्ते मासि माधवे

॥४४॥

सूर्यवारे तु सम्प्राप्ते भास्करस्योदयं प्रति ॥

सर्वकुष्ठविनिर्मुक्तो जायते सूर्यसंनिभः

॥४५॥

यंयं काममभिध्यायेत्तंतं सर्वेषु दुर्लभम् ॥

स तदाऽऽप्नोत्यसंदिग्धं दृष्ट्वा शंखेश्वरं शुभम्

॥४६॥

किं त्वया न श्रुतं तत्र स्वदेशे वसता नृप ॥

तस्य तीर्थस्य माहात्म्यं यत्त्वमत्र समागतः

॥४७॥

सिद्धसेन उवाच

कथं शंखेश्वरो देवः संजातो वद सन्मुने

॥४८॥

नारद उवाच

अहं ते कथयिष्यामि कथामेतां पुरातनीम् ॥

यथा शंखेश्वरो जातः शंखतीर्थं तु पार्थिव

॥४९॥

आसतुर्ब्राह्मणौ पूर्वं लिखितः शंख एव च ॥

भ्रातरौ वेदविदुषौ तपस्युग्रे व्यवस्थितौ

॥५०॥

कस्यचित्त्वथ कालस्य लिखितस्याश्रमं प्रति ॥

भ्रातुर्ज्येष्ठस्य संप्राप्तो नमस्कारकृते नृप

॥५१॥

सोऽपश्यदाश्रमं शून्यं लिखितेन विवर्जितम्

॥५२॥

अथापश्यद्वने तस्मि न्परिपक्वफलानि सः ॥

प्रणयात्प्रतिजग्राह मत्वा भ्रातुर्नृपाऽऽश्रमम्

॥५३॥

एतस्मिन्नन्तरे प्राप्तो लिखितस्तत्र चाश्रमे ॥

यावत्पश्यति शंखं स प्रगृही तबृहत्फलम्

॥५४॥

किमिदं विहितं पाप पापं साधुविगर्हितम् ॥

चौर्यकर्म त्वया निंद्यं यद्धृतानि फलानि च

॥५५॥

अनेन कर्मणा तुभ्यं तपो यास्य ति संक्षयम् ॥

चौर्यकर्मप्रवृत्तस्य ब्राह्मणैर्गर्हितस्य च

॥५६॥

शंख उवाच

एकोदरसमुत्पन्नो ज्येष्ठभ्राता यथा पिता ॥

भूयादिति श्रुतिर्लोके प्रसिद्धा सर्वतः स्थिता

॥५७॥

तत्किं पुत्रस्य विप्रेन्द्र नाधिकारः पितुर्धने ॥

यथैवं निष्ठुरैर्वाक्यैर्निर्भर्त्सयसि मां विभो

॥५८॥

लिखित उवाच

न दोषो जायते हर्तुः पुत्रस्यात्र कथंचन ॥

एकत्र संस्थितस्यात्र पितुर्वित्तमसंशयम्

॥५९॥

विभक्तस्तु यदा पुत्रो भ्राता वाऽपहरेद्धनम् ॥

तदा दोषमवाप्नोति चौर्योत्थं मतमेव मे

॥६०॥

पुत्रस्य तु पुनर्वित्तं पिता हरति सर्वदा ॥

न तस्य विद्यते दोषो विभक्त स्यापि कर्हिचित्

॥६१॥

अत्र श्लोकः पुरा गीतो मनुना स्मृतिकारिणा ॥

तं तेऽहं संप्रवक्ष्यामि धर्मशास्त्रोद्भवं वचः

॥६२॥

त्रय एवाधप्रोक्ता भार्या दासस्तथा सुतः ॥

यत्ते समधिगच्छंति यस्य ते तस्य तद्धनम्

॥६३॥

शंख उवाच

यद्येवं चौर्यदोषोऽस्ति मम तात महत्तरः ॥

निग्रहं कुरु मे शीघ्रं येन न स्यात्तपःक्षयः

॥६४॥

विश्वामित्र उवाच

तस्य तं निश्चयं ज्ञात्वा शस्त्रमादाय निर्मलम् ॥

चकर्ताथ भुजौ तस्य भ्राता भ्रातुश्च निर्घृणः ॥

सोपि च्छिन्नकरो विप्रो व्यथयापि समन्वितः

॥६५॥

मन्यमानः प्रसादं तं भ्रातुर्ज्येष्ठस्य पार्थिव

॥६६॥

ततस्तु कामदं क्षेत्रं हाटकेश्वरसंज्ञितम् ॥

मत्वा प्राप्य तपस्तेपे कंचित्प्राप्य जलाशयम्

॥६७॥

वर्षास्वाकाशशायी च हेमन्ते सलिलाश्रयः ॥

पञ्चाग्निसाधको ग्रीष्मे षष्ठकालकृताशनः

॥६८॥

संस्नाप्य भास्करं स्थाणुं तत्पुरः शतरुद्रियम् ॥

जपन्सामोक्तरुद्रांश्च भव रुद्रांस्तथा जपन् ॥

प्राणरुद्रांस्तथा नीलान्स्कन्दसूक्तसमन्वितान्

॥६९॥

ततो वर्षसहस्रांते तुष्टस्तस्य महेश्वरः ॥

प्रोवाच दर्शनं गत्वा सह सूर्य वृषेश्वरैः

॥७०॥

महेश्वर उवाच

शंख तुष्टोऽस्मि ते वत्स तपसानेन सुव्रत ॥

तस्मात्कथय मे क्षिप्रं यद्ददामि तवाऽधुना

॥७१॥

शंख उवाच

यदि तुष्टोऽसि मे देव यदि देयो वरो मम ॥

जायेतां तादृशौ हस्तौ यादृशो मे पुरा स्थितौ

॥७२॥

त्वयाऽत्रैव सदा वासः कार्यः सुरवरेश्वर ॥

लिंगे कृत्वा दयां देव ममोपरि महत्तराम्

॥७३॥

एतज्जलाशयं नाथ मम नाम्ना धरातले ॥

प्रसिद्धिं यातु लोकस्य यावच्चन्द्रार्कतारकाः

॥७४॥

अत्र यः कुरुते स्नानं धृत्वा मनसि दुर्लभम् ॥

किंचिद्वस्तु समग्रं तु तस्य संपत्स्यते विभो

॥७५॥

श्रीभगवानुवाच

अद्याहं दर्शनं प्राप्तस्तव चैवाष्टमीदिने ॥

माधवस्य सिते पक्षे यस्माद्ब्राह्मणसत्तम

॥७६॥

तस्मात्संक्रमणं लिंगे तावकेऽस्मिन्द्विजोत्तम ॥

करिष्यामि न सन्देहो दिनमेकमसंशयम्

॥७७॥

यश्चात्र दिवसे प्राप्ते तीर्थेऽत्रैव भवोद्भवे ॥

स्नानं कृत्वा रवेर्वार उदयं समुपस्थिते

॥७८॥

पूजयिष्यति मे मूर्तिं त्वया संस्थापितां द्विज ॥

कुष्ठव्याधिविनिर्मुक्तो मम लोकं स यास्यति

॥७९॥

शेषकालेऽपि विप्रेन्द्र अज्ञानविहितादघात् ॥

मुक्तिं प्राप्स्यत्यसंदिग्धं मम वाक्याद्द्विजोत्तम

॥८०॥

तथा तवापि यौ हस्तौ छिन्नावेतावुभावपि ॥

तस्मिन्योगेऽभिषेकात्तौः स्यातां भूयोऽपि तादृशौ

॥८१॥

एष मे प्रत्ययो विप्र भविष्यति तवाऽधुना ॥

भूयः स्नानं विधाय त्वं ततो मूर्तिं ममार्चय

॥८२॥

अन्येऽपि व्यंगतां प्राप्ताः संयोगेऽत्र तव स्थिते ॥

स्नात्वा मां पूजयिष्यंति मुक्तिं यास्यंति ते द्विज

॥८३॥

एवमुक्त्वा सहस्रांशुस्ततश्चादर्शनं गतः ॥

शंखोऽपि तत्क्षणात्स्नात्वा पूजयित्वा दिवाकरम्

॥८४॥

यावत्पश्यति चात्मानं तावद्धस्तसमन्वितम् ॥

आत्मानं पश्यमानस्तु विस्मयं परमं गतः

॥८५॥

ततःप्रभृति तत्रैव कृत्वाऽऽश्रमपदं नृप ॥

तपस्तेपे द्विज श्रेष्ठो गतश्च परमां गतिम्

॥८६॥

तस्मात्त्वमपि राजेंद्र संयोगं प्राप्य तत्त्वतः ॥

तेनैव विधिना स्नात्वा त्वं पूजय दिवाकरम्

॥८७॥

यश्चैतच्छृणुयान्नित्यं पठेद्वा पुरतो रवेः ॥

तस्यान्वयेऽपि नो कुष्ठी कदाचित्सम्प्रजायते

॥८८॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहिताया षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये शंखादित्यशंखतीर्थोत्पत्तिवृत्तांतवर्णनंनाम नवोत्तरद्विशततमोऽध्यायः ॥ २०९ ॥