मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — नागरखण्डः, अध्याय २३८

3
नागरखण्डः · 238

तपः शृणुष्व विप्रेंद्र विस्तरेण महामते

ब्रह्मोवाच

तपः शृणुष्व विप्रेंद्र विस्तरेण महामते ॥

यस्य श्रवणमात्रेण चातुर्मास्येऽ, घनाशनम्

॥१॥

षोडशैरुपचारैश्च विष्णोः पूजा सदा तपः ॥

ततः सुप्ते जगन्नाथे महत्तप उदाहृतम्

॥२॥

करणं पंचयज्ञानां सततं तप एव हि ॥

तन्निवेद्य हरौ चैव चातुर्मास्ये महत्तपः

॥३॥

ऋतुयानं गृहस्थस्य तप एव सदैव हि ॥

चातुर्मास्ये हरिप्रीत्यै तन्निषेव्यं महत्तपः

॥४॥

सत्यवादस्तपो नित्यं प्राणिनां भुवि दुर्लभम् ॥

सुप्ते देवपतौ कुर्वन्ननंतफलभाग्भवेत्

॥५॥

अहिंसादिगुणानां च पालनं सततं तपः ॥

चातुर्मास्ये त्यक्तवैरं महत्तप उदारधीः

॥६॥

तप एव महन्मर्त्यः पंचायतनपूजनम् ॥

चातुर्मास्ये विशेषेण हरिप्रीत्या समाचरेत्

॥७॥

नारद उवाच

पंचायतनसंज्ञेयं कस्योक्ता सा कथं भवेत् ॥

कथं पूजा च कर्तव्या विस्तरेणाशु तद्वद

॥८॥

ब्रह्मोवाच

प्रातर्मध्याह्नपूजायां मध्ये पूज्यो रविः सदा ॥

रात्रौ मध्ये भवेच्चंद्रस्तद्वर्णकुसुमैः शुभैः

॥९॥

वह्निकोणे तु हेरंबं सर्वविघ्नोपशांतये ॥

रक्तचंदन पुष्पैश्च चातुर्मास्ये विशेषतः

॥१०॥

नैर्ऋतं दलमास्थाय भगवान्दुष्टदर्पहा ॥

गृहस्थस्य सदा शत्रुविनाशं विदधाति सः

॥११॥

नैर्ऋत्यकोणगं विष्णुं पूजयेत्सर्वदा बुधः ॥

सुगन्धचंदनैः पुष्पैर्नैवेद्यैश्चातिशोभनैः

॥१२॥

गोत्रजा वायुकोणे तु पूजनीया सदा बुधैः ॥

पुत्रपौत्रप्रवृद्ध्यर्थं सुमनोभिर्मनोहरैः

॥१३॥

ऐशाने भगवान्रुद्रः श्वेतपुष्पैः सदाऽर्चितः ॥

अपमृत्युविनाशाय सर्वदोषापनुत्तये

॥१४॥

जागर्ति महिमा यस्य ब्रह्माद्यैर्नैव लिख्यते ॥

पंचायतनमेतद्धि पूज्यते गृहमेधिभिः

॥१५॥

तप एतत्सदा कार्यं चातुर्मास्ये महाफलम् ॥

पर्वकालेषु सर्वेषु दानं देयं तपः सदा ॥

चातुर्मास्ये विशेषेण तदनंतं प्रजायते

॥१६॥

शौचं तु द्विविधं ग्राह्यं बाह्यमाभ्यंतरं सदा ॥

जलशौचं तथा बाह्यं श्रद्धया चांतरं भवेत्

॥१७॥

इद्रियाणां ग्रहः कार्यस्तपसो लक्षणं परम् ॥

निवृत्त्येंद्रियलौल्यं च चातुर्मास्ये महत्तपः

॥१८॥

इन्द्रियाश्वान्सन्नियम्य सततं सुखमेधते ॥

नरके पात्यते प्राणैस्तैरेवोत्पथगामिभिः

॥१९॥

ममतारूपिणीं ग्राहीं दुष्टां निर्भर्त्स्य निग्रहेत् ॥

तप एव सदा पुंसां चातुर्मास्येऽधिगौरवम्

॥२०॥

काम एष महाशत्रुस्तमेकं निर्जयेद्दृढम् ॥

जितकामा महात्मानस्तैर्जितं निखिलं जगत्

॥२१॥

एतच्च तपसो मूलं तपसो मूलमेव तत् ॥

सर्वदा कामविजयः संकल्पविजयस्तथा

॥२२॥

तदेव हि परं ज्ञानं कामो येन प्रजायते ॥

महत्तपस्तदेवाहुश्चातुमास्ये फलोत्तमम्

॥२३॥

लोभः सदा परित्याज्यः पापं लोभे समास्थितम् ॥

तपस्तस्यैव विजयश्चातुर्मास्ये विशेषतः

॥२४॥

मोहः सदाऽविवेकश्च वर्जनीयः प्रयत्नतः ॥

तेन त्यक्तो नरो ज्ञानी न ज्ञानी मोहसंश्रयात

॥२५॥

मद एव मनुष्याणां शरीरस्थो महारिपुः ॥

सदा स एव निग्राह्यः सुप्ते देवे विशेषतः

॥२६॥

मानः सर्वेषु भूतेषु वसत्येव भयावहः ॥

क्षमया तं विनिर्जित्य चातुर्मास्ये गुणाधिकः

॥२७॥

मात्सर्यं निर्जयेत्प्राज्ञो महापातककारणम् ॥

चातुर्मास्ये जितं तेन त्रैलोक्यममरैः सह

॥२८॥

अहंकारसमाक्रांता मुनयो विजितेंद्रियाः ॥

धर्ममार्गं परित्यज्य कुर्वत्युन्मार्गजां क्रियाम्

॥२९॥

अहंकारं परित्यज्य सततं सुखमाप्नुयात् ॥

चातुर्मास्ये विशेषेण तस्य त्यागे महाफलम्

॥३॥

एतद्धि तपसो मूलं यदेतन्मनसस्त्यजेत् ॥

त्यक्तेष्वेतेषु सर्वेषु पर ब्रह्ममयो भवेत्

॥३१॥

प्रथमं कायशुद्ध्यर्थं प्राजापत्यं समाचरेत् ॥

शयने देवदेवस्य विशेषेण महत्तपः

॥३२॥

हरेस्तु शयने नित्यमेकांतरमु पोषणम् ॥

यः करोति नरो भक्त्या न स गच्छेद्यमालयम्

॥३३॥

हरिस्वापे नरो नित्यमेकभक्तं समाचरेत् ॥

दिवसेदिवसे तस्य द्वादशाहफलं लभेत्

॥३४॥

चातुर्मास्ये नरो यस्तु शाकाहारपरो यदि ॥

पुण्यं क्रतुसहस्राणां जायते नात्र संशयः

॥३५॥

चातुर्मास्ये नरो नित्यं चांद्राय णव्रतं चरेत् ॥

एकैकमासे तत्पुण्यं वर्णितुं नैव शक्यते

॥३६॥

सुप्ते देवे च पाराकं यः करोति विशुद्धधीः ॥

नारी वा श्रद्धया युक्ता शतजन्माघ नाशनम्

॥३७॥

कृच्छ्रसेवी भवेद्यस्तु सुप्ते देवे जनार्दने ॥

पापराशिं विनिर्धूय वैकुण्ठे गणतां व्रजेत्

॥३८॥

तप्तकृच्छ्रपरो यस्तु सुप्ते देवे जनार्दने ॥

कीर्तिं संप्राप्य वा पुत्रं विष्णुसायुज्यतां व्रजेत्

॥३९॥

दुग्धाहारपरो यस्तु चातुर्मास्येऽभिजायते ॥

तस्य पापसहस्राणि विलयं यांति देहिनः

॥४०॥

मितान्नाशनकृद्धीरश्चातुर्मास्ये नरो यदि ॥

निर्धूय सकलं पापं वैकुण्ठपदमाप्नुयात्

॥४१॥

एकान्नाशनकृन्मर्त्यो न रोगैरभि भूयते ॥

अक्षारलवणाशी च चातुर्मास्ये न पापभाक्

॥४२॥

कृताहारो महापापैर्निर्मुक्तो जायते ध्रुवम् ॥

हरिमुद्दिश्य मासेषु चतुर्षु च न संशयः

॥४३॥

कन्दमूलाशनकरः पूर्वजान्सह चात्मना ॥

उद्धृत्य नरकाद्घोराद्याति विष्णुसलोकताम्

॥४४॥

नित्यांबुप्राशनकरश्चातुर्मास्ये यदा भवेत् ॥

दिनेदिनेऽश्वमेधस्य फलमाप्नोत्यसंशयम्

॥४५॥

शीतवृष्टिसहो यस्तु चातुर्मास्ये नरो भवेत् ॥

हरिप्रीत्यै जगन्नाथस्तस्यात्मानं प्रयच्छति

॥४६॥

महापाराकसंज्ञं तु महत्तप उदाहृतम् ॥

मासैकमुपवासेन सर्वं पूर्णं प्रजायते

॥४७॥

देवस्वापदिनादौ तु यावत्पवित्रद्वादशी ॥

पवित्रद्वादशीपूर्वं यावच्छ्रवणद्वादशी

॥४८॥

महापाराकमेतद्धि द्वितीयं परिकीर्तितम् ॥

श्रवणद्वादशीपूर्वं प्राप्ता चाश्विनद्वादशी

॥४९॥

महापाराक तृतीयं प्राज्ञैश्च समुदाहृतम् ॥

आश्विनद्वादशी चादौ प्राप्ता देवसुबोधिनी

॥५०॥

महापाराकमेतद्धि चतुर्थं परिकथ्यते ॥

एतेषामेकमपि च नारी वा पुरुषोऽपि वा

॥५१॥

यः करोति नरो भक्त्या स च विष्णुः सनातनः ॥

इदं च सर्वतपसां महत्तप उदाहृतम्

॥५२॥

दुष्करं दुर्लभं लोके चातुर्मास्ये मखाधिकम् ॥

दिवसेदिवसे तस्य यज्ञायुतफलं स्मृतम्

॥५३॥

महत्तप इदं येन कृतं जगति दुर्लभम् ॥

इदमेव महापुण्यमिदमेव महत्सुखम् ॥

इदमेव परं श्रेयो महापाराकसेवनम्

॥५४॥

नारायणो वसेद्देहे ज्ञानं तस्य प्रजायते ॥

जीवन्मुक्तः स भवति महापातककारकः

॥५५॥

तावद्गर्जंति पापानि नरकास्तावदेव हि ॥

तावन्मायासहस्राणि यावन्मासो पवासकः

॥५६॥

चातुर्मास्युपवासी यो यस्य प्रांगणिको भवेत् ॥

सोऽपि हत्यासहस्राणि त्यक्त्वा निष्कल्मषो भवेत्

॥५७॥

य इदं श्रावयेन्मर्त्यो यः पठेत्सततं स्वयम्

॥५८॥

सोऽपि वाचस्पतिसमः फलं प्राप्नोत्यसंशयम्

॥५९॥

इदं पुराणं परमं पवित्रं शृण्वन्गृणन्पापविशुद्धिहेतु ॥

नारायणं तं मनसा विचिन्त्य मृतोऽभिगच्छत्यमृतं सुराधिकम्

॥६०॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये शेषशाय्युपाख्याने ब्रह्मनारदसंवादे चातुर्मास्यमाहात्म्ये तपोमहिमावर्णनं नामाष्टत्रिंशदुत्तरद्विशततमोऽध्यायः ॥ २३८ ॥