मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — नागरखण्डः, अध्याय १२६

3
नागरखण्डः · 126

सत्यसंधेश्वरमाहात्म्यवर्णनम्

सूत उवाच

एवं तस्य तपस्थस्य पुत्र्या सह द्विजोत्तमाः ॥

आजग्मुर्ब्राह्मणाः सर्वे चमत्कारपुरोद्भवाः

॥१॥

ब्राह्मणा ऊचुः

सन्देहेषु च सर्वेषु विवादेषु विशेषतः ॥

अभावात्पार्थिवेन्द्रस्य संजातश्च पराभवः

॥२॥

ततश्च द्विजवर्यैः स संन्यस्तः पृथिवीपतिः ॥

पृष्टश्च प्रार्थितश्चैव निजराज्यस्य रक्षणे ॥

अन्यस्मिन्दिवसे प्राह कृतांजलिपुटः स्थितः

॥३॥

राजोवाच

अनर्होऽहं द्विजश्रेष्ठाः संदेहं हर्तुमेव वः ॥

रक्षां कर्तुं विशेषेण त्यक्तशस्त्रोऽस्मि चाधुना

॥४॥

ब्राह्मणा ऊचुः

सर्वे वयं महाराज भूपस्याप्यधिका यतः ॥

अहंकारेण दर्पेण निजं स्थानं समाश्रिताः

॥५॥

न कस्यचिन्महाराज कदापि च कथंचन ॥

वर्तनायाश्च सन्देहः स्थानकृत्येऽपि संस्थितः

॥६॥

असंख्याता कृता वृत्तिः पुराऽस्माकं महात्मना ॥

ततः सा वृद्धिमानीता तत्परैः पार्थिवोत्तमैः

॥७॥

त्वया चैव विशेषेण यावद्राजा बृहद्बलः ॥

आनर्तविषये राजा यो यः स्यात्स प्रयच्छति

॥८॥

सर्वां वृत्तिं गृहस्थानां यथायोग्यं प्रयत्नतः ॥

तवाग्रे किं वयं ब्रूमस्त्वं वेत्सि सकलं यतः

॥९॥

यथा वृत्तिः पुरा दत्ता यथा संरक्षिता त्वया ॥

तस्माच्चिन्तय राजेन्द्र स्थानं वर्तनसंभवम् ॥

उपायं येन मर्यादा वृत्तिस्तस्मात्सुखेन तु

॥१०॥

ततः स सुचिरं ध्यात्वा गर्तातीर्थसमुद्भवान् ॥

आकार्योपमन्युवंशस्य संभवान्वेदपारगान्

॥११॥

प्रणिपातं प्रकृत्वाथ ततः प्रोवाच सादरम् ॥

मदीयस्थान संस्थानां ब्राह्मणानां विशेषतः

॥१२॥

सर्वकृत्यानि कार्याणि भृत्यवद्विनयान्वितैः ॥

नित्यं रक्षा विधातव्या युष्मदीयं वचोखिलम्

॥१३॥

एते संपालयिष्यन्ति मर्यादाकारमुत्तमम् ॥

सन्देहेषु च सर्वेषु विवादेषु विशेषतः

॥१४॥

राजकार्येषु चान्येषु एते दास्यन्ति निर्णयम् ॥

युष्मदीयं वचः श्रुत्वा शुभं वा यदि वाऽशुभम्

॥१५॥

एते पाल्याः प्रसादेन पुष्टिं नेयाश्च शक्तितः ॥

ईर्ष्यां सर्वां परित्यज्य मदीयस्थानवृद्धये

॥१६॥

बाढमित्येव तैः प्रोक्तः स राजा ब्राह्मणोत्तमान् ॥

चमत्कापुरोद्भूतान्भूयः प्रोवाच सादरम्

॥१७॥

युष्माकं वर्तनार्थाय सर्वकृत्येषु सर्वदा ॥

एते विप्रा मया दत्ता गर्तातीर्थसमुद्भवाः

॥१८॥

एतेषां वचनात्सर्वं युष्मदीयं प्रजायताम् ॥

प्रतिष्ठा जायते नूनं चातुश्चरणसूचिता

॥१९॥

नान्यथा ब्राह्मणश्रेष्ठाः स्वल्पं वा यदि वा बहु ॥

प्रोक्तं लक्षमितैरन्यैर्युष्मदीयपुरोद्भवैः

॥२०॥

सूत उवाच

ततस्ते ब्राह्मणा हृष्टास्तानादाय द्विजोत्तमान् ॥

तेषां मतेन चक्रुश्च सर्वकृत्यानि सर्वदा

॥२१॥

ततस्तत्र पुरे जाता मर्यादा धर्मवर्द्धिनी ॥

सर्वकृत्येषु सर्वेषां तथा वृद्धिः पुरस्य च

॥२२॥

तेऽपि तेषां प्रसादेन गर्त्तातीर्थभवा द्विजाः ॥

परां विभूतिमास्थाय मोदन्ते सुखसंयुताः

॥२३॥

कस्यचित्त्वथ कालस्य स राजा तत्पुरोत्तमम् ॥

समभ्येत्य द्विजान्सर्वांस्ततः प्रोवाच सादरम्

॥२४॥

युष्मदीयप्रसादेन क्षेत्रेऽत्र सुमहत्तपः ॥

कृतं स्वर्गं प्रयास्यामि सांप्रतं तु द्विजोत्तमाः

॥२५॥

नास्माकमन्वये कश्चित्सांप्रतं वर्तते नृपः ॥

तस्याहं लिंगमेतद्वै दर्शयामि द्विजोत्तमाः

॥२६॥

पूजार्थं चापि वृत्त्यर्थं भोगार्थं च विशेषतः ॥

तस्माद्युष्माभिरेवास्य पूजा कार्या प्रयत्नतः ॥

रथयात्रा विशेषेण दयां कृत्वा ममोपरि

॥२७॥

ब्राह्मणा ऊचुः

सप्त विंशतिलिंगानि यथेष्टानि महीतले ॥

चमत्कारसुतानां च पूज्यंते सर्वदैव तु

॥२८॥

अष्टाविंशतिमं तद्वदेतल्लिंगं तवोद्भवम् ॥

सर्वदा पूजयिष्यामो निश्चिन्तो भव पार्थिव

॥२९॥

अस्य यात्रां करिष्यामः कार्तिके मासि सर्वदा ॥

बलिपूजोपहारांश्च गीतवाद्यानि शक्तितः

॥३०॥

एवमुक्तः स तैर्हृष्टो गत्वात्मीयं तदाश्रमम् ॥

स्नापयित्वाथ तल्लिंगं पूजां चक्रे प्रभक्तितः

॥३१॥

सूत उवाच

एवं समर्पितं लिंगं तेन तद्धरसंभवम् ॥

सर्वेषां ब्राह्मणेंद्राणां वंशोच्छेदे स्थिते द्विजाः

॥३२॥

सकलं कार्तिकं मर्त्यो यस्तच्छ्रद्धासमन्वितः ॥

स्नापयेत्पूजयेच्चापि स नूनं मुक्तिमाप्नुयात्

॥३३॥

सोमस्य दिवसे प्राप्ते वर्षं यावत्कृतक्षणः ॥

तस्य पूजां करोत्येवं स्नापयित्वा विधानतः ॥

सोऽपि मुक्तिं व्रजेन्मर्त्य एतत्तातान्मया श्रुतम्

॥३४॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये सत्यसंधेश्वरमाहात्म्यवर्णनंनाम षड्विंशत्यधिकशततमोऽध्यायः ॥ १२६ ॥